________________
टिप्पनक-परागविवृतिसंवलिता । सुचिरमुपरतनिमेषावेशमाकृतिविशेषं च रचितकरसंपुटा स्वागतशब्दपूर्वमभ्यधित—'महाभाग! भाग्यैर्मादृशामिहानीतोऽसि, उत्तिष्ठ, सर्वदा सुखोचितामपि देहि कतिचित् पदानि गमनखेदस्य तनुम् , अनुगृहाण दर्शनेन वनवासिनोऽस्य जनस्य वसतिम् [ण] । इत्यभिहितोऽहं तया ससंभ्रममवतीर्य मत्तवारणात् प्रणम्य बद्धाञ्जलिः 'यथादिशसि' इत्युदीर्य तन्मार्गमनुसरन् यत्रागतेन त्वया गन्धर्वको दृष्टस्तमेव त्रिभूमिकं मठमागच्छम् । प्रथममारूढे च मयि सा तापसकन्यका समारुह्य नागदन्तावलम्बितनिविडवल्कलास्तरणायां भित्तिमूलघटितोत्तानगण्डोपधानपट्टायामचिरप्रमृष्टकुट्टिमशुचौ शयनशालायामवस्थापिताक्षमाला निर्गत्य धौतकरचरणयुगला कमण्डलुजलेन सकलामपि ममार्घादिकामतिथिपूजामकरोत् । स्वहस्तोपनीतरुचिरपट्टासनया च तया पुरः सविनयमुपविष्टया विलम्ब्य क्षणं पृष्टः सकलमपि संक्षिप्य निजवृत्तान्तमावेदयम् [त] । द्विगुणमुपजातपक्षपाता च सा तदाकर्णनेन तत्कालमागत्य द्वारदेशे दत्तदर्शनामध्वरेणुधूसरचरणयुगलां कन्दफलमूलपूर्णमभिनवं पलाशपत्रपुटकमुद्वहन्तीं बनान्तरादागतां परिचारिकामवलोक्य मामवोचत्
यावत , दृष्ट्वा अवलोक्य, रचितकरसम्पुटा निर्मिताञ्जलिः, स्वागतशब्दपूर्व स्वागतशब्दोच्चारणपुरस्सरम् , अभ्यधित उक्तवती, 'महाभाग! महानुभाव!, मादृशां मत्प्रभृतीनां, भाग्यैः कर्तृभिः, इह अस्मिन् वनोद्देशे, आनीतः उपस्थापितः, असि वर्तसे। उत्तिष्ठ उत्थानं कुरु,सर्वदा सर्वकाले, सुखोचितामपि सुखयोग्यामपि, यद्वा अभ्यस्तसुखामपि, तनुं खशरीरं, कतिचित् कतिपयानि, पदानि पादविक्षेपस्थानानि, गमनखेदस्य गमनश्रमार्थ, देहि अर्पय, वनवासिनः वनवासशीलस्य, अस्य मदभिन्नस्य, जनस्य लोकस्य, वसतिं वासस्थानं, दर्शनेल दृष्टिपातेन, अनुगृहाण अनुकम्पय [ण], तया कन्यकया, इति इत्थम् , अभिहितः उक्तः, अहम् , मत्तवारणात् तन्मन्दिरस्थोचप्रदेशविशेषात् , ससम्भ्रमं सत्वरम् , अवतीर्य अधस्तादागत्य, प्रणम्य नमस्कृत्य, बद्धाञ्जलिः रचिताञ्जलिः सन् , 'यथा आदिशसि आज्ञापयसि' इति उदीर्य उक्त्वा, तन्मार्ग तन्निवासस्थानमार्गम् , अनुसरन् अनुगच्छन् , यत्र यस्मिन् मठे, आगतेन त्वया गन्धर्वकः तदाख्यविद्याधरबालकः, दृष्टः, तमेव त्रिभूमिकं भूमिकात्रयविशिष्टं, मठं तपोमन्दिरम् , आगच्छम् आगतवान् , च पुनः, प्रथमं पूर्व, मयि हरिवाहने, आरूढे तन्मठभूमिकायां कृतारोहणे सति, सा तापसकन्यका ब्रह्मचारिणी, समारुह्य सम्यगारुह्य, नागदन्तावलम्बितनिबिडवल्कलास्तरणायां नागदन्ते-भित्तिनिखातहस्तिदन्ते, अवलम्बितम्-अवस्थापितं, निबिडंसान्द्र, वल्कलास्तरणं-वृक्षत्वगात्मकावरणं यस्यां तादृश्यां, पुनः भित्तिमूलघटितोत्तानगण्डोपधानपट्टायां भित्तिमूलेनिरुक्तमठकुड्याधःस्थले, घटितं-स्थापितम् , उत्तानम्-अनिम्नं, गण्डोपधानपट्टे-कपोलोपधानफलकं यस्यां तादृश्यां, पुनः अचिरप्रमृष्टकुट्टिमशुचौ अचिरप्रमृष्टेन-किञ्चित् पूर्व विशोधितेन, कुट्टिमेन–मणिबद्धस्थलेन, शुचौ-शुभ्रायां, शयनशालायां शयनगृहे, अवस्थापिताक्षमाला मुक्तजपमाला सती, निर्गत्य ततो निःसृत्य, धौतकरचरणयुगला धौतं-प्रक्षालितं, करचरणयुगलं-हस्तपादद्वयं यया तादृशी, कमण्डलुजलेन कमण्डलद्धृतजलेन, अर्घादिकां पादप्रक्षालनादिका, सकलामपि समग्रामपि, मम, अतिथिपूजाम् अतिथिसक्रियाम् , अकरोत् कृतवती । च पुनः, स्वहस्तोपनीतरुचिरपट्टासनया खहस्तेन, उपनीतं-दत्तं, रुचिरं-मनोहरं पट्टासनं-महाऽऽसनं शिलाफलकरूपं वा आसनं यया तादृश्या, तया कन्यया, पुरः अग्रे, सविनयं सादरम् , उपविष्टया निषण्णया सत्या, क्षणं क्षणमात्रं, विलम्ब्य, पृष्टः जिज्ञासां ज्ञापितः सन् , सकलमपि समस्तमपि, निजवृत्तान्तं स्वसमाचारं, संक्षिप्य, आवेदयं विज्ञापितवानहम् [त] च पुनः, तदाकर्णनेन तदावेदितवृत्तान्तश्रवणेन, द्विगुणं पूर्वतो द्विगुणमधिकमधिकं यथा स्यात् तथा, उपजातपक्षपाता उत्पन्ननहा, सा कन्यका, तत्कालं तत्क्षणम् , आगत्य उपस्थाय, द्वारदेशे प्रकृतमठप्रवेशनिर्गमस्थाने, दत्तदर्शनां दृष्टिपथमागतां, पुनः अध्वरेणुधूसरचरणयुगलाम् अध्वरेणुभिः-मार्गधूलिभिः, धूसरम्-ईषत्पाण्डुवर्ण, चरणयुगलं-पादद्वयं यस्यास्तादृशीम् , पुनः कन्दफलमूलपूर्ण तद्याप्तम् , अभिनवं नूतनं, पलाशपत्रपुटकं पलाशसम्बन्धिपात्राकारसंश्लिष्टपत्रम्, उद्वहन्तीं धारयन्तीम् , पुनः वनान्तराद् वनमध्यात् , आगतां, परिचारिकां सेविकाम् , अवलोक्य दृष्ट्वा, माम् , अवोचत् उक्तवती ।
"Aho Shrutgyanam"