________________ 196 टिप्पनक-परागविवृतिसंवलिता। तस्याः प्रियसखी निजप्रेम्णैव विज्ञाय कथयिष्यति यथावस्थितं सर्वमपि तद्वृत्तान्तम् / अपरं च यदि सा सत्यमेव वत्सा गन्धर्वदत्ता ततस्तया सह दर्शनमस्माकमचिरकालभावि, स एव भगवता तेन त्रिलोकविख्यातयशसा कालत्रयज्ञेन ज्ञानचक्षुषा प्रत्यक्षीकृतोऽस्या एव मलयसुन्दर्या विवाहसमयो मयैव प्रस्तुतः साधयिता, कृतमौत्सुक्येन' इति चिरं मया मत्रिणा च सार्धमारब्धसंलापस्य खेचरपतेः प्रशंसन्निव वचनमुपतोरणं रराण प्रभातशङ्खः [ अं]। श्रुत्वा च तं स विद्याधरेश्वरो विरतसंगीतकरसावेशो निवेशितमतिः स्नानदेवार्चनप्रभृतिनि प्राभातिके कर्मणि समासन्नोपविष्टानवलोक्य दृष्टया प्रसादस्निग्धया सर्वानेव देवयात्रादर्शनागतान् विद्याधरपतीन् क्रमेण विससर्ज / निक्षिप्तदृष्टिश्च मयि नरेन्द्रकन्यकासु च तासु किमपि स्वचेतसा संप्रधार्य युगपन्न्यञ्चितोभयभ्रु संज्ञया मनोज्ञवपुषं पुरुषमाप्ततममाजुहाव [अ] / ... सजवमुपसृत्य स्थितं च तं पुरस्तादास्यविन्यस्तवखपल्लवव्यञ्जितप्रश्रयम् 'अरे तपनवेग ! त्वरितमस्याः काञ्चीनृपदुहितुः किञ्चिदस्मत्कृतं दर्शयित्वा बहुमानमद्भुतवस्तुदर्शनेन कुरु सफलमिहत्यमागमनम् , एता टिप्पनकम्-साधयिता साधयिष्यति, कृतं पर्याप्तम् , चरमम् इति / वचनस्य विशेषणम् [अं]। न्यञ्चिताअधःखञ्चिता [अ]। इयं सन्निहिता, चित्रलेखैव, निजप्रेम्णैव स्वस्नेहेनैव, यथावस्थितं वस्तुसन्तं, सर्वमपि समस्तमपि, तद्वृत्तान्तं गन्धर्वदत्तावार्ता, विज्ञाय निरूप्य, कथयिष्यति वक्ष्यति। अपरं च किञ्च, यदि सत्यमेव नूनमेव, सा प्रकृता, वत्सा मत्पुत्री, गन्धर्वदत्ता, ततः तर्हि, त्रिलोकविख्यातयशसा भुवनत्रयप्रसिद्धत्रिकालदर्शनमाहात्म्यशालिना, पुनः कालत्रयज्ञेन अतीतादित्रिकालदर्शिना, तेन प्रकृतेन, भगवता मुनिना, ज्ञानचक्षुषा निरवधिज्ञानलोचनेन, प्रत्यक्षीकृतः साक्षात्कृतः, मयैव प्रस्तुतः प्रवर्तितः, उपस्थापयिष्यमाण इत्यर्थः, अस्याः प्रत्यक्षभूतायाः मलयसुन्दर्या एव, स एव तदुपदर्शित एव विवाहसमयः विवाहावसरः, अस्माकं तत्पित्रादीनाम् , अचिरकालभावि शीघ्रभावि, तया गन्धर्वदत्तया सह, दर्शनं चक्षुषा साक्षात्कारं, साधयिता सम्पादयिष्यति, औत्सुक्येन त्वरया, कृतम् अलं, न किमपि फलम् / इति इत्थं, चिरं दीर्घकालं, "चरममिति वचनस्य विशेषणम्” इति टिप्पणिकावचनेन चिरमित्यस्य स्थाने अधिका वा 'चरमम्' इति पाठोऽनुमीयत मया च पुनः, मन्त्रिणा वीर्यमित्रेण, सार्धं सह, आरब्धसंलापस्य प्रवृत्तसंभाषणस्य, खेचरपतेः विचित्रवीर्याख्यविद्याधराधिपतेः, वचनं, प्रशंसन्निव समर्थयन्निव, उपतोरणं बर्हिरदेशसमीपे, प्रभातशः प्रातःकालिककृत्यावेदकः शङ्खः, रराण ननाद [अं]। तं प्रभातशङ्ख, तद्धनिमित्यर्थः, श्रुत्वा, विरतसङ्गीतकरसावेशः विरतः-निवृत्तः, सङ्गीतकरसस्य-सङ्गीतसम्बन्धिप्रीतेः, आवेशः-उत्कर्षो यस्य तादृशः, पुनः स्नानदेवार्चनप्रभृतीनि स्नान-देवताराधनादिके, प्राभातिके प्रातःकालिके, कर्मणि, निवेशितमतिः प्रवर्तितहृदयः, सः प्रकृतः, विद्याधरेश्वरः विद्याधरराजराजः, समासन्नोपविष्टान् निकटोपविष्टान् , सर्वानेव समस्तानेव, देवयात्रादर्शनागतान् प्रकृताभिषेकोत्सवदर्शनार्थमुपस्थितान् , विद्याधरपतीन् विद्याधरराजान्, प्रसादस्निग्धया प्रीतिरसाईया, दृष्ट्या, अवलोक्य निरीक्ष्य, क्रमेण पर्यायेण, विससर्ज त्यक्तवान् / मयि, च पुनः, तासु प्रकृतासु, नरेन्द्रकन्यकासु राजसुतासु, निक्षिप्तदृष्टिः निवेशितचक्षुः, स्वचेतसा निजमनसा, किमपि, सम्प्रधार्य निश्चित्य, युगपत् एककालं, न्यश्चितोभयभ्र न्यञ्चिते-अधोनमिते. उभयभ्रवौ-नयनोपरितनरोमराजी यस्मिंस्तादृशं यथा स्यात् तथा, संज्ञया संकेतेन, 'न्यञ्चितोभयभ्रूसंज्ञया' इति समस्तपाठे तु न्यञ्चितयोरुभयभ्रुवोः संज्ञयेति व्याख्येयम् , मनोज्ञवपुष मनोहरशरीरं, प्राप्ततमम् अतिविश्वस्तं, पुरुषम् , आजुहाव आहूतवान् [अ]। सजवं सत्वरम् , उपसृत्य निकटमुपस्थाय, पुरस्तात् अग्रे, स्थितं, पुनः आस्यविन्यस्तवस्त्रपल्लवव्यञ्जितप्रश्रयं आस्यविन्यस्तेन-मुखनिवेशितेन, वस्त्रपल्लवेन-पल्लववत् कोमलेन वस्त्रेण, व्यजितः-प्रत्यायितः, प्रश्रयः-विनयो येन तादृशं, तम् आहूतपुरुषम् 'अरे तपनवेग!' तत्संज्ञककर्मकर !, अस्याः प्रत्यक्षवर्तिन्याः, काञ्चीनृपदुहितुः काञ्चीनृपस्य "Aho Shrutgyanam"