________________
टिप्पन-कपरागविवृतिसंवलिता वन्द्यास्ते कवयः काव्यपरमार्थविशारदाः। विचारयन्ति ये दोषान् गुणांश्च गतमत्सराः॥८॥ [ पथ्या] वार्थोऽनार्यः स निर्दोषे यः काव्याध्वनि सर्पताम् । अग्रगामितया कुर्वन् विघ्नमायाति सर्पताम् ॥ ९॥ [ पथ्या ]
टिप्पनकम्-~-अथ कविवर्णनं दुर्जननिन्दा चाह-वन्द्या इति, सुगमम् ॥ ८॥ टिप्पनकम्-स अनार्यः दुर्जनः, वार्यः निवारणीयः, य आयाति प्रामोति । काम्? सर्पताम् महिताम् , किम् ? कुर्वन् विदधानः । कम्? विघ्नम् अन्तरायं दोषोत्पादनलक्षणम् । कया? अग्रगामितया पुरोगन्तृत्वेन । केषाम् ? सर्पतां प्रवर्तमानानाम् । क्व? काव्याध्वनि काव्यमार्गे । किंभूते? निर्दोषे छन्दोऽलङ्कारादिदोषरहिते, सोऽपि यदा मार्गे चोरादिदोषशून्ये गच्छतामग्रगामित्वेन विघ्नं करोति तदा वार्योऽनार्यः-क्रुद्धः ॥ ९ ॥
वऋभिप्रेता वाग् जयति सर्वोत्कर्षेण वर्तते । सा का ? इत्याह-शुद्धया च्युतसंस्कारत्वादिदोषशून्यया, यया वाचा करणभूतया, प्रतिपदा लोकाभिभावकधिया, क्षीणोऽपि विहीनोऽपि, यद्वा क्षीणोऽपि-क्षीणविभवोऽपि, कविः कवयिता, जीवति वचन राजधान्यां जीविकापन्नो भवति, 'प्रतिपदा' इत्यस्योत्तरत्राप्यन्वयात्, यद्वा क्षीणोऽपि कुष्ठादिरोगगलिताङ्गोऽपि कविः, जीवति-भगवदाराधककाव्यं प्रणीय तत्पुण्यपुष्टवपुषा प्राणान् धारयति, यथा लोके सूर्यशतकं प्रणीय कविर्मयूरः। अथवा जीवति-जीव इव बृहस्पतीरिवाचरति, लोके गुरुत्वमुपैतीत्यर्थः, यद्वा क्षीणोऽपि-दैत्यगुरुतया प्रतिष्ठाहीनोऽपि, कविः-शुक्रः, जीवति वाग्वैभवेन जीव इव बृहस्पतिरिव आचरति प्रतितिष्ठति । कया क इव ? इत्याह-शुद्धया शुक्लया, प्रतिपदा प्रतिपद्यते परिच्छिनत्ति मासं यया तया तिथ्या, या प्रतिपद्यते पक्षस्याद्यत्वेन निरूप्यते या तया प्रतिपदा, क्षीणोऽपि-कृष्णप्रतिपदमारभ्य क्षीणकलोऽपि, इन्दुरिव चन्द्र इव, यथा अमायामेकराशिद्वादशांशान्तःपातिसूर्यरश्मिभिस्तिरोधानात् क्षीणकलः पुनः
तिपदा. जीवति-शनैः शनैः पूर्णकलो भवति तथेत्यर्थः. द्वादशांशानतिकम्य कदाचन शुकप्रतिपद्यपि चन्द्रोदयात. द्वितीयायां तदुदयोऽपि तन्नियतपूर्वत्वाच तस्याः कारणत्वं सुवचमिति बोध्यम् । अत्रोपमालङ्कारः।
"प्रतिपत् संविदि तिथौ” इति, “कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्" इति चानेकार्थसंग्रहः, "जीवौ जन्तु-बृहस्पती" इति शाश्वतः।
पथ्यावृत्तम् , तल्लक्षणं तु “तद्युजोर्जः" [ छन्दोऽनुशासनम् ], तदर्थश्च-तद् 'अनुष्टुभि नाद्यात् स्नौ तुर्याद् यो वकम्' इत्युक्तं व युजोः पादयोस्तुर्यादक्षरात् परो जगणश्चेद् भवति तदा पथ्येति ॥ ७ ॥
परागाभिधा विवृतिः-ननु न कवयो जीवितुमलम् , एकस्य काव्ये द्वेषवशादन्येन दोषोद्भावनादित्यत आहवन्द्यास्ते इति । 'काव्यपरमार्थविशारदास्ते कवयो वन्द्याः, गतमत्सरा ये दोषान् गुणांश्च विचारयन्ति' इत्यन्वयः । यतः कवयः खयमपि कवनकर्माणः, अतः काव्यपरमार्थविशारदाः काव्यस्य-परप्रणीतस्य रसात्मकवाक्यस्य, परमः-वाच्यार्थापेक्षयोत्तमः, अर्थः-रसादिरूपो व्यङ्ग्यार्थः, तत्र विशारदाः-तदावादनकुशलाः, *गुणी गुणं वेत्ति इति न्यायात् । ते वन्द्याः स्तुत्याः, ये गतमत्सराः अन्यशुभद्वेषशून्याः सन्तः,दोषान् झटिति रसास्वादव्याघातकांच्युतसंस्कारत्वाति समाप्तपुनरात्तत्वादिरूपान् वाक्यदोषान् , अश्लीलत्वादिरूपान् अर्थदोषान् , विभावा-ऽनुभावाभिव्यक्तिकाठिन्यादिरूपांश्च रसदोषान् , न केवलं दोषान् अपि तु गुणांश्च रसोत्कर्षकान् माधुर्यादिरूपान् गुणानपि विचारयन्ति परकाव्येषु समालोचयन्ति, *मक्षिकावण*न्यायेन परकाव्येषु केवलदोषान्वेषणमन्यशुभद्वेषदुर्विलसितमात्रमतः "गुण-दोषौ बुधो गृह्णन्निन्दु-श्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति” ॥ इति न्यायेन रसाखादैकप्रणयिभिर्गुणानेव पुरस्कृत्य खसहृदयत्वमुद्योतनीयमित्यर्थः ।
... “मत्सरोऽन्यशुभद्वेषः" इत्यमरः ॥ ८॥ .: परागाभिधा विवृतिः-यो मृषादोषमुद्धोषयन् लोके रसास्वादमवरुणद्धि स एव दुर्जनत्वेन परीक्ष्य प्रेक्षावत्तोन्मत्तबद्रुषेक्षणीयः, न तु तद्वचसा किमपि. काव्यमित्याह-वार्योऽनार्य इति । 'यो निदोषे काव्याध्वनि सर्पतामग्रगामितया विनं