________________
टिप्पनक- परागविवृतिसंगलिता
केवलोsपि स्फुरन् बाणः करोति विमदान कवीन् । किं पुनः क्लृप्तसन्धानपुलिन्दकृतसन्निधिः ॥ २६ ॥ [ पथ्या ]
टिप्पनकम् - करोति विदधाति । कः ? बाणः बाणनामा कविः । कान् ? कवीन् काव्यकर्तृन् । किम्भूसानू ? विमदान् विगतदर्पान् । किं कुर्वन् ? स्फुरन् द्योतमानः । किम्भूतः ? केवलोऽपि असहायोऽपि, एकाक्यपीत्यर्थः । किं पुनः किमुच्यते पुनः ? विशेषेण चिमदान करोति । किम्भूतः ? क्लृप्तसन्धान पुलिन्दकृतसन्निधिः क्लृप्तसन्धानः- कृतकादम्बरीसमाप्तिः, यः पुलिन्द:- पुलिन्दाख्यः सुतः, तेन कृतं सन्निधानं यस्य स तथोक्तः, स्वपुत्रकवियुक्त इत्यर्थः । अन्यत्र केवलोऽपि नरादिरहितोऽपि, बाणः शरः, करोति, कवीन् कम्-जलम्, तत्र वयःपक्षिणो हंसादयः तान् पक्षिणः, किम्भूतान् ? विमदान् हर्षरहितान् विषादवत इत्यर्थः, किं कुर्वन् ? स्फुरन देदीप्यमानः, किं पुनर्न करोति ? कथम्भूतः ? कॢप्तसन्धान पुलिन्दकृतसन्निधिः कृतं कृतं सन्धानं धनुष्यारोपण येन स तथोक्तः, स चासौ पुलिन्दश्च शबरच तेन कृतः सन्निधिः सन्निधानं यस्य स तथोक्तः, आरोपितचापनाहलविहितसामीप्यः ॥ २६ ॥
गिरः वाचः, म्लायन्ति ग्लानिमाप्नुवन्ति, लोके मन्दतरा भवन्तीत्यर्थः । केन का इव ? आसन्नवर्तिना समीपवर्तिना, दीपेन मालतीकलिका इव मालत्याः - तन्नाम्नः कुसुमविशेषस्य, कलिकाः - कोरकाः, ता इव । विक्रमादित्यसदसि नवरत्नान्यतमतया प्रसिद्धकालिदासादन्य एव भोजराजकालिकः कालिदास इतिहासवारस्येन सिद्ध्यति, एकस्यैव तदुभयकालिकत्वासम्भवात्, तथा च तिलकमञ्जरीप्रणेतुर्धनपालकवेरपि भोजराजकालिकतया 'आसन्नवर्तिना' इति पदं 'भोजराजसदसि मया सहोपवेशिना, इत्यर्थकमूहनीयमिति केचित्, अपरे तु बाणकवेः प्राग्वर्णनाद् विक्रमकालिक एवायं कालिदास इति वदन्ति ।
अत्रोपमालङ्कारः । "कलिका कोरकः पुमान्" इत्यमरः ॥ २५ ॥
wwwww
परागाभिधा विवृतिः - अथ ससुतं कमनीयकवनकलायुतं श्रीमाणकविमुपवर्णयति - केवलोऽपीति । 'बाणः केव लोsपि स्फुरन, कवीन् बिमदान् करोति, क्लृप्तसन्धान पुलिन्दकृतसन्निधिः पुनः [ विमदान् करोति ] किम् [ वक्तव्यम् ? ]' इत्यन्वयः । बाणः तन्नामा कादम्बरी प्रमुखोत्तम काव्यप्रणेता कविः । केवलोऽपि एकाक्यपि, अनन्य साहाय्योऽपीत्यर्थः । स्फुरन् किश्चिचेष्टमानः । कवीन् स्वेतरकवीन् । विमदान् कवित्वाभिमानशून्यान् । करोति सम्पादयति । तर्हि कृप्त सन्धानपुलिन्दकृतसन्निधिः कृप्तम् - विहितम्, सन्धानम् - खपितृचरणप्रणीत कादम्बरीप्रन्थस्य पूर्वार्धमात्रस्य स्वप्रणीतेन तत्परिशिष्टोत्तरार्धेन संयोजनम्, येन तेन पुलिन्देन - तन्नाम्ना खतनयेन कृतसन्निधिः - कृतसाहाय्यः सन् पुनः अतिशयेन तथा करो - तीति किं वक्तव्यम् - न वक्तव्यम्, अर्थापत्त्यैव तद्बोधसिद्धेः, यद्वा किमो वितर्कार्धिकतया 'तत्कृतसाहाय्यस्तु विशेषेण तथा करोति' इति वितर्क इत्यर्थः । श्रष्टपदैरनुरणितोऽर्थस्तु बाणः-शरः केवलोऽपि धनुष्यारोपितोऽपि, कवीन् कस्य - जलस्य, वीन् - पक्षिणो हंसादीन् विमदान् वावलोकनमात्रोपचितभयभन्नहर्षान् करोति, तर्हि कृप्तसन्धान पुलिन्दकृतसन्निधिः क्लृप्तम्-कृतम्, सन्धानम्-समाकृष्य धनुर्ज्या यामारोपणम्, येन तेन पुलिन्देन - म्लेच्छजातीयेन कृतः सन्निधिः - खहस्ते सम्यग् निधानं धारणं यस्य सः, धनुष्यारोप्य विक्षेप्तुं भित्रहस्तावलम्बित स्त्वित्यर्थः, पुनः विशेषेण तथा करोतीति न वक्तव्यमर्थापस्यैव तद्बोधसिद्धेरित्येवं रूपः ।
ter sarart: । " के शीर्षेऽप्सु सुखे" इति, "मदो रेतस्यहङ्कारे मद्ये हर्षेभदानयोः" इति चानेकार्थसङ्ग्रहः; "नगौको-वाजि-विकिर-बि- विष्किर - पतत्त्रयः" इति, “किरात - शवर - पुलिन्दा म्लेच्छजातयः” इति चामरः, "पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षान्तरेऽपि च' इति, 'किं कुत्सायां वितर्के च निषेध - प्रश्नयोरपि" इति च मेदिनी ॥ २६ ॥