________________
तिलकमञ्जरी। प्रसन्नगम्भीरपथा रथाङ्गमिथुनाश्रया। पुण्या पुनाति गङ्गेव गां तरङ्गवती कथा ॥२३॥[भविपुला ] प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिभिः पदैः । राजन्ते जीवदेवस्य वाचः पल्लविता इव ॥ २४ ॥ [पथ्या] म्लायन्ति सकलाः कालिदासेनासन्नवर्तिना। गिरः कवीनां दीपेन मालतीकलिका इव ॥ २५॥ [मविपुला]
now
टिप्पनकम्-पुनाति पवित्रयति । का? कथा । किमभिधाना ? तरङ्गवती । काम् ? गां पृथिवीम् । केव? गङ्गेव सुरनदीव । किम्भूता तरङ्गवती गङ्गा च? प्रसनगम्भीरपथा प्रसादवद्गम्भीरार्थवचनमार्गा, निर्मलालब्ध. मध्यप्रवाहा, तथा रथाङ्गमिथुनाश्रया चक्रवाकयुगलाश्रिता, चक्रवाकयुगलं हि तत्र वर्ण्यते, गङ्गा र चक्रवाकयुगलानामाधारभूता, तत्र तानि सुखमाहारादिकं लभन्त इति, तथा पुण्या पवित्रा, पुण्यकारणं च, गङ्गा कोदशी? . तरङ्गवती कल्लोलयुक्ता ॥ २३ ॥
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ २४ ॥ टिप्पनकम् -[ नेह व्याख्यातम् ] ॥ २५ ॥
परामाभिधा विवृतिः-अथ श्रीपादलिप्तसूरिविरचितां तरङ्गवतीनाम्नी कथामरतरङ्गिणीश्लिष्यमाणविशेषणैर्वर्णयतिप्रसन्नगम्भीरपथेति । 'गनेव प्रसन्नगम्भीरपथा रथाङ्गमिथुनाश्रया पुण्या तरङ्गवती कथा गां पुनाति' इत्यन्वयः । प्रसन्नगम्भीरपथा प्रसन्न:-श्रवणमात्रेणार्थप्रत्यायकत्वरूपप्रसादगुणान्वितः, गम्भीर:-अर्थगाम्भीयोन्वितश्व, पन्थाः-पदविन्याससरणिर्यस्यामसौं। रथाङ्गमिथनाश्रया रथाङ्गो-चक्रवाकाख्यपक्षिप्रभेददम्पती, तयोमिथुनम-द्वन्द्वम, तदेव आश्रयः-वर्णन मुख्यविषयताश्रयो यस्या असो । पुण्या पवित्रा, विशुद्धेत्यर्थः । तरङ्गवती तन्नानी, कथा गद्यकाव्यभेदः । गां तत्काव्यमनुशीलयता वाचम् । पुनाति विशदव्युत्पत्तिद्वारा विशोधयति । केव ? गङ्गेव ? 'गड्डा' इत्याख्यया विख्याता वर्णदीव, सा यथा प्रसन-गम्भीरपथा प्रसन्नाः-निर्मलाः, गम्भीराः-निम्नाः, अशक्यतलस्पर्शा इत्यर्थः, पन्थानः-वर्गलोक-मर्त्यलोक-पाताल. लोकात्मानः प्रवाहमार्गा यस्या असौ, रथाङ्गमिथुनाश्रया रथाङ्गमिथुनम्-चक्रवाकयुगलम् , आश्रयः-तत्तीरविहारपुरस्सरतदनुरितबिसलताकवलनप्रीत्लाश्रयो यस्यामसौ, पुण्या पुण्यजननी, तरङ्गवती प्रवाहवती, गां वर्ग पृथिवीं च, पुनाति पवित्रयति, तथा।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः । “रथाझं न द्वयोश्चक्रे ना बक्राङ्गविहङ्गमें” इति च मेदिनी ॥ २३ ॥
परागाभिधा विवृतिः--अथ जीवदेवकविप्रणीतप्राकृतप्रबन्धप्रविष्टा वाचः प्रशंसति-प्राकृतेष्विति । 'प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिभिः पदैर्जीवदेवस्य वाचः पल्लविता इव राजन्ते' इत्यन्वयः । प्राकृतेषु प्राकृतभाषया विरचितेषु । प्रव. न्धेषु ग्रन्थेषु । जीवदेवस्य वाचः जीवदेवसूरिनिवेशिता वाचः। रसनिष्यन्दिभिः सुगमार्थकतया संस्कृतानभिज्ञहृद. येऽपि झारादिरसवर्षिभिः। पदैः विभत्त्यन्तशब्दैः । पल्लविता इव निरुक्तपदरूपनूतनदलसमुल्लसिता इव । राजन्ते शोभन्त इत्युत्प्रेक्षा । अत्र पदानां पल्लवरूपेण वाच्योत्प्रेक्षा, पल्लवस्य स्तबकाविनाभावित्वात् स्तबकरूपेण वाच्योत्प्रेक्षा, स्तबकस्य च शाखोपशाखाऽव्यभिचारित्वात् प्रत्येकप्राकृतप्रबन्धानां तदीयप्रकाराणां च शाखोपशाखारूपेणोत्प्रेक्षा, शाखोपशाखानां च पादपाविनाभावितया प्राकृतप्रबन्धमालायाः पादपरूपेणोत्प्रेक्षा च प्रतीयत इत्यूहनीयम् । अत्रोत्प्रेक्षालङ्कारः ॥ २४ ॥
परागाभिधा विवृतिः-अथ कविकलापोद्भासुरकलाशालिनं कालिदासकविमुपश्लोकयति-म्लायन्तीति । आसन्नवर्तिना दीपेन मालतीकलिका इव आसन्नवर्तिना] कालिदासेन कवीनां सकला गिरो म्लायन्ति' इत्यन्वयः । अन्यदा विकसन्तु नाम, किन्तु आसन्नवर्तिना निकटवर्तिना, स्मृतिपथमवतरतेत्यर्थः, कालिदासेन तन्नान्ना कविवरेण, कवीनां तदन्य. निखिलकवीनाम्, न तु कस्यचिदेव कवेः, सकलाः निखिलाः, न तु काचिदेव, यद्वा सकलाः काव्यकलाविशिष्टा अपि,
४ तिलक.