________________ तिलकमञ्जरी 191 पुत्रि ! जनकनिर्विशेषे मयि किमियमपत्रपा, स्वकीयं तव स्थानमिदमशङ्किता व्याहर' इति च पुनः पुनरुच्यमाना तथैवाधोमुखी शनैरवदम्-- तात ! नैकः कश्चिदुपदेष्टा नाट्यविद्यायां ममाभूद् यं विज्ञापयामि, अपि तूपदेशकाले कुतूहलाविष्टमानसेन मत्पित्रा पृथिव्यामपि ये केचिदुपलब्धाः प्रकृष्टा नाट्यतत्रे भरतपुत्रास्ते समस्ता अप्युपसंगृहीताः, तत्र च कोऽपि कुतश्चिदवगतः प्रयोगः, ये पुनरिहातिरमणीयतया विशेषतः प्रतिपन्नास्तातेन ते स्वयं मया नृत्यन्तीमम्बामवलोकयन्त्या पृच्छन्त्या च तामनवरतमवगताः / वत्से ! तयापि ते कुतो विज्ञाताः, तात ! विद्याधरलोके क्वचित् , वत्से ! किमभिधाना तव जनयित्री, तात ! गन्धर्वदत्ता नाम [ऊ] / श्रुत्वा च मद्वचनमिदमीषदुल्लसितचेताः समीपवर्ती भर्तुरतिपरिणतवया वीर्यमित्रो नाम मत्री शनैर्व्याजहार- देव ! कञ्चिन्न सा देवस्यैव दुहिता राजपुत्री गन्धर्वदत्ता, जन्यते हि नाम्ना नाट्यक्रमेण च सुतासंक्रान्तेन महती मतिभ्रान्तिः; आर्य ! न केवलं नाट्यक्रमो रूपविभ्रमोऽपि भ्रमयति मनः, तथाहि-तादृशमेव शरद्विबुद्धशतपत्रानुवादि वदनम् , तादृशा एव चन्द्रोदयक्षुभितदुग्धोदधितरङ्गायताश्चक्षुषो विक्षेपाः, ताहगेव ग्रस्तसहकारकोकिलाकूजितकल्पं जल्पितममुष्याः [ऋ / स्तुता वर्णिता, अहम् , लजया, अधोमुखीभूय अवनतमुखीभूय, पाणिनखशिखाभिः हस्तसम्बन्धिनखात्रैः, क्षोणिं भूतलम् , अलिखम् अङ्कितवती [उ] / च पुनः, पुत्रि! जनकनिर्विशेषे पितुरविशेषे मयि, इयं दृश्यमाना, अपत्रपा अन्यतो लजा किम् किमर्था ?, तव, इदम् अधिष्ठितं, स्थानं, स्वकीयम् आत्मीयम् , अतः अशङ्किता निःसंशया, व्याहर ब्रूहि, इति इत्थम् , पुनः पुनः असकृत् , उच्यमाना विद्याधराधिपेन प्रतिपाद्यमाना, तथैव तेनैव प्रकारेण, अधोमुखी शनैः मन्दम् , अवदं प्रत्यवोचम् , 'तात !' नाट्यविद्यायां नृत्यशास्त्रे, मम, उपदेष्टा शिक्षकः, एकः, कश्चित् कोऽपि न अभूत् यं विज्ञापयामि निवेदयामि, अपि तु किन्तु, उपदेशकाले शिक्षणसमये, कुतूहलाविष्टमानसेन औत्सुक्या क्रान्तहृदयेन, मत्पित्रा कुसुमशेखरेण, पृथिव्यामपि भूमण्डलेऽपि, ये केचित् , प्रकृष्टाः उत्कर्षशालिनः, नाट्यतन्त्रे नाट्यशास्त्रे, भरतपुत्राः नटवंशजाः, उपलब्धाः प्राप्ताः, ते समस्ता अपि सर्वेऽपि, उपसंगृहीताः समाहृताः। तत्र च तेषु च, कोऽपि