________________ 194 टिप्पनक-परागविवृतिसंवलिता। किमेवमेव सर्वदा शोकहुतभुजा दह्यमानदेहायाः प्रयास्यन्ति दिवसाः, उत समागमो भविष्यति समं तैः, इत्यभिदधाना श्रुता मया [ए] / वत्से ! ततः किमुक्तं तेन भगवता, किं च तवाम्बया पुनः, तात ! तेनेदमभिहिताऽम्बा - 'वत्से ! मा विषीद, भविष्यत्यचिरेण ते सर्वैर्जातिभिः सह समागमः, अम्बयाऽपि तच्छ्रुत्वा समुपजातपरमपरितोषया पुनर्विज्ञापितोऽसौ प्रणम्य सादरम्-भगवन् ! उद्धृताऽहमनेन तव वचनानुग्रहेण महादुःखपमना, तत्प्रसीद, पुनरादिश-कदा भविष्यति मे समागमो बन्धुभिः [ऐ] / अथ सञ्जातपक्षपातः क्षणं ध्यात्वा मयि सविधवर्तिन्यां मुहूर्तमारोपितादृष्टिः 'महाभागे ! यदा तवेयमायुष्मती दुहिता-इत्यादि किमप्यवादीत् / वत्से ! कथय किमुदीरितम् , तात ! न मया सम्यगवधारितम् , वत्से ! कथमन्तिकस्थयापि नावधारितम् , तात ! तस्मिन् क्षणे मनाग् व्यग्रमानसेवाहमतिष्ठम् / देव ! किं क्रियत इतीहश एव व्यग्रताहेतुरस्याः स क्षणः संपन्नः, आर्य ! ज्ञायते किं तेन ज्ञानिना गदितम् , देव ! किमत्र ज्ञेयम् , यदा तवेयमात्मजा जामातुरासादयिष्यति करग्रहणोत्सवं तदा ते ज्ञातिभिः सह समागम इति / वत्से ! किमेवम् / देव ! दूरावनतविलक्षवदनया करनखशुक्तिभिर्निभृतमुल्लिखन्त्या अहम् , केनापि पित्रादीनां मध्ये कनचिदेकेनापि, निष्करुणेन निर्दयेनेव सता न अन्विष्टा कृतान्वेषणाऽभूवम् , मम गुरुस्नेहोऽपि अतिशयितस्नेहोऽपि, सः अनुभूतपूर्वः, गुरुजनः पित्रादिजनः, मध्यमणिन्यायेन अदृष्टदोषादित्यस्योत्तरत्राप्यन्वयाद् दैवप्रातिकूल्यात्, जनः सामान्य जनः, उदासीन इत्यर्थः, सञ्जातः संवृत्तः, तत तस्मात् , एवमेव अनेनैव प्रकारेण, सर्वदा निरन्तरं, शोकहुतभुजा शोकाग्निना, दह्यमानदेहायाः सन्तप्यमानशरीरायाः, मे मम, दिवसाः किं प्रयास्यन्ति व्यत्येष्यन्ति, उत अथवा तैः बन्धुजनैः, समं सह, समागमः संयोगोऽपि, भविष्यति, इति इत्थम् , अभिदधाना तं मुनि व्याहरन्ती पृच्छन्तीत्यर्थः, मातेति शेषः, मया, श्रुता श्रवणगोचरीकृता [ए]। वत्से पुत्रि!, ततः तदनन्तरं, तेन प्रकृतेन, भगवता महात्मना, किम् , उक्तम् उत्तरं कृतम्, च पुनः, तव, अम्बया मात्रा, पुनः, किम् , उक्तमिति शेषः; तेन मुनिना, अम्बा माता, इदम् अनुपदवक्ष्यमाणं वाक्यम् , अभिहिता उक्ता-वत्से !, मा विषीद न दुःखमनुभव, अचिरेण अविलम्बेन, ते तव, सर्वैः समस्तैः, ज्ञातिभिः बन्धुभिः, सह, समागमः सम्मेलनं, भविष्यतीति शेषः, तत् अनुपदोक्तं, श्रुत्वा श्रवणगोचरीकृत्य, समुपजातपरमपरितोषया अत्यन्तसन्तुष्टया, अम्बयापि मात्रापि, सादरम सश्रद्धं, प्रणम्य अभिवाद्य, असी मुनिः, पुनः विज्ञापितः निवेदितः-भगवन् महात्मन् !, महादुःखपङ्कमना असह्यक्लेशकर्दमलीना, अहम्, अनेन अनुभूयमानेन, तव, वचनानुग्रहेण प्रतिवाक्योच्चारणानुग्रहेण, उद्धता निरुक्तपङ्कादुन्नीता, तत् तस्माद्धेतोः, प्रसीद प्रसन्नो भव, पुनः भूयोऽपि, आदिश आज्ञापय मे मम, बन्धुभिः पित्रादिभिः, समागमः सम्मेलनं, कदा कस्मिन् समये, भविष्यति [2] अथ अनन्तरं, सातपक्षपातः समुत्पन्नमदनुग्रहावधानः, क्षणं मुहूर्त, ध्यात्वा समाधि कृत्वा सविधवर्तियां निकटवर्तिन्यां मयि मुहूर्तम् , आरोपितार्द्रदृष्टिः निहितस्निग्धचक्षुः, महाभागे! महानुभावे ! यदा यस्मिन् काले इयं पुरोवर्तिनी, तव आयुष्मती चिरजीविनी, दुहिता कन्यका, इत्यादि किमपि सम्यगनवधारितसमग्रं वाक्यम् , अवादीत् स मुनिरुक्तवान् , वत्से पुत्रि ! कथय समग्रं ब्रूहि, किम् , उदीरितम् उक्तम् , तात पितः !, मया, सम्यक यथायथं न अवधारितं विज्ञातं, साकल्येन श्रुतमित्यर्थः; वत्से !, अन्तिकस्थयापि निकटवर्तिन्यापि कथं केन हेतुना, न, अवधारितं सम्यगाकर्णितम् ; तात !, तस्मिन् क्षणे तच्छ्वणक्षणे, मनाक किञ्चित् , व्यग्रमानसेव विक्षिप्तहृदयेव अहम् , अतिष्ठम् आसम् ; देव राजन् !, सः तच्छ्रवणसम्बन्धी क्षणः, किं क्रियते किमाचरणीयम्, इतीहश एव खकर्तव्यालोचनात्मिकाया एव, अस्याः मलयसुन्दर्याः, व्यग्रतायाः व्याकुलतायाः हेतुः, सम्पन्नः सम्वृत्तः / आर्य !, तेन प्रकृतेन, ज्ञानिना अतीतादिज्ञानशालिना मुनिना, किं, गदितम् उक्तम्, इति, ज्ञायते प्रतीयते; देव राजन् ! अत्र अस्मिन् विषये, किं, ज्ञेयं ज्ञातव्यम् , यदा यस्मिन् समये, इयं प्रत्यक्षवर्तिनी, तव, आत्मजा पुत्री, जामातुः तव दुहितुभर्तुः, करग्रहणोत्सवं विवाहोत्सवम् , आसादयिष्यति प्राप्स्यति, अनुभविष्यतीति, यावत् , तदा तस्मिन्नवसरे, शातिभिः बन्धुभिः, सह, ते तव, समागमः सम्मेलनं भविष्यतीति शेषः, इति इत्यर्थकं वाक्यं तेनोक्तमित्यर्थः / वत्से पुत्रि!, एवम् अनेनैव प्रकारेणोक्तं किम् ? / मन्त्री प्राह-देव राजन् !, दूरावनतविलक्षवदनया दूर-दूरपर्यन्तम् , "Aho Shrutgyanam"