________________ 198 टिप्पनक-परागविवृतिसंवलिता / सिंहासने समासीनम् [ग]. अचिराभिषेकनिष्पन्नपरिकर्माचरणम् , आमोदिना हरिचन्दनेनाङ्गरागेणानुलिप्तम्, प्रतिकुसुमोपविष्टनिःस्पन्दषट्पदनिपीयमानमकरन्दाभिराजानुलम्बिनीभिरभिनवसुरद्रुमसम्भिरुपरचितसर्वावयवपूजम् , उत्क्षिप्तसान्द्रकालागुरुक्षोदधूपम् , अतिमहाप्रमाणवज्रमणिशिलामयम् , अतिशयप्रशान्तदर्शनम् , अपश्चिमस्य भगवतो महावीरजिनवरस्य जन्ममरणार्णवावर्तवर्तिजन्तुनिकुरम्बैकावलम्बनं बिम्बमद्राक्षम् [घ]। दृष्ट्वा च तत्पितरमिव चिरात्प्रवासागतं स्वामिनमिव सर्वदा कृतोपकारमारूढगाढोत्कण्ठा स्मरन्तीव पूर्वसंसृष्टस्य कस्यचिदभीष्टजनस्य निर्निमित्तोदीर्णमन्युवेगकम्पितकुचयुगा कथमपि निरुन्धती कण्ठदेशागतमाक्रन्दशब्दमुपसृत्य सप्रश्रयमग्रतः परमया भक्त्या प्रसारितसकलगात्रयष्टिस्ताडयन्ती कुट्टिमे मुहुर्मुहुर्ललाटमाबद्धकरसंपुटा प्राणसिषम् / उत्थाय च पुरो निविष्टा विष्टपत्रयगुरोरास्यचन्द्रमसि निहितनिस्तरङ्गदृष्टिरनवरतनिर्यद्वाष्पमनिवार्योत्कण्ठमशक्यमावेदयितुं स्वसंवेद्यमानन्दशोकमिश्रं किमप्यवस्थान्तरमनुभवन्ती निश्चला हिरण्मये सुवर्णमये, महति विशाले, सिंहासने महासने, समासीनं समुपविशन्तम् ; [ग] / पुनः अचिराभिषेकनिष्पन्नपरिकर्माचरणम् अचिराभिषेकेण-अनतिपूर्वकालिकनपनेन,निष्पन्न-सिद्धं,परिकर्माचरण-शरीरशोभाऽऽधायककर्मानुष्ठानं यस्य तादृशम् ; पुनः आमोदिना उत्कटसौगन्ध्यशालिना, हरिचन्दनेन हरिचन्दनपङ्करूपेण, अङ्गरागेण विलेपनद्रव्येण, अनुलिप्तं व्याप्तम् ; पुनः प्रतिकुसुमोपविष्टनिःस्पन्दषट्पदनिपीयमानमकरन्दाभिः प्रतिकुसुमम्-एकैकपुष्पोपरि, उपविष्टैः, निःस्पन्दैः-निश्चलैः, स्थिरैरिति यावत्, षट्पदैः-भ्रमरैः, निपीयमानः-नितरां पीयमानः, आखाद्यमान इत्यर्थः, मकरन्दः-पुष्परसो यासु तादृशीभिः, पुनः आजानुलम्बिनीभिः ऊरूपर्वपर्यन्तलम्बमानाभिः, अभिनवसुरद्रुमस्रग्भिः नवीनदेववृक्षकुसुममालाभिः, उपरचितसावयवपूजम् उपरचिता-सम्पादिता, सर्वावयवपूजा-समस्तावयवावच्छिन्नार्चा यस्य तादृशम् ; पुनः उत्क्षिप्तसान्द्रकालागुरुक्षोदधूपम् उत्क्षिप्तः-परिक्षिप्तः, कालागुरोः-अग्नितापेन सुगन्धिभूतद्रव्यविशेषस्य, क्षोदः-चूर्णात्मकः धूपो यस्य तादृशम् ; पुनः