________________
तिलकमञ्जरी ।
९५
सह्यतां गतम्; तथाहि—अशक्यप्रतीकारेण प्रतिक्षणमनेन जनितलीब्रहृदयव्यथावेगयोरेकशयनवर्तिनोरपि प्रवासगतयोरिवानवेक्षित परस्परयोरधिकदुःसहैः
श्वासदहनोष्मभिरर्धपथदग्धदीपानुसारिविलासवलभीशलभसङ्घाः
लघवोऽपि शतयामा इव प्रयान्ति नौ विभावर्यः, एवं च यत् समादिष्टं तदुदितम् [ग] । रुदितनिमित्तमध्यमुष्याः कथयामि — अद्य क्षपाचरमयामे क्षणमात्रलब्धक्षीणनिद्रोऽहमासादितावसरेण यामाङ्गरक्षेणेव समुपेत्य सत्वरमपत्यचिन्ताज्वरेण विहितसान्निध्यो बौद्ध इव सर्वतः शून्यदर्शी सन्तानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन्नुषः कालकृत्यावेदनाय प्रविष्टेन बन्दिना मसृणमुपगीयमानमिदमपरव क्रमशृणवम्— "विपवि विरता विभावरी निरपायमुपास्स्व देवताः । उदयति भुवनोदयाय ते कुलमिव मण्डलमुष्णदीधितेः” ॥
बौद्ध इव शून्यदर्शी विचार्यमाणं न किञ्चिद् वस्तु अवयवावयविरूपमस्तीति पश्यति, सन्तानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन् आत्मनः - जीवस्य, ज्ञानलक्षणप्रवाहसाधनोपायान् युक्तिकलापान् अन्वेषयतिभन्यन्न पुत्राभावात् सर्वं शून्यं पश्यति, आत्मनः स्वस्य अपत्यसन्ततेः उपायान्- हेतून्, अन्वेषयति [ घ ] | प्रतीक्ष्य:
तसु अनपत्यतादुःखं तु, दैवात् दुर्भाग्यवशात्, असह्यतां सोढुमशक्यताम्, गतं प्राप्तम् । तदेव दर्शयति तथाहि । अशक्यप्रतीकारेण अशक्यः - स्वकृत्यसाध्यः, प्रतीकारः - निवृत्त्युपायो यस्य तादृशेन, अनेन अनपत्यतादुःखेन, प्रतिक्षणं प्रत्येकक्षणम्, जनिततीव्र हृदयव्यथावेगयोः जनितः, तीत्रः - निरतिशयः, हृदयव्यथायाः - अन्तस्तापस्य, वेगः - प्रादुर्भावो ययोस्तादृशयोः, नौ आवयोः, एकशयनघर्तिनोरपि एकशय्याशयानयोरपि, प्रवासगतयोरिव देशान्तरं गतयोरिव, अनवेक्षितपरस्परयोः अन्योऽन्यदर्शन सौभाग्यशून्ययोः । अधिक दुस्स हैः श्वासदहनोष्मभिः श्वासाभितापैः, अर्धपथदग्धदीपानुसारिविलासवलभीशलभसङ्घाः अर्धपथे - दीपागमनमार्गार्ध एव, दग्धः - भस्मीकृतः, दीपानुसारी-दीपानुधावी, विलासवलभीशलभानां-विलासभवनभित्तिमस्तकस्थवककाष्ठाधिष्ठितपतङ्गानाम्, सङ्घो यासु तादृश्यः, प्रलघवोऽपि अत्यल्पा अपि, विभावर्यः रात्रयः, शतयामा इव शतं यामाः - प्रहरा यासां तादृश्य इव प्रयान्ति व्यतियन्ति, विलम्बेन व्यतियन्तीति भावः । एवं च अनेन प्रकारेण च यत् समादिष्टं यद् वक्तुमाशप्तम्, तद्, उदितम् उक्तम् [ग] 1
www
अमुष्याः मदिरावत्याः खपन्याः, रुदितनिमित्तमपि रोदनकारणमपि कथयामि निवेदयामि । अद्य अस्मिन् दिने, क्षपावरमयामे क्षपायाः - रात्रेः, चरमे - अन्तिमे यामे - प्रहरे, “द्वौ याम-प्रहरौ समौ" इत्यमरः क्षणमात्रलब्धक्षीणनिद्रः क्षणमात्रं - किश्चित्कालमात्रम्, लब्धा-प्राप्ता, क्षीणा शाश्वतिकचिन्ताकृशा निद्रा येन तादृशः, क्षपापदादि-निद्रापदान्तैकसमासपाठकल्पे तु क्षपाचरमयामे ईक्षणमात्रेण-नयनमात्रेण, न त्वन्तःकरणेन, चिन्तात्मकवृत्तियोगेन तस्य तदानीमपि जागृतत्वादिति भावः, लब्धा निद्रा येन तादृशः, स्वप्नावस्थ इत्यर्थः, अहम्, आसादितावसरेण प्राप्तावसरेण, यामाङ्गरक्षेणेव यामे - एकैकप्रहरे, अनं- राज्ञः, शरीरं रक्षति यः स यामाङ्गरक्षः, तेनेवेत्युत्प्रेक्षा, अपत्यचिन्तासंज्वरेण सन्तानचिन्तासन्तापेन, “सन्तापः संज्वरः समौ” इत्यमरः, सत्वरं शीघ्रं समुपेत्य समुपागत्य, विहितसान्निध्यः विहितं - कृतम्, सान्निध्यं सामीप्यं यस्य तादृशः सन् बौद्ध इव बुद्धानुगामीव, सर्वतः परितः, शून्यदर्शी पुत्राभावेन सर्वं शून्य मित्र पश्यतीति तथाभूतः, पक्षे नीलादीनां ज्ञानाकारतयैव सिद्धया बाह्यवस्तूनामसत्त्वेन, शून्यं - बाह्यवस्तुशून्यं तत्तदाकारविज्ञानमयमेव, जगत् पश्यति यः स तथाभूतः, आत्मनः स्वस्य, सन्तानसिद्धयर्थं सन्ततेरुत्पत्त्यर्थम्, पक्षे आत्मनो जीवस्य, विज्ञानधारोपपत्त्यर्थम्, तांस्तान् नानाविधान् उपायान् सहोपलम्भनियमादियुक्तिसमूहम्, पक्षे कारणानि, अन्वेषयन् वितर्कयन्, उषःकालकृत्यावेदनाय प्राभातिककार्यक्रमोद्बोधनाय, प्रविष्टेन स्वशयनागारद्वारमागतेन, बन्दिना स्तुतिपाठकेन, उपगीयमानम् उप- समीपे, सुखरेण पठ्यमानम् इदम् अनुपदवक्ष्यमाणानुपूर्वीकम्, अपरर्वक्रं तत्संज्ञकच्छन्दो विशेषबद्धं पद्यम्, अशृणवं श्रुतवान् । नृप ! भो राजन्!, ते तव विपदिव विपत्तिरिव सुतसौभाग्यशून्यत्वापत्तिरिवेत्यर्थः, विभावरी रात्रिः, विरता व्यतीता, “ विभावरी-तमखिन्यौ रजनी यामिनी तमी" इत्यमरः, तव सन्तानाभावसