________________ तिलकमञ्जरी 193 स्वजननी किमाचष्टे, तात ! न किञ्चिदाचष्टे, प्राक्तनं निजवृत्तान्तं केवलं पृष्टा कथाप्रसङ्गेषु सखीभिरधोमुखी मुक्तदीर्घनिःश्वासा निःशब्दमविरताश्रुबिन्दुदर्शितदुर्दिना रोदिति / आर्य ! किमप्रतिपादने रोदने च तस्याः कारणम् , देव ! सर्वलोकोत्तरनिजवंशव्यसनप्रकाशनलजा बन्धुजनानुस्मरणदुःखं च / वत्से ! यदि न किञ्चित् कथयति, ततः विद्याधरलोके नाट्यप्रयोगास्तयाधिगता इति त्वया कुतो विज्ञातम् , तात ! विज्ञापयामि-अतः समयादतिक्रान्तसंवत्सरे त्रिकालदर्शी मुनिर्महायशा नाम महातपोभिरनेकैः परिवृतो महर्षिभिः काञ्चयामुपाययौ [ल] / बाह्योद्यानविनिविष्टं च तं द्रष्टुमाविष्ट इव कौतुकेन सर्वोऽपि नगरनिवासी निर्गतो जनः, जनन्यपि मे प्रयुक्तान्तर्वे शिकविज्ञापितेन कृताभ्यनुज्ञा तातेन परिमितपरिच्छदा मामादाय गता तदर्शनाय, दृष्टश्च स महात्मा, पृष्टश्च विधिप्रयुक्तपूजया प्रस्तावमुपलभ्य–'भगवन् ! अखिलभुवनख्यातविद्याधरवंशसंभवाहमपुण्यभागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिः, भूयांश्च कालो वर्तते ममात्र तिष्ठन्त्या, न केनापि निष्करुणेनान्विष्टाहमदृष्टदोषा, स मम गुरुस्नेहोऽपि गुरुजनो जनः संजातः, तत टिप्पनकम्-अदृष्टं-दैवं कर्म वा [ए] / आचष्टे ब्रवीति, तात ! किञ्चित् किमपि न, आचष्टे ब्रवीति, केवलं कथाप्रसङ्गेषु वार्तालापावसरेषु, सखीभिः, प्राक्तनं पुरातनं, निजवृत्तान्तं खसमाचारं, पृष्टा विज्ञापयितुं प्रवर्तिता सती, अधोमुखी दुःखावनतमुखी, मुक्तदीर्घनिःश्वासा मुक्तः-वाहितः, दीघेः, निश्वासः-नासिकामारुतो यया तादृशी, नि:शब्द समौनं यथा स्यात् तथेति रोदनक्रियाविशेषणम् , अविरताश्रुबिन्दुदर्शितदुर्दिना अविरतैः-निरन्तरैः, अश्रुबिन्दुभिः-नयनजलकणैः, दर्शितं-दृष्टिपथमवतारितं, दुर्दिनंवृष्ट्याच्छन्नदिनं यया तादृशी, रोदिति अश्रु विमुञ्चति / मन्त्रिणं पृच्छति-आर्य श्रेष्ठ! तस्याः गन्धर्वदत्तायाः, अप्रतिपादने रोदनकारणानुक्तौ, मौनावलम्बने इत्यर्थः, च पुनः, रोदने अश्रुविमोचने किं कारणं हेतुः ? / देव राजन् !, सर्वलोकोत्तरनिजवंशव्यसनप्रकाशनलजा सर्वलोकोत्तरस्य-समस्तभुवनोत्कृष्टस्य, निजवंशस्य, व्यसनप्रकाशने-विप्लवप्रकटने, या लज्जा-मनसः संकोचः सा, च पुनः, बन्धुजनानुस्मरणदुःखं बन्धुजनानुस्मरणेन, दुःखं-तद्विश्लेषव्यथा, तत्र कारणमिति शेषः, मौनावलम्बने स्ववंशविप्लवोपाख्यानलजा रोदने च खबन्धुजनविरहदुःखं कारणमिति यथाक्रम कारणोपन्यासाद् यथासंख्यमत्रालङ्कारः / वत्से पुत्रि !, यदि किंचित् किमपि, स्ववृत्तं न कथयति ब्रवीति, त्वज्जननीति शेषः, ततः तर्हि, तया गन्धर्वदत्तया, विद्याधरलोके नाट्यप्रयोगाः नृत्यप्रक्रियाः, अधिगताः विज्ञाताः, इति त्वया, कुतः कस्मात् विज्ञातम् विदितम् / तात पितः!, विज्ञापयामि निवेदयामि, अतः वर्तमानात् . समयात कालात् , अतिक्रान्त पूर्ववर्षे, त्रिकालदर्शी भूत-भविष्यद्-वर्तमानज्ञः, महायशा नाम महत्-अधिकं, यशः-अतीतानागतदर्शनजन्यं यस्येत्यन्वर्थः तन्नामा, मुनिः, महातपोभिः उत्कृष्टतपस्याशालिभिः, अनेकैः बहुभिः, महर्षिभिः ऋषिप्रवरैः, परिवृतः परिवेष्टितः, काश्यां काञ्चीपुर्याम् , उपाययौ आगतवान् [ल]। च पुनः, बाह्योद्यानविनिविष्टं नगरबहिर्देशस्थोपवनावस्थितं, तं मुनि, द्रष्टुं दर्शनकर्मतामापादयितुं, कौतुकेन औत्सुक्येन, आविष्ट इव आक्रान्त इव, सर्वोऽपि समस्तोऽपि नगरनिवासी काञ्चीनगरवास्तव्यः, जनः लोकः, निर्गतः तदुद्यानगमनाय नगरान्निष्क्रान्तः, मे मम, जनन्यपि मातापि, प्रयुक्तान्तशिकविज्ञापितेन प्रवर्तितान्तःपुराधिकृतजननिवेदितेन, तातेन पित्रा, कृताभ्यनुज्ञा कृतगमनानुमतिः सती, परिमितपरिच्छदा धृताल्पवेषा, माम् , आदाय गृहीत्वा, तद्दर्शनाय गता; च पुनः, सः प्रकृतः, महात्मा मुनिः, दृष्टः; च पुनः विधिप्रयुक्तपूजया सविधिविहिताचेंया, तयेति शेषः, प्रस्तावम् अवसरम्, उपलभ्य प्राप्य, पृष्टः-अनुपदवक्ष्यमाणविषयज्ञापनार्थमभ्युपार्थितः, भगवन् माहात्म्यशालिन् !, अखिलभुवनख्यातविद्याधरवंशसम्भवा अखिलेषुसमस्तेषु, भुवनेषु-भुवनत्रयेऽपीत्यर्थः, ख्यातः-प्रसिद्धः, विद्याधरवंश एव, सम्भवः-उत्पत्तिस्थानं यस्यास्तादृशी सत्यपि, अपुण्यभागिनी पापिनी, मन्दभाग्येत्यर्थः, अहम् , शिशुरेव बाल्यावस्थायामेव, नगरविप्लवे नगरोपद्रवे, बन्धुभिः पित्रादिभिः, विप्रयुक्ता विरहिता; अत्र अस्मिन् स्थाने, तिष्ठन्त्याः विद्यमानायाः, मम, भूयान् बहुतरः, कालः, वर्तते व्यत्येति; अदृष्टदोषा न दृष्टः-लक्षितः, दोषः-किमपि वैगुण्यं यस्यां तादृश्यपि, अहम्, 'अदृष्टदोषाद' इति पाठे तु-भाग्यवैगुण्याद्, 25 तिलक "Aho Shrutgyanam"