अतिमहाप्रमाणवज्रमणिशिलामयम् अतिप्रमाणा-अत्यधिकप्रमाणा या वज्रजातीयमणिशिला, तन्मयं-तद्विकारभूतम् / पुनः अतिशयप्रशान्तदर्शनम् अतिशयप्रशान्तम्-अतिशयसौम्यं दर्शनं ; कस्य बिम्बम् ? अपश्चिमस्य न विद्यते पश्चिमो यस्य तादृशस्य, चरमस्य चतुर्विंशतितमस्य तीर्थकरस्येति यावत् भगवतः परमेश्वरस्य, महावीरजिनवरस्य तदाख्यजिनेन्द्रस्य, पुनः कीदृशम् ? जन्ममरणार्णवावर्तवर्तिजन्तुनिकुरम्बैकावलम्बनं जन्ममरणार्णवस्य-जन्ममृत्युरूपसंसारसागरस्य, य आवर्तः-जलभ्रमिः, तद्वर्तिनां-तत्स्थानां, जन्तूनां-जीवानां, निकुरम्बस्य-समूहस्य, एकं-मुख्यम् , अवलम्बनं तदुत्तरणसाधनम् [1] . च पुनः चिरात् दीर्घकालात् , प्रवासागतं विदेशादागतं, पितरमिव स्वकीयजनकमिव, पुनः सर्वदा सर्वकाले, कृतोपकारम् उपकृतवन्तं, स्वामिनमिव खप्रभुमिव, तत् महावीरजिनेन्द्रबिम्बं, दृष्टा चक्षुषा साक्षात्कृत्य, आरूढगाढोत्कण्ठा उत्पन्नोत्कटौत्सुक्या सती, पूर्वसंसृष्टस्य पूर्वकालिकसंसर्गतः, कस्यचित् कस्यापि, अभीष्टजनस्य अभिमतव्यक्तेः, स्मरन्तीव ध्यायन्तीव, निनिमित्तोदीर्णमन्युवेगकम्पितकुचयुगा निर्निमित्तम्-अकारणमेव यथा स्यात् तथा, उदीर्णेनउद्धतेन, मन्युवेगेन-दैन्यातिशयेन, कम्पितं कुचयुगं-स्तनद्वयं यस्यास्तादृशी, कण्ठदेशागतं कण्ठमार्गमागतम् , आक्रन्दशब्दं रोदनशब्दं, निरुन्धती निवारयन्ती, सप्रश्रयं सविनयं यथा स्यात् तथा, परमया अत्यन्तया भक्त्या प्रीत्या, अग्रतः अग्रे, उपसृत्य उपगत्य, प्रसारितसकलगात्रयष्टिः विस्तारितसमस्तशरीरदण्डा, कुट्टिमे मणिबद्धभूमौ, अनेकवार, ललाट, ताडयन्ती संघर्षन्ती, आबद्धकरसंपुटा रचिताञ्जलिः, अहमिति शेषः, प्राणसिषं प्रणतवती। च पुन उत्थाय, पुरः अग्रे, निविष्टा अवस्थिता, विष्टपत्रयगुरोः त्रिभुवनस्वामिनः, जिनेन्द्रदेवस्येत्यर्थः, आस्यचन्द्रमसि मुखचन्द्रे, निहितनिस्तरङ्गदृष्टिः निवेशितनिःस्यन्ददृष्टिः, अनवरतनिर्यद्वाष्पं निरन्तरनिर्गच्छन्नयनजलम् , पुनः अनिवायोत्कण्ठम् अनिराकरणीयौत्सुक्यम् , आवेदयितुं विज्ञापयितुम् , अशक्यं स्वसंवेद्यं, स्वमात्रानुभवनीयम् , आनन्दशोकमिश्रं हर्षविषादसंकीर्ण, किमपि अनिर्वचनीयम् , अवस्थान्तरम् अवस्थाविशेषम् , अनुभवन्ती, निश्चलानयष्टिः हमेहः "Aho Shrutgyanam"