________________ 192 टिप्पनक-परागविवृतिसंवलिता। देव ! यद्येवं ततः पुनरनुयुज्यतां विशेषावगमार्थमत्रभवती; वत्से ! अपि ध्रियते तव सवित्री; तात ! सर्वान्तःपुरपरीता शुद्धान्तसौधशिखरात् पुरजनप्रवर्तितं कौमुदीमहोत्सवमवलोकयन्ती निरामयशरीरा संप्रत्येव मुक्ता मया; वत्से ! कियत् प्रमाणम् , कीदृशो वर्णविशेषः, कियती वयोऽवस्था, किमनुकारिणी च शरीराकृतिरस्याः; तात ! प्रमाणतो नातिह्रस्वा न चात्यायता, वर्णेन विकचचम्पकावदाता, वयसापि यादृग् मयि प्रथमगर्भसंभवायां संभवति तादृशेनोपेता, रूपेण तु न किश्चित् तादृशमपरमिव सदसि मानुषमङ्गनासु पुरुषेषु वा पश्यामि, यदि परं देवस्यैव किश्चिदनुकरोति [ऋ] / देव ! संवादकानि सर्वाण्यपि चिह्नानि यदि यथा वेदितानि तथैव, ततो निःसंशयं सैव राजपुत्री गन्धर्वदत्ता / वत्से ! कस्तस्याः पिता; तात ! तापसः कश्चित् / आर्य ! दुरितनयादुःखदावाग्निदग्धे मनसि वन इव चिराल्लब्धजन्मा पश्य कथमन्तराले संयोज्य तापसमपास्तकरुणेन विधिना समूलमुद्धृतस्तरुकन्द इव मे मन्दभाग्यस्यानन्दः; देव ! मा विषीद, न जानाति तत्त्वतो राजपुत्री तस्याः पितरम् , अन्यथा न कश्चिदिति कथयेत् [ल] / वत्से ! दृष्टस्त्वया स तापसः, तात ! न कचिद् दृष्टः, जनप्रवादादवगतः, वत्से ! टिप्पनकम्-ध्रियते जीवति, सवित्री माता [ ऋ] / देव ! राजन् !, यदि एवं त्वद्दुहितुस्तौल्यम् , ततः तर्हि, अत्रभवती आर्या, विशेषावगमार्थ विशेषनिर्णयार्थ, पुनः अनुयुज्यतां पृच्छयताम् / वत्से ! पुत्रि !, तव सवित्री जननी, भियते अवतिष्ठते, जीवतीत्यर्थः, अपि किम् ? / ! पितः / सवोन्तःपुरपरीता सण-समस्तेन, अन्तःपुरेण-अन्तःपुरस्त्रिया,परीता-परिवेष्टिता, सती, शद्धान्तसौधशिखरात् अन्तःपुरप्रासादशिखरमारुह्य, पुरजनप्रवर्तितं पुरवासिप्रारब्धं, कौमुदीमहोत्सवं चन्द्रिकामहोत्सवम. अवलोकयन्ती, निरामयशरीरा नीरोगदेहा, जननीति शेषः। सम्प्रत्येव इदानीमेव, मया मुक्ता त्यक्ता / वत्से ! अस्याः त्वजनन्याः, कियत् , प्रमाणम् उन्मानम्, पुनः कियती, वयोऽवस्था वयःक्रमः, च पुनः, किमनुकारिणी कीदृशी, शरीराकृतिः शरीरावयवसंस्थानम् / तात! पितः1, प्रमाणतः प्रमाणेन न अतिहस्वा अत्यन्तहस्वप्रमाणा नेत्यर्थः, च पुनः, अत्यायता अतिदीघप्रमाणा न, किन्तु मध्यप्रमाणेल्यर्थः, वर्णन कान्त्या, विकचचम्पकावदाता विकसितचम्पकवत् अवदाता-स्वच्छा, गौरवर्णत्यर्थः / वयसापि अवस्थयापि, मयि प्रथमगर्भसम्भवायां प्रथमगर्भजाताया, याहक यावद्धमितं वयः सम्भवति, तादृशेव तावद्वर्षमितेन वयसा, उपेता अन्विता रूपेण तु आकृत्या तु, किश्चित् किमपि, तादृशं तत्तुल्यं मानुषं मनुष्यसम्बन्धि अपरमिव अन्यदिव, रूपं सदसि सभायाम् , अङ्गनासु स्त्रीषु, पुरुषेषु वा न, पश्यामि दृष्टिगोचरीकरोमि, यदि पक्षान्तरे, परं केवलं देवस्यैव भवत एव रूपं किश्चित् ईषत् , अनुकरोति उपमिनोति [ऋ]। मन्त्री प्राह-देव! राजन् !, यदि संवादकानि त्वहुहितृत्वप्रमापकानि, सर्वाण्यपि समस्तान्यपि, चिह्नानि लक्षणानि, यथा येन प्रकारेण, वेदितानि अनया विज्ञापितानि, तथैव तादृशान्येव सन्तीति शेषः, ततः तर्हि, निःसंशयं नूनं, सैव तन्मातैव, राजपुत्री भवदीयसुता, गन्धर्वदत्ता तदाख्या। राजाह-वत्से! पुत्रि!, तस्याः गन्धर्वदत्तायाः, कः पिता; तात पितः 1, कश्चित् कोऽपि तापसः तपस्वी। राजा मन्त्रिणमाह-आर्य! श्रेष्ठ !, पश्य अवलोकय, जानीहीति यावत् , वन इव दुर्वारतनयादुःखदावाग्निदग्धे दुर्वारं दुःखेन क्लेशेन वारयितुं शक्यं, यत् तनयादुःख-कन्याविश्लेषव्यथा, तद्रूपेण दावाग्निना-वनवह्निना, दग्धे-भस्मसात्कृते, मन्दभाग्यस्य हतभाग्यस्य, मे मम, मनसि हृदये चिरात् दीर्घकालात् , लब्धजन्मा पुनस्तनयामिलनाशया प्राप्तप्रादुर्भावः, आनन्दः, अपास्तकरुणेन निदयेन, विधिना देवेन, अन्तराले मध्ये, तापसं तपस्विनं, तस्यास्तपस्विपितृकत्ववार्तामित्यर्थः, संयोज्य संघव्य तरुकन्द इव वृक्षाङ्कुर इव, कथं केन प्रकारेण, समूलं मूलसहितम् उद्धतः उत्पाटितः ? / मन्त्री प्राह-देव! राजन् ! मा विषीद न त्वया दुःखमनुभवनीयम्, राजपूत्री मलयसुन्दरी, तत्त्वतः वस्तुतः, तस्याः गन्धर्वदत्तायाः, पितरं न, जानाति निश्चिनोति अन्यथा तन्निश्चये, कश्चिदिति न कथयेत् ब्रूयात् , कश्चिदित्यस्यानिश्चितार्थपरत्वात् [ल]। वत्से ! त्वया स तपितृभूतः, तापसः, दृष्टः साक्षात्कृतः, तात ! कचित् कुत्रापि, न दृष्टः, किन्तु जनप्रवादात् जनश्रुतिद्वारा, अवगतः ज्ञातः, वत्से ! त्वजननी त्वन्माता, किम . "Aho Shrutgyanam"