कश्चित् , विरल इत्यर्थः, प्रयोगः प्रक्रिया, कुतश्चित् कस्माच्चित् नाट्याचार्यात् , अवगतः विज्ञातः / ये पुनः ये तु प्रयोगाः, तातेन भवता, इह अस्यां, नृत्यभूमौ, अतिरमणीयतया अत्यन्तचमत्कारितया, विशेषतः विशेषेण, प्रतिपन्ना अवधारिताः, ते, नृत्यन्तीम्, नृत्यमाचरन्तीम् , अम्बां स्वमातरम् , अवलोकयन्त्या पश्यन्त्या, च पुनः, तां मातरम्, अनवरतं सन्ततं, पृच्छन्त्या, मया, स्वयं खेनैव, अवगताः विज्ञाताः वत्से पुत्रि!, तयापि मात्रापि, ते प्रकृतः प्रयोगाः, कुतः कस्मात् , विज्ञाताः अधीता, तात पितः ! विद्याधरलोके विद्याधरप्रदेशे, क्वचित् कुत्रापि, वत्से ! तव जनयित्री माता, किमभिधाना किन्नामधेया, तात ! गन्धर्वदत्ता नाम तन्नानी [ऊ] / इदम् अनुपदोक्तं, मद्वचनं प्रतिवाक्यं श्रुत्वा श्रवणगोचरीकृत्य, ईषदुल्लसितचेताः किञ्चिन्मुदितमानसः, भर्तुः स्वामिनः, विचित्रवीर्यस्येत्यर्थः, समीपवर्ती पार्श्ववर्ती, अतिपरिणतवयाः अतिजीर्णवयस्कः; वीर्यमित्रो नाम तत्संज्ञकः, मन्त्री, शनैः मन्दं, व्याजहार उक्तवान् , देव राजन् !, राजपुत्री विद्याधरराजसुता, सा गन्धर्वदत्ता, देवस्यैव भवत एव, दुहिता पुत्री, कञ्चित् किं न, हि यतः, नाम्ना त्वद्दुहितुस्तुल्यनाम्ना, च पुनः, सुतासंक्रान्तेन सुतायांपुत्र्यां, संक्रान्तेन-आहितेन, नाट्यक्रमेण नृत्यप्रयोगेण, महती अधिका, मतिभ्रान्तिः बुद्धिविपर्ययः, जन्यते उत्पाद्यते। आर्य ! प्रशान्तचित्त मन्त्रिन् !, केवलं नाट्यक्रमः नाट्यप्रयोगो न, रूपविभ्रमोऽपि स्वरूपशोभापि, मनः, भ्रमयति संशाययति, तथा हि-शरद्विबुद्धशतपत्रानुवादि शरदि-शरदृतौ, विबुद्धं-विकसितं यत् , शतपत्रं-पत्रशतान्विते कमलं, तदनुवादि-तदनुकारि, तादृशमेव त्वदुहितुस्तुल्यमेव, अमुष्याः तदीयमित्यप्रेणान्वयः, वदनं मुखम् ; पुनः चन्द्रोदयक्षुभितदुग्धोदधितरङ्गायताः चन्द्रोदयेन, क्षुभितस्य-उच्छलितस्य, दुग्धोदधेः-क्षीरसागरस्य, ये तरङ्गाः, तद्वत् आयताः-दीर्घाः, तादृशा एव त्वदुहितुस्तुल्या एव, अमुष्याः तस्याः, चक्षुषः, विक्षेपाः व्यापाराः, अपाङ्गभङ्गय इत्यर्थः; पुनः ग्रस्तसहकारकोकिलाकृजितकल्पं ग्रस्तः भक्षितः, सहकारः-अतिसुरभिचूततन्मञ्जरीति यावत , यया ताः कूजितं-गुजितं, तत्कल्पं-तदीषदूनं तत्तुल्यमित्यर्थः, ताहगेव त्वदुहितुस्तुल्यमेव, अमुष्याः तस्याः, जल्पितं भाषितम् / "Aho Shrutgyanam"