________________
तिलकमञ्जरी 'राजपुत्र ! निरन्तरलतागुल्मगहनान्तरितदर्शनस्य वननिवासिनस्तपस्विलोकस्य कृताकृतमिव ज्ञातुमम्बरशिखरमारूढोऽयमखिलजगतः कर्मसाक्षी भगवानुष्णरश्मिः, गन्तव्यमधुना मया मध्याह्नकाल क्रियाकरणाय वनमध्यम् , त्वमप्युत्तिष्ठ सहितो मयैव, अनुतिष्ठ मध्यन्दिनकृत्यम् , आसन्नवर्ती भोजनसमयः' इत्यभिधाय चलिता [थ] । गता च क्रमेण रमणीयपरिसरामेकामरण्यसरसीम् । तस्याश्च पृथुलमणिशिलासोपाननद्धे तीर्थरोधसि कृतावस्थाना स्थापयित्वा कमण्डलुमादाय कुसुमान्यासन्नजाताभ्यो वनलताभ्यो निक्षिप्य सलिलक्षालितेऽन्यतमसोपाने कृतस्नाना दत्तदिनकरार्घाञ्जलिर्जपन्ती पवित्राणि गायत्रीपदानि तावदास्त, यावन्मे देवतार्चनकर्म निर्माणमगमत् [द] । अवसिते च तस्मिन्नुत्थाय सा प्रथममेव प्रक्षाल्य पुलिनभूमावुद्वापितं परिधाय हंसधवलं दिव्यतरुवल्कलांशुकमन्तिकं मे समागच्छत् । उपनीतपत्रपात्रा च पुरतो निविश्य सादरं स्वहस्तेनापवर्जितैः सुधारसस्वादुभिः सुरलोकपादपफलैर्विधाय मामपगताहारवाञ्छमच्छशिशिरेण सुरसाम्भसा कारितोपस्पर्शना मदुपनीतशेषं कन्दमूलफलमास्वादितवती, भुक्तावसाने च विहितेतिकर्तव्या समागत्य नातिनिकटे ममोपाविशत् [ध]।
राजपुत्र! युवराज!, निरन्तरलतागुल्मगहनान्तरितदर्शनस्य निरन्तरेण-निविडेन, लतानां गुल्मानां-निःस्कन्धतरूणां च, गहनेन-वनेन, अन्तरितं-तिरोहितं, दर्शनं यस्य तादृशस्य, वननिवासिनः, तपस्विलोकस्य तपस्विजनस्य, कृताकृतं कृतं-सम्पादितम् , अकृतम्-असम्पादितं च, ज्ञातुमिव परीक्षितुमिव, अखिलजगतः समस्तजगतः, कर्मसाक्षी कर्मसाक्षादृष्टा, भगवान् ऐश्वर्यशाली, अयम् , उष्णरश्मिः सूर्यः, अम्बरशिखरम् आकाशमध्यम् , अधिरूढः आरूढवान् , मध्याह्नकालक्रियाकरणाय दिनमध्यकालिककृत्यसम्पादनाय, अधुना इदानी, वनमध्यं मया गन्तव्यं वनमध्यगमनं प्राप्तावसरम् , त्वमपि मयैव सहितः सह, उत्तिष्ठ गन्तुं प्रवर्तख, पुनः मध्यन्दिनकृत्यं मध्याह्नकालिककार्यम् , अनुतिष्ठ सम्पादय,भोजनसमयः भोजनकालः, आसन्नवर्ती, इति इत्थम् , अभिधाय उक्त्वा, चलिता प्रस्थिता [थ] । च पुनः, क्रमेण पूर्वपूर्वप्रदेशातिकमक्रमेण, रमणीयपरिसरां मनोहरप्रान्तप्रदेशाम् , अरण्यसरसीं वन्यमहासरः, गता उपस्थिता । च पुनः, पृथुलमणिशिलासोपाननद्धे स्थूलमणिरूपप्रस्तरमयाधिरोहणीबद्धे, तस्याः सरस्याः, तीर्थरोधसि जलावतारतटे, कृतावस्थाना अवस्थिता, कमण्डलं जलपात्रविशेष, स्थापयित्वा, पुनः आसन्नजाताभ्यः अचिरोद्भिन्नाभ्यः, वनलताभ्यः वनसम्बन्धिलतासकाशात् , कुसुमानि पुष्पाणि, आदाय अवचित्य, पुनःसलिलक्षालिते जलधौते, अन्यतमसोपाने अन्यतमे-बहूनां मध्ये कस्मिंश्चिदेकस्मिन् , सोपाने-निःश्रेणिकायाम् , निक्षिप्य रक्षित्वा, कृतस्नाना नाता सती, दत्तदिनकरार्धाञ्जलिः समर्पितसूर्योद्देश्यकार्घाञ्जलिः, पवित्राणि विशुद्धानि, गायत्रीपदानि गायत्रीमन्त्रान्, जपन्ती उपांशुचारयन्ती, तावत् तावन्तं कालम् , आस्त उपाविशत् , यावत् यावन्तं कालं, मे मम, देवतार्चनकर्म देवाराधनकार्यम् , निर्माणं निष्पत्तिम् , अगमत् प्राप्तम् [द]च पुनः, तस्मिन् गायत्रीजपे, अवसिते समाप्ते सति सा तापसकन्यका, प्रथममेव स्नानात् पूर्वमेव, प्रक्षाल्य जलाप्लावनेन विशोध्य, पुलिनभूमौ अचिरजलोत्थितस्थल्याम् , उद्वापितं शोषितं, हंसधवलं हंससदृशशुभ्रवर्ण, दिव्यतरुवल्कलांशुकम्, उत्तमवृक्षत्वग्रूपसूक्ष्मश्लक्ष्णवस्त्रं, परिधाय शरीरेण धृत्वा, मे मम, अन्तिक समीपं, समागच्छत् समागता। च पुनः, उपनीतपत्रपात्रा आनीतपलाशपत्रपुटका, पुरतः अग्रे, निविश्य उपविश्य, सादरम् आदरसहितं यथा स्यात् तथा, खहस्तेन अपवर्जितैः समर्पितैः, सुधारसस्वादुभिः अमृतरसमधुरैः, सुरलोकपादपफलैः खर्गसम्बन्धिवृक्षफलैः, माम् , अपगताहारवाञ्छम् अपगता-निवृत्ता, आहारवाञ्छा-बुभुक्षा यस्य तादृशं, विधाय कृत्वा, अच्छशिशिरेण अच्छेन-निर्मलेन, शिशिरेण-शीतलेन, सुरसाम्भसा मधुरजलेन, सारसेति पाठे प्रकृतसरोवरजलेन, कारितोपस्पर्शना कारितहस्तमुखग्रक्षालना, मदुपनीतशेषं मत्समर्पितावशिष्टं, कन्दमूलफलम् , आस्वादितवती भुक्तवती। च पुनः, भुक्तावसाने भोजनसमाप्तौ सत्यां, विहितेतिकर्तव्या विहितं-सम्पादितम्, इतिकर्तव्यं भोजनाङ्गभूतं जलोपस्पर्शनाद्यात्मकं काय यया तादृशी सती, समागत्य समुपस्थाय, मम, नातिनिकटे किञ्चित्समीपे, उपाविशत् उपविष्टा [ध] ।
"Aho Shrutgyanam"