________________
२. कलिकालसर्वज्ञ श्री हेमचन्द्रसूरीश्वरस्य शब्दानुशासनस्योपरि चतुरशीतिसहस्त्र (८४०००) श्लोकात्मकस्य स्वोपज्ञ' शब्दमहार्णवन्यास (अपरनामबृहन्न्यास) स्याद्यत्वे विंशतिसहस्र (२००००) श्लोकात्मकतयैवोपलभ्यमानस्य न्यासस्यसंशोधनं त्रुटितस्थले च विशालकायमनुसन्धानं निरमायि ।
२२
३. तवार्थाधिगमसूत्रान्तर्गत दर्शन मूलभूत त्रिसूत्री —तद्भाष्य-तद्विवरणावष्टम्भिनी सहस्रचतुष्टय (४०००) संख्यक लोकात्मिका 'त्रित्रिप्रकाशिका' विवृतिश्व विरचिता । ४. न्यायाचार्य - न्यायविशारद --- महामहोपाध्याय ' श्रीयशोविजयगणिश्वरप्रणीत- ' 'नरहस्य' ग्रन्थोपरि सहस्रत्रय ( ३०००) श्लोकप्रमिता 'प्रमोदा 'ख्या विवृत्तिरपि कृतिजनप्रमोदाय निरभायि ।
५. तद्गणिवरग्रथित 'सप्तभङ्गी - नयप्रदीपप्रकरणोपरि सहस्रद्वय (२०००) -संख्यकलोकात्मिका 'बालावबोधिनी वृत्तिः समपादि ।
६. गणिवरविरचित 'जैनतर्कपरिभाषा' - परनामका - 'ऽनेकान्तव्यवस्था'-ग्रन्थो परि चतुर्दशसहस्र (१४०००) लोकप्रमिता 'तत्त्वबोधिनी' विवृतियैवन्धि |
>
७. तगणिवरोपज्ञ 'नथोपदेश' टीका 'नयामृततरङ्गिणी' ग्रन्थोपरि (१६०००) षोडशसहस्र लोकप्रमिता ' तरङ्गिणीतरणि' नामा विवृतिर्व्यरचि ।
८. चतुश्चत्वारिंशदधिकचतुर्दशशतप्रमितग्रन्थानां प्रणेत्श्रीहरिभद्रसूरीश्वरकृत 'शास्त्रवार्तासमुच्चयग्रन्थोपरि (२५०००) पञ्चविंशतिसहस्रश्लोकप्रमिता विवृतिर्व्यधायि । "कलिकाल सर्वज्ञस्य भगवतः श्रीहेमचन्द्राचार्यस्य 'काव्यानुशासन' स्योपरि (३००००) fiarsenife वृत्तिरकारि ।
१०. प्रस्तुत तिलकमञ्जर्या उपरि 'पराग' विवृतिर्व्यभासि ||
एवमनल्पनानाविधग्रन्थरत्नानामध्ययनाध्यापन - विरचनादिना परागप्रणयनकृद्भिरस्मद्गुरुचरणैरनल्पा ज्ञानोपासना कृता कारिता चेति फलति ।अमीषां प्रकाण्डपाण्डित्यसाक्षात्कारमंदसीय ग्रन्थावलेरवलोकनतः प्रकटं कुर्वन्तु कृतिनः सुकृतिनः । एतादृशग्रन्थराशेरध्ययनादिकं निर्माय निर्मायीभूय निर्वाणं यन्तु जन्तुनिवह इत्याशासमानो विरमति —
पन्यास दक्षविजयो गणिः ।
स्थलम्— सीसोदरा
('नवसारी' निकटवर्ति)
समय:
Fararशाम्बरेन्दुमिते विक्रमान्दे माधवला षष्ठी ।
[ श्री कुन्थुनाथप्रभृर्तिचमत्कृतलोकप्रतिष्ठावसरम् ]