SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५० टिप्पनक - परागविवृतिसंवलिता चन्दनम्, प्राकृतजनगृहीतदण्डमपि छायार्थिभिरुत्तमाङ्गोपरिस्थं धार्यते छत्रम्, असकृदासादितकलङ्कोऽपि हरिणावस्य यशसो भाजनं करवालः, तिर्यङ्यलोऽपि गोमयो हरितः श्लाघ्यः [द] । किं च वर्ण्यते ? क्षीरजलधिगर्भसंभवाद्वितीया कामधेनुस्त्वम्, सुरद्रुमसहवासिनी जङ्गमा कल्पलता, चक्रवर्तिचक्रकृतार्चना चेतनश्चिन्तामणिः, किं न प्रयच्छसि प्रसन्ना प्रणयिनाम्, किं वा न विदधासि कल्याणमाराध्यमानाऽनुजीवि - नाम् । यद्यपि त्वया कथञ्चिदुपजातकृपया मनोरथानामध्यपथभूताः सकललोकहृदयहारिणः सुप्रसादसदृशाः पृथक्पृथग्दर्शिताः समृद्धिविशेषाः तथाप्येतेषु नास्ति मेऽभिलाषः, अमुनैव पूर्वपुरुषप्रभावोपार्जितेन विभक्लेशेन कृतार्थोऽहम्, न मे प्रयोजनं दिव्यजनोचितैरुपभोगैः । अथ येन केनचित् प्रकारेणानुप्राह्योऽयं जनो प्राहयितव्यच कमप्यभिप्रेतमर्थम्, तदलमन्येनेदमेव प्रार्थिताऽसि — यथाहमेषामशेषभुवनवन्दितावदातचरि तापोपशमनादिगुणश्रिया अभिवाद्यं स्तुत्यं वा, अभूत् । प्राकृतजनगृहीतदण्डमपि प्राकृतजनेन साधारणजनेन, गृहीतः--आत्तः, पक्षे हस्तावलम्बितः, दण्डः --करः, पक्षे आधारभूतयष्टिः- यस्य तादृशमपि, छत्रम् आतपत्रम्, छायार्थिभिः छायाभिलाषिभिः, आतपादात्मानं रक्षितुकामैर्लोकैरित्यर्थः, उत्तमाङ्गो परिस्थं तापनिअरणादिगुणश्रिया मस्तको परिस्थम्, धार्यते गृह्यते, क्रियत इत्यर्थः । असकृदासादितकलकोऽपि असकृत-मुहुर्मुहुः, आसादितः - प्राप्तः, कलङ्कः- अपवादः, पक्षे लोहमलो येन तादृशोऽपि, करबालः खङ्गः, रक्षणादिगुणश्रिया, हरिणाङ्क धवलस्य चन्द्रवदुज्वलस्य, यशसः शौर्यादिख्यातेः, भाजनम् आधारः भवतीति शेषः । एवं तिर्यङालोऽपि तिरः- तिरस्कारम्, अञ्चति - गच्छतीति तिर्यच्, तिरस्कारास्पदमित्यर्थः, भलोऽपि पुरीषस्वरूपोऽपि, पक्षे तिरश्चः - गोरूपपशोः, मलोऽपि - मलखरूपोऽपि गोमयः, भ्रमरिकाविषवारणादिगुणश्रिया लच्यः प्रशंसनीयः, अभूदिति शेषः [द] । किं च वर्ण्यते नाधिकं वर्णयितुं पार्थते । क्षीरजलधिगर्भसम्भवात् क्षीरजलधेः-क्षीरसागरस्य, गर्भात् उदरसकाशात्, यः सम्भवः - उद्भवः, तस्माद्धेतोः, त्वं द्वितीया अपरा, कामधेनुः कामगवी, कामधेनोरपि लक्ष्म्या सहैव क्षीरोदधेरुद्भवस्य प्रसिद्धेः, एवं सुरद्रुमसहवासिनी सुरमेण-कल्पवृक्षेण, सहवासिनी - क्षीरोदधिरूपैकाधिकरणवासिनी, जङ्गमा गमनशीला, कल्पलता कल्पवल्ली, त्वमित्यनुवर्तते पूर्वतः । एवं चक्रवर्तिचक्रकृतार्थना चक्रवर्तिनां खण्डषङ्कावच्छिन्न पृथिवीपतीनाम् चक्रेण समूहेन कृतं विहितम्, अर्चनं--पूजनं यस्यास्तादृशी, स्वं चेतनः चैतन्यशाली, चिन्तामणिः तदाख्यमणिविशेषः, अत्र सर्वत्र असीतिक्रियापदाध्याहारः । प्रसन्ना प्रीता सती, प्रणयिनां प्रीतिमताम् किं न प्रयच्छसि ? ददासि ? सर्वमेवेत्यर्थः, वा अथवा, आराध्यमाना अर्च्यमाना सती, अनुजीविनाम् आराधकानाम्, किं कल्याणं मङ्गलं, न विदधासि ? करोषि ? सर्वविधमेवेत्यर्थः । यद्यपि कथञ्चित् केनापि प्रकारेण, उपजातकृपया उपजाता उत्पन्ना, कृपा - अनुग्रहो यस्यास्तादृश्या, त्वया मनोरथानामपि अभिलाषाणामपि, अपथभूताः अविषयभूताः, सकललोकहृदयहारिणः सर्वजनहृदयाकर्षणशीलाः सुप्रसादसदृशाः स्वकीयसम्यक्प्रसादानुरूपाः, समृद्धिविशेषाः उक्तविशिष्टविशिष्टसमृद्धयः, पृथक् पृथक् असंकीर्णप्रकारेण, दर्शिताः मदीयलिप्साजिज्ञासनमुखेनोपस्थापिताः, तथापि एतेषु उक्तपूर्व समृद्धि विशेषेषु मे मम, अभिलाषः लिप्सा, नास्ति, किन्तु अहं पूर्व पुरुषप्रभावोपार्जितेन खपूर्व पुरुषप्रतापोपनीतेन, विभवलेशेन अल्पविभवेन, कृतार्थः सन्तुष्टः, अस्मीति शेषः, दिव्यजनोचितैः देवजनयोग्यैः, उपभोगः समृद्धिसुखोपभोगैः, मे मम, न प्रयोजनम्, किमपीति शेषः । अथ अनन्तरम्, येन केनचित् प्रकारेण कत्राऽपि रीला, अयं भगवत्याः पुरस्ताद् वक्ता, जनः अहमित्यर्थः, अनुग्राह्यः अनुग्रहीतुं योग्यः, व पुनः, कमपि अनिर्दिष्टनामानम्, अर्थ वस्तु, ग्राहयितव्यः प्रापयितव्यः । तत् किं किं वस्त्विति जिज्ञासायामाह - अनेन वस्त्वन्तरेण, अलं नास्ति प्रयोजनम्, किन्तु इदमेव अनुपदवक्ष्यमाणमेव वस्तु, प्रार्थिताऽसि मया याचि ताऽसि । किमित्याह- अहं मेघवाहनः, इक्ष्वाकुवंश्यानाम् इक्ष्वाकुवंशोत्पन्नानाम्, अवनीभृतां राज्ञाम्, पश्चिमः पश्चाद्भवः, अन्त्यः, अधम इति यावत्, यथा येन प्रकारेण न भवामि भवेयम् कीदृशानां तेषाम् ? अशेषभुवनवन्दितावदातचरितानाम् अशेषभुवनेन - निखिलजगता, बन्दितानि - स्तुतानि, अवदातानि - विशुद्धानि, पवित्राणीति यावत् चरि
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy