________________ तिलकमञ्जरी 197 भिश्च सह समस्ताभिरवनिपालतनयाभिः प्रापयैनां प्रच्छन्नरूपामेव निजसदनम्' इति श्रवसि शिक्षयित्वा कृत्वा च देवताप्रणाममासनादुत्तस्थौ / अनूत्थितासन्नखेचरपरिवृतश्च गत्वायतनमण्डपद्वारमध्यासितमहार्हमणिमयविमानो विलोकयन्त्या एव मे झगिति नवनिशातनिस्त्रिंशनिर्मलमाकाशमुदपतत् [क]। प्रस्थिते च तत्र त्रिकूटाचलाभिमुखमौत्सुक्यतरलेक्षणस्तत्क्षणमेव पुरुषः स तासां क्षितिपकन्यानामाधिपत्ये सगौरवं मामतिष्ठिपत् , प्रवर्तयामास च पुनः पुनः समासन्नरम्योदेशदर्शनाय [ख] / ततोऽहमुत्साहिता तस्य वचनैरुत्थाय ताभिर्गृहीतवेत्रच्छत्रचामराभिरनुगम्यमाना सहचरीभिः प्रथममेव प्रविश्य परितः प्रेषितानिमेषदृष्टिदृष्टमिव पुरा, सेवितमिव भवान्तरे, कारितमिवात्मना, परिमलितमिव सर्वकालमवलोक्य प्रीतहृदया प्रासादम् ; अग्रतो गर्भगृहगर्भे प्रतिष्ठितम् , अदभ्रदेहप्रभाप्रसरदूरापसारितज्वलदुदगुदीपिकालोकम् , इभमृगेन्द्रचक्राध्यासिते सुराचल इव मरीचिमालिनममलरोचिषि हिरण्मये महति टिप्पनकम्-इभमृगेन्द्रचक्राध्यासिते सुराचले इव एकत्र करिसिंहसंघाताध्यारूढे, अन्यत्र गजसिंहधर्मचक्रयुक्ते [ग]। काञ्चीपतेः कुसुमशेखरस्य, दुहितुः सुतायाः, मलयसुन्दर्या इत्यर्थः, अस्मत्कृतं अस्माभिः प्रयुक्तं, बहुमानम् अधिकसत्कार, किञ्चित् ईषत् , दर्शयित्वा, अद्भुतवस्तुदर्शनेन आश्चर्यवस्तूनां दृष्टिमार्गारोपणेन, इहत्यम् अत्रत्यम् , आगमनं, सफलं सार्थकं, कुरु सम्पादय / च पुनः, एताभिः निकटतरवर्तिनीभिः समस्ताभिः सर्वाभिः, अवनिपालतनयाभिः नृपसुताभिः सह, प्रच्छन्नरूपामेव अन्यानभिज्ञानरूपामेव, एनां मलयसुन्दरी, निजसदनं वगृहं, प्रापय उपस्थापय, इति इत्थं, श्रवसि कर्णे शिक्षयित्वा तत्कर्तव्यमावेद्य च पुनः, देवताप्रणाम देवतानमस्कारं, कृत्वा, आसनात खोपवेशनाधारात् , उत्तस्थौ उत्थितः / च पुनः, अनूत्थितासन्नखेचरपरिवृतः अनु-पश्चात् , उत्थितैः, अनुसन्नैःनिकटोपविष्टैः, खेचरैः- विद्याधरैः, परिवृतः परिवेष्टितः सन् , आयतनमण्डपद्वारं जिनेन्द्रमन्दिरप्रवेशनिर्गमस्थानं, गत्वा, अध्यासितमहार्हमणिमयविमानः प्रशस्तमणिमयव्योमयानमारूढः, विलोकयन्त्या एव पश्यन्त्या एव, मे मम, पश्यन्तमपि मामुपेक्ष्येत्यर्थः, झटिति