SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १६५ तस्याश्च चक्षुराह्लादकारिणा दर्शनेन दूरोल्लसितचेताः पुनरचिन्तयम्दत्ते पत्रं कुवलयततेरायतं चक्षुरस्याः, कुम्भावैभौ कुचपरिकरः पूर्वपक्षीकरोति । दन्तच्छेदच्छविमनुवदत्यच्छता गण्डभित्ते-, श्चान्द्रं बिम्बं द्युतिविलसितैर्दूषयत्यास्यलक्ष्मीः ।। १ ।। अस्या नेत्रयुगेन नीरजदलस्रग्दामदैर्घ्यद्रुहा, चञ्चत्पार्वणचन्द्रमण्डलरुचा वक्त्रारविन्देन च। स्वामालोक्य दृशं रुचं च विजितां तुल्यं त्रपाबाधितैर्बद्धा निर्जनसंचरेषु कमलैर्मन्ये वनेषु स्थितिः ॥२॥ [6]। अथासौ मुनिकन्यका समाप्तमन्त्रजपविधिरुत्थाय कृतदेवताप्रणामा गृहीतपुष्पपटलिकया पृष्ठतः परिचारिकयानुगम्यमाना हसितमदमत्तहंसगतिर्निर्गय मन्थरैः पदन्यासैरायतनपर्यन्तवर्तिषु प्रासादकेषु प्रतिष्ठिता जिनप्रतिमाः क्रमेणापूजयत् । कृतप्रदक्षिणा मूलायतनस्य समुपेत्य पुरतो मे बभूव । दृष्ट्वा च टिप्पनकम्-"दत्ते पत्रम्” इत्यादि श्लोकः, कुवलयततेः नीलोत्पलराजेः, चक्षुः नेत्रम्, अस्या दत्ते पत्रम् , किमुक्तम् ? तदनुकारि नयनम् , कुम्भावैभौ कुचपरिकरः पूर्वपक्षीकरोति कुचपरिकरः-स्तनविस्तरः, कुम्भौ [ऐभौ ] गजसत्कौ, पूर्वपक्षीकरोति-अनुकरोतीत्यर्थः, अनुवदति अनुकरोति, दूषयति अनुकरोति, वादिपत्रव्यवस्थया काव्यकरणमिदं, केवलं सर्वत्र सादृश्यं प्रतिपाद्यम् ॥ "अस्याः०” इत्यादि श्लोकः, कमलैः हरिणैः पद्मश्च, वनेषु अरण्येषु जलेषु च [6]। च पुनः, चक्षुराह्लादकारिणा नयनानन्दजनकेन, तस्याः कन्यकायाः, दर्शनेन, दूरोल्लसितचेताः दूरोन्नतहृदयः सन् , पुनः अचिन्तयं वक्ष्यमाणप्रकारेणोत्प्रेक्षितवानहम् । अस्याः प्रत्यक्षीभूतकन्यायाः, आयतं दीर्घ, चक्षुः नेत्रं, कुवलयततेः नीलोत्पलराशेः, पत्रं कर्मतापनं दलं, दत्ते समर्पयति, नीलोत्पलदलसदृशं लोचन मिति भावः, पुनः कचपरिकरः स्तनविस्तारः, ऐभौ इभस्य-हस्तिन इमो, हस्तिसम्बन्धिनावित्यर्थः, कुम्भौ मस्तकभागौ, पूर्वपक्षीकरोति पूर्वपक्षतामापादयति, तादृशकुम्भगतसादृश्याधिक्येन तिरस्करोतीत्यर्थः, गण्डभित्तेः कपोलरूपभित्तेः, अच्छता उज्ज्वलता, दन्तच्छेदच्छविं दन्तस्य-हस्तिदन्तस्य, छेदे-छेदने कृते सति, छिन्नभागे या छविः-पाण्डुवर्णा कान्तिस्ताम्, अनुवदति अनुकरोति, उपमिनोतीत्यर्थः, आस्यलक्ष्मीः मुखमण्डलशोभा, द्युतिविलसितैः कान्तितरङ्गः, चान्द्रं चन्द्रसत्कं, विम्बं मण्डलं, दूषयति सकलङ्कतया आक्षिपति ॥१॥ मन्ये उत्प्रेक्षे, अस्याः प्रत्यक्षवर्तिन्याः कन्यकायाः, नीरजदलस्रग्दामदैर्घ्यद्रुहा कमलदलमालामयरज्जुदीर्घतातिरस्कारिणा, नेत्रयुगेन नयनद्वयेन, च पुनः, चश्चत्पार्वणचन्द्रमण्डलरुचा चञ्चत्पार्वणचन्द्रमण्डलस्येव-उद्यत्पूर्णिमाचन्द्रबिम्बस्येव, रुक-कान्तिर्यस्य तादृशेन, वक्त्रारविन्देन मुखकमलेन, विजितां तिरस्कृतां, स्वाम् आत्मीयां, दृशं नेत्रं, च पुनः, रुचं छविम् , आलोक्य दृष्ट्वा, त्रपाबाधितैः लजाव्यथितैः, कमलैः मृगैः पद्मश्च, निर्जनसञ्चरेषु जनसंचारशून्येषु, वनेषु अरण्येषु जलेषु च, तुल्यं सदृशं यथा स्यात् तथा, स्थितिः निवासः, बद्धा सर्वदा कृता, एतदीयनयनश्रिया तिरस्कृतां खशोभामवेक्ष्य लजितैर्मगैररण्येषु पद्मश्च जलेषु निवासः स्वीकृत इत्युत्प्रेक्षार्थः ॥२॥ अथ अनन्तरं, समाप्तमन्त्रजपविधिः समाप्तीकृतमन्त्रजपात्मककार्या सती, उत्थाय ऊर्वीभूय, कृतदेवताप्रणामा कृतमन्त्राधिष्ठातृपुरोवर्तिदेवतानमस्कारा, गृहीतपुष्पपटलिकया धृतपुष्पपुञ्जया, परिचारिकया मृत्यया, पृष्ठतः पश्चाद्भागे, अनुगम्यमाना अनुत्रियमाणा, हसितमदमत्तहंसगतिः तिरस्कृतमदमत्तहंसगमना, मन्थरैः मन्दः, पदन्यासैः पादविक्षेपैः, निर्गत्य निःसृत्य, आयतनपर्यन्तवर्तिषु निरुक्तप्रधानमन्दिरप्रान्तवर्तिषु, प्रसादकेषु लघुमन्दिरेषु, प्रतिष्ठिताः सन्निविष्टाः, जिनप्रतिमाः जिनमूर्तीः, कमेण, अपूजयत् पूजितवती । पुनः मूलायतनस्य प्रधानमन्दिरस्य, कृतप्रदक्षिणा विहितप्रदक्षिणभ्रमणा, समुपेत्य निकटं समागत्य, मे मम, पुरतः अग्रे, बभूव स्थिता। च पुनः, उपरतनिमेषावेशम् उपरतं-निवृत्तं, निमेषस्य-पक्ष्मस्पन्दस्य, आवेशम्-आसङ्गम् , च पुनः, आकृतिविशेषं विलक्षणमाकारं, सुचिरं दीर्घकालं "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy