________________
तिलकमञ्जरी ।
A
तानां चतुरुदद्धित्रेलावधिवसुन्धराभुजामखिलदिङ्मुखविसर्पितोदग्रप्रतापतथा तुलितनिजवंशादिपुरुषादित्ययशसामिक्ष्वाकुवंश्यानामवनीभृतां पश्चिमो न भवामि, यथा च देवी मदिरावती जगदेकवीरात्मजप्रसविनीनामस्मत्पूर्वपुरुषमहिषीणां महिमानमनुविधन्ते, तथा विधेहि [ ध], इत्यभिधाय लज्जया किञ्चिदवनतमुखोऽभवत् । देव्यपि श्रीरीषदवनमितवद्नतामरसाऽस्य वचसो विचिन्वती तात्पर्यमुज्झितापाङ्गनिस्तरङ्गतारकेण चक्षुषा क्षणमात्रमतिष्ठत् । मुहूर्ताच्च किञ्चिदुन्नमित्तवदना शरज्योत्स्नाविशदेन दशनांशुजालकेन स्वमनसः प्रसादमिव दर्शयन्ती मन्दं मन्दं विजहास, व्याजहार, च- - 'नरेन्द्र ! निजगोत्रसंततेरविच्छेदाय मदिरावत्याः पुत्रमिच्छसीति निश्चितं मया, केवलमिदं पृच्छामि - किमेष वक्रया वचनभया युक्तिगम्यः कृतोऽर्थः पुत्रं देहि मदिरावत्या इति व्यक्तमेव किं नोक्तम्, अन्यथोक्ते कुतोऽपि वृत्तान्तमुपलभ्य समुपजातेर्ष्याः कदर्थयिष्यन्ति मामन्या अपि प्रणयिन्य इति कश्विदाशङ्का ? न कश्चिदत्रास्ति दुर्जनः प्रतिपक्षो वा तवास्मत्परिजने, यस्तासां निवेदयिष्यति, एको महोदरः प्रयत्नेन रक्षणीयः तेन त्वीदृशेध्वतिनिपुणदृष्टिना गोपितोऽपि
१५१
· तानि-चरित्राणि येषां तादृशानाम्, पुनः चतुरुदधिवेलावधिवसुन्धराभुजां चतुर्णा - पूर्वपश्चिमोत्तरदक्षिणानाम्, उदधीनां या वेला:-तटाः, ता एवावधयः - सीमानो यस्यास्तादृश्याः, वसुन्धरायाः - पृथिव्याः, भुजां - पालकानाम्, पुनः अखिलदिङ्मुख विसर्पितोदग्रप्रतापतया अखिलेषु - समस्तेषु, दिघुखेषु दिक्कोणेषु, विसर्पितः - प्रसारितः, उदग्रः- उत्कृष्टः, प्रतापो येन तादृशतया, तुलितनिजवंशादिपुरुषादित्ययशसां तुलितः - उपमितः, निजवंशस्य - स्वकुलस्य, आदिपुरुषः- प्रथमपुरुषभूतः, आदित्ययशाः- तन्नामको राजा यैः, यद्वा तुलितं निजवंशादिपुरुषस्य आदित्यस्य - सूर्यस्य यशो यैस्तादृशानाम् । च पुनः, यथा येन प्रकारेण, देवी राज्ञी मदिरावती, जगदेकवीरात्मजप्रसविनीनां जंगति-लोके, एकवीराः - अद्वितीयवीराः, ये आत्मजाः सुताः, तत्प्रसविनीनां - तदुत्पादयित्रीणाम्, अस्मत्पूर्वपुरुष महिषीणाम् अस्माकं पूर्वे - प्राचीनाः, ये पुरुषाः, तेषां महिषीणां - पट्टराशीनाम्, महिमानं माहात्म्यम्, अनुविधत्ते अनुसरति, अनुकरोतीत्यर्थः, तथा तेन प्रकारेण विधेहि