सत्वरं, नवनिशातनिस्त्रिंशनिर्मलं नवा:-नूतनाः, निशाताः तीक्ष्णाश्च, ये निस्त्रिंशाः-खगाः, तद्वत् निर्मलम्-उज्ज्वलम् , आकाशम् , उदपतत् उत्पतितवान् [क]। च पुनः तत्र तस्मिन् विद्याधरेश्वरे, त्रिकटाचलाभिमुखं त्रिकूटपर्वताभिमुखं, तद्दिशीत्यर्थः प्रस्थिते प्रयाते सति औत्सुक्यतरलेक्षणः सम्भ्रान्तलोचनः, स प्रकृतः, पुरुषः तपनवेगनामा राजकीयजनः, तासां प्रकृतानां, राजकन्यानां नृपसुतानाम् , आधिपत्ये तत्त्वावधाने, सगौरवं सादरं, माम् , अतिष्ठिपत् स्थापितवान् , च पुनः, समासन्नरम्यो. देशदर्शनाय अतिसन्निहितरमणीयप्रदेशदर्शनाय, पुनः पुनः अनेकवारं, प्रवर्तयामास प्रेरयामास [ख]। ततः तदनन्तरं, तस्य प्रकृतराजपुरुषस्य, वचनैः प्रवर्तकवाक्यैः, उत्साहिता प्रवर्तिता, अहम् , उत्थाय, गृहीतवेत्रच्छत्रचामराभिः गृहीतं-धृतं, वेत्रं-कनकादिदण्डः, छत्रम् , चामरं-चमरजातीयमृगलोमव्यजनं याभिस्तादृशीभिः, ताभिः राजकन्याभिः, सहचरीभिः सखीभिः, अनुगम्यमाना अनु-पश्चात् , व्याप्यमाना, प्रथममेव अनावृत्तिकमेव यथा स्यात् तथा, प्रविश्य अन्तर्गत्वा, परितः सर्वभागेषु, प्रेषितानिमेषदृष्टिः प्रवर्तितास्पन्ददृष्टिः सती, पुरा पूर्वमपि, दृष्टमिव पुनः भवान्तरे जन्मान्तरे, सेवितमिव आराधितमिव, पुनः आत्मना स्वेन, कारितमिव निर्मा पितमिव; पुनः सर्वकालं सततं, परिमलितमिव कुङ्कुमादिद्रवैर्मर्दितमिव, प्रासादं जिनभवनम् , अवलोक्य निरीक्ष्य, प्रीतहृदया प्रसन्नहृदया सती, अग्रतः अग्रे, बिम्बं मूर्तिम् , अद्राक्षं दृष्टवतीत्यप्रेणान्वेति; कीदृशम् ? गर्भगृहगर्भ अन्तगृहीमध्ये, प्रतिष्ठितम् अवस्थितम् ; पुनः अदभ्रदेहप्रभाप्रसरदूरापसारितज्वलदुदग्रदीपिकाऽऽलोकम् अदभ्रदेहप्रभाप्रसरेण-बहुलशरीरकान्तिविस्तारेण, दूरम् , अपसारितः-अपनीतः, ज्वलन्त्याः -दीप्यमानायाः, उदग्रदीपिकायाः-उन्नतदीपिकायाः, आलोकः-प्रकाशो येन तादृशम् / पुनः इभमृगेन्द्रचक्राध्यासिते मेरुपक्षे इभाना-हस्तिनां, मृगेन्द्राणां, सिंहानां च, यच्चक्र-मण्डलं तेन, सिंहासनपक्षे परिकरे उत्कीर्णो य इभः-गजः, मृगेन्द्रः-सिंहः, चक्र-धर्मचक्रं, तेन, अध्यासिते-अधितिष्ठते, सुराचले देवपर्वते, सुमेरुपर्वते इत्यर्थः, मरीचिमालिनमिव सूर्यबिम्बमिव, अमलरोचिषि उजवलप्रकाशशालिनि, "Aho Shrutgyanam"