________________ तिलकमञ्जरी 195 मणिकुट्टिमं किमयमर्थोऽनया न प्रकाशितो येन वारंवारमेनां प्रश्नेन खेदयसि, शतशोऽपि, प्रेरिता नैनमर्थमियं वचनवृत्त्या व्यक्तीकरिष्यति, आर्य ! तथापि पृच्छामि [ ओ] / वत्से ! किं न कथयसि परमार्थम् , तात ! कथितमेवार्येण सर्वं यथावस्थितम् , वत्से ! प्रस्तुते विवाहोत्सवे केनाप्यनावेदितवृत्तान्तानां कथमिह ज्ञातीनामागमनमिति कस्मान्न पृष्टोऽसौ दिव्यदृष्टिस्त्वन्मात्रा, तात! सर्वमपि पृष्टः / तेनापीदमादिष्टं भगवता-महाभागे ! मा त्वरस्व, स्वत एव ज्ञातवृत्तान्तस्त्वत्पिता स्वगृहमानेष्यति त्वया सहैनामनुष्ठास्यति च सर्वं स्वयमेव करणीयमस्याः, 'इत्युदीरितवान्' / देव ! किमुत्पन्ननिश्चयैरपि प्रश्नानुबन्धेन खेद्यते राजपुत्री, आर्य ! किमुत्पन्नो भवतां निश्चयः, देव ! 'अहमपुण्यभागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिः' इत्यपि यावदाकर्णितं तावदपि संदेहः, आर्य ! किं करोमि, एतदपि श्रुत्वा न मे निसर्गदुर्विदग्धं श्रद्दधाति दग्धहृदयम् [औ] / देव ! यदि संदेहस्तदादिश्यतां पवनगतिः, अद्यैवानयतु ताम् , आर्य ! गर्हितमस्मद्विधानामकाले परकलत्रदर्शनम् , अलं च पवनगतिना क्लेशितेन, इयमेव चित्रलेखा बालभावात् प्रभृति अवनतम्-अधोगतं, विलक्ष-विस्मयान्वितं, वदनं-मुखं यस्यास्तादृश्या, पुनः करनखशुक्तिभिः हस्तस्थनखरूपशुक्तिभिः, निभृतं निःशब्दं, निश्चलमिति यावत्, मणिकुट्टिमं मणिबद्धभूमिम् , उल्लिखन्त्या उद्धर्षन्त्या, अनया मलयसुन्दा, अयं मयाऽनुपदमुक्तः, अर्थः किं न प्रकाशितः सूचितः, येन, वारंवारम् असकृत् , एनां मलयसुन्दरी, प्रश्नेन तदर्थजिज्ञासाज्ञापनेन, खेदयसि क्लेशयसि, शतशोऽपि शतवाराण्यपि, प्रेरिता प्रवर्तिता, इयम् , एनं मदुक्तम् , अर्थ, वचनवृत्त्या क्यद्वारा, न व्यक्तीकरिष्यति स्फुटीकरिष्यति, अपि तु व्यजनयैव वेत्यर्थः; आर्य श्रेष्ठकुलोद्भव !, तथापि त्वया निवारितोऽपि, पृच्छामि स्वजिज्ञासां पुनरुद्भावयामि [ ओ] ____वत्से ! परमार्थ यथार्थ, वास्तविकमर्थमिति यावत् , किं कस्माद्धेतोः, न, कथयसि वचसा बोधयसि ?; तात पितः ! आर्येण सभ्येन, वीर्यमित्रेणेति यावत् , यथाऽवस्थितं वस्तु सत् , सर्व, कथितमेव वचसा व्यक्तमेव, अतोऽलं मत्कथनेनेत्यर्थः; वत्से पुत्रि!, विवाहोत्सवे त्वत्पाणिग्रहणोत्सवे, प्रस्तुते प्रवृत्ते सति, केनापि केनचिजनेन, अनावेदितवृत्तान्तानाम् अनावेदितः-अविज्ञापितः, असूचित इति यावत्, वृत्तान्तः-तद्वार्ता यान् तादृशानां ज्ञातीनां बन्धुजनानाम् , इह अस्मिन् स्थाने कथं केन प्रकारेण, आगमनम् उपस्थितिः, स्यादिति शेषः, इति, असौ सः, दिव्यदृष्टिः प्रज्ञात्मकचक्षुः, त्वन्मात्रा त्वजनन्या, कस्मात् केन हेतुना, न, पृष्टः जिज्ञासामावेदितः; तात पितः!, सर्वमपि बान्धवागमनप्रकारमपीत्यर्थः, पृष्टः, तेनापि, भगवता मुनिना, इदम् अनुपदमुच्यमानम् , अदिष्टम् आवेदितम्-महाभागे महानुभावे !, मा त्वरस्व व्याकुलीभव, स्वत एव स्वयमेव, ज्ञानवृत्तान्तः विदिततद्वार्तः त्वत्पिता, त्वया सह, एनाम् इमा कन्यकां, खगृहम् , आनेष्यति उपस्थापयिष्यति, च पुनः, अस्या प्रत्यक्षवर्तिन्याः, कन्यकायाः, सर्व समस्तमपि करणीयं कर्तुमुचितं, वैवाहिकविधि, स्वयमेव, अनुष्ठास्यति करिष्यति। मन्त्री प्राह-देव राजन् !, उत्पन्ननिश्चयैरपि गन्धर्वदत्तायां खदुहितृत्वमवधारितवद्भिरपि, भवद्भिरिति शेषः, राजपुत्री मलयसुन्दरी, प्रश्नानुबन्धेन प्रश्नपरम्परया, किं किमर्थ, खेद्यते क्लेश्यते; आर्य साधो !, भवतां, निश्चयः तन्निर्णयः, उत्पन्नः निष्पन्नः, किम् ?; देव राजन् !, यावत् यदा "अहमपुण्यभागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिः” इत्यपि एतद्वृत्तमपि, आकर्णितं श्रुतं, तावदपि तदापि, सन्देहः खदुहितृत्वसंशयः, वर्तते इति शेषः; आर्य कुलीन !, किं करोमि कर्तुं पारयामीत्यर्थः, एतदपि अनुपदं भवदनूदितमपि निश्चायकं वृत्तं, श्रुत्वा श्रवणगोचरीकृत्य, निसर्गदुर्विदग्धं प्रकृत्या दुर्विवेचकं, मे मम दग्धहृदयं तद्वियोगाग्निसन्तप्तहृदयं, न, श्रद्दधाति विश्वसिति [ औ]। - देव राजन् !, यदि, सन्देहः तत्संशयः, तदवस्थ इत्यर्थः, तत् तर्हि, पवनगतिः अन्वर्थतन्नामा विद्याधरः, आदिश्यताम् आज्ञाप्यताम् , अद्यैव अस्मिन्नेव दिने, तां गन्धर्वदत्ताम् , आनयतु अत्रोपस्थापयतु; आर्य सभ्य !, अस्मद्विधानाम् अस्मत्सदृशानां, सभ्यजनानामित्यर्थः, अकाले अनवसरे, परकलत्रदर्शनं परस्त्रीदर्शनं, गर्हितं निन्दितम् , अनुचितमित्यर्थः; च पुनः, क्लेशितेन आयासितेन, पवनगतिना तन्नाम्ना विद्याधरेण, अलं न किमपि प्रयोजनं, तद्गमनायासो वृथैवेति भावः; बालभावात् बाल्यकालात् , प्रभृति आरभ्य, तस्याः गन्धर्वदत्तायाः, प्रियसखी स्नेहास्पदसहचरी, "Aho Shrutgyanam"