कुरु [ध ] | इति इत्थम्, अभिधाय उक्त्वा, लज्जया लज्जावशेन, किञ्चित् ईषत्, अवनतमुखः, नम्रमुखः, अभवत् बभूव । श्रीः लक्ष्मीः, देव्यपि, ईषदवनतवदनतामरसा ईषदवनतं किञ्चिदवनतम् वदनतामरसंमुखकमलं यस्यास्तादृशी सती, अस्य मेघवाहनेनानुपदमुदीरितस्य वचसः वाक्यस्य, तात्पर्यम् अभिप्रायम् विचिन्वती आलोचयन्ती, उज्झितापाङ्गनिस्तरङ्गतारकेण उज्झितः त्यक्तः, योऽपाङ्गः - नेत्रप्रान्त तिर्यक्सञ्चारः, तेन निस्तरङ्गा निश्चला, तारका - कनीनिका यस्य तादृशेन, चक्षुषा नेत्रेण, क्षणमात्रं किञ्चित्कालमात्रम्, अतिष्ठत् समाहितमनाः तस्थौ । च पुनः, मुहूर्तात् क्षणादूर्ध्वं किञ्चिदुन्नमितवदना ईषदुत्थापितमुखी सती, शरज्योत्स्नाविशदेन शरत्कालिक चन्द्रकावद्धवलेन, दशनांशुजालेन दन्तकान्तिकलापेन, स्वमनसः स्वहृदयस्य, प्रसादं प्रसन्नताम्, दर्शयन्तीव प्रकटयवीय, मन्दं मन्दं किश्चित् किञ्चित्, विजहास विहसितवती । च पुनः व्याजहार उक्तवती, किमित्याह- नरेन्द्र ! भो राजन् !, निजगोत्र सन्ततेः सवंशपरम्परायाः, अविच्छेदाय अव्याघाताय मदिरावत्याः पुत्रम् इच्छसि अभिलषसि, इति मया निश्चितं निश्वयः कृतः, केवलं किन्तु एतत् इदम्, पृच्छामि जिज्ञासे, किमित्याह - वक्रया कुटिलया, अविस्पष्टार्थकयेति यावत्, वचनभया वचनच्छटया, एष तत्पुत्राभिलाषरूपः अर्थः, किं किमर्थम्, युक्तिगम्यः व्यञ्जनयाऽवगम्यः, कृतः कल्पितः । मदिरावत्याः तत्संज्ञकधर्मपत्याः पुत्रं देहि भावय, इति व्यक्तमेव विस्पष्टमेव, अभिधायैवेति यावत्, ,किं कस्माद्धेतोः, नोक्तं न प्रतिपादितम् । कच्चित् किमु, अन्यथा विस्पष्टतया, उक्ते वाक्ये कथिते सति, कुतोऽपि कस्माच्चित्, वृत्तान्तं मदिरावत्याः पुत्रप्रार्थनोदन्तम् उपलभ्य श्रुत्वा समुपजातेर्ष्याः समुत्पन्नेर्ष्याः, अन्या अपि तद्व्यतिरिक्ता अपि, प्रणयिन्यः प्रेयस्यः, राज्य इत्यर्थः, मां मेघवाहनम्, कदर्थयिष्यन्ति तदर्थमाग्रहीष्यन्ति इति इयम्, आशङ्का संशयः 'अस्ति' इति शेषः । अत्र अस्मिन् स्थाने, अस्मत्परिजने अस्मत्परिवारमध्ये, दुर्जनः पिशुनः, तव, प्रतिपक्षः विद्वेषी वा, कश्चित् कोऽपि नास्ति न वर्तते यः, तासां तदितरप्रणयिनीनाम्, निवेदयिष्यति प्रकृतवृत्तान्तं विज्ञापयिष्यति, किन्तु, एकः मत्परिजनेष्वेकमात्रम्, महोदरः तन्नामा यक्षः प्रयलेन प्रयासेन रक्षणीयः
و