________________
तिलकमञ्जरी ।
प्रबन्धानामनध्यायः सा वाग् जयति शुद्धया ।
यया प्रतिपदेवेन्दुः कविः क्षीणोऽपि जीवति ॥ ७ ॥ [ पध्या ]
१५
टिप्पनकम् - - वाच उत्कृष्ट [ ता ] माह-सा वागू वाणी, जयति उत्कृष्ट वर्तते । यया वाचा, कविः, कीदृश: ? क्षीणोऽपि जीर्णोऽपि जीवति उच्छ्वसिति प्राप्तप्रसिद्धिलोंके भवति, जीवति जीव इव बृहस्पतिरिवाचरति, अयिलोपे रूपम्, बृहस्पतीयतीत्यर्थः । कयेव कः ? प्रतिपदेव शुक्लपक्षप्रथमतिथ्येव, इन्दुः, यथा चन्द्रः प्रतिपदा क्षीणोऽपि क्षयप्राप्तोऽपि जीवति । किम्भूतया वाचा प्रतिपदा च ? शुद्धया निर्दोषया शुभ्रया च । कीदृशी वाक् प्रतिपथ ? अनध्यायः अनध्ययनमनध्ययन हेतुत्वाद् अपठनं तथाविधार्थालङ्काराद्यभावेनोद्वेगहेतुखात् । केषाम् ? प्रबन्धानां शास्त्राणाम्, प्रतिपदप्यनध्यायः शाखाणामध्ययनस्य निषेधाच्छास्त्रे ॥ ७ ॥
अमरैरसुरैर्यक्षै रक्षोभिरुरगैर्नरैः । त्रैलोक्येनापि शक्येत ध्यानाचालयितुं नहि ॥ १६ ॥ इत्याकर्ण्य वचः शाकं शकसामानिकः सुरः । ललाटपट्टघटितभ्रुकुटीभङ्गभीषणः ॥ १७ ॥ कम्पमानाधरः कोपाल्लोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सन्नमकोऽवदत् ॥ १८ ॥ मर्त्यः श्रमणमात्रोऽयं यदेव देव ! वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ॥ १९ ॥ raisé चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ॥ २० ॥ अर्हन्तः परसाहाय्यात् तपः कुर्वन्त्यखण्डितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ॥ २१ ॥ विकटोरःस्थलाघात पुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यन्त्रासीत् परमेश्वरः ॥ २२ ॥ वज्रसारमनस्कोऽयं बहुधाऽपि कदर्थितः । न क्षोभ्यते कथमहं भन्नार्यामि तां सभाम् ॥ ७८ ॥ तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥ ७९ ॥ अवाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥ ८० ॥ पृथिवीं सम्पुटीकर्तुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः ॥ ८१ ॥ ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयन् । उत्पपात जगद्भर्तयवानल इवार्णवे ॥ ८२ ॥ कुलक्षितिधरक्षोदक्षमस्यास्य प्रभावतः । ममज्जाजानु भगवानन्तर्वसुमतीतलम् ॥ ८३ ॥ एवम्भूतोऽपि भगवान शोचदिदमस्य यत् । तितारयिवो विश्वं वयं संसारकारणम् ॥ ८४ ॥ कर्मणैवंविधेनाऽयं क्व वराको वजिष्यति ? । न शक्यते तारयितुमस्माभिरपि तारकैः ॥ १२१ ॥ एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोद्वाष्पे मन्थरतारके ॥ १२२ ॥ "चक्रं प्रहरणे गणे" इत्यनेकार्थसङ्ग्रहः, “कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्” इति, “अथातिश्चयो भरः" इति चामरः ॥ ६ ॥
परागाभिधा विवृतिः - अथ निखिलनिगमाऽऽगमगुम्फिनीं वाचमभिष्टौति - प्रबन्धानामनध्याय इति 'प्रबन्धानामनध्यायः सा वाग् जयति, शुद्धया यया [ वाचा ] प्रतिपदा इन्दुरिव क्षीणोऽपि कविजींवति' इत्यन्वयः । प्रबन न्धानां प्रकृष्टानामर्थगतातीतत्वाऽप्रसिद्धत्वप्रयुक्तानां प्रतिभासप्रतिबन्धानाम्, अतीता ऽनागतादीनामतीन्द्रियाणामपि बन्ध्या सुतादीनामप्रसिद्धानामपि च शब्दतः प्रतिभासात्, अथवा प्रबन्धानां प्रकृष्टानामपि बन्धानां वर्णनात्मकरचनानाम्, अनध्यायःअविषयः, विशिष्टकाव्यरचनत्राऽपि वर्णनाऽगोचरगुणेत्यर्थः, यद्वा प्रकृष्टानां--पद्म- हारादिमनोहराकृतीनाम्, बन्धानां लिपिसन्निवेशविशेषाणाम्, अनध्यायः अनधि - न विद्यते अधि अधिको यस्मादसौ निरतिशय इत्यर्थः, आयः - लाभास्पदम् प्रतिपत्पक्षे तु प्रबन्धानां शास्त्राणाम्, अनध्यायः अनध्यायतिथिः तत्तिथावध्ययनप्रतिषेधात्, तदुक्तं निर्णयामृते “प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी । दिनं दूषयते सर्व सुरा गव्यघटं यथा” ॥ १ ॥ इति, तिथितत्त्वे व्यासेनापि - “सा च यौधिष्ठिरी सेना गाङ्गेयशरताडिता । प्रतिपत्पाठशीलानां विद्येव तनुतां गता ॥ २ ॥ इति, “प्रतिपत्पाठशीलस्य विद्येव तनुतां गता" । इति च हनुमता लङ्कातः प्रत्यागत्य रामं प्रति प्रत्यपादि लङ्केशनिगृहीतायाः सीताया दैवदुर्विलसितम् । सा वयमाणयत्पदमोध्यत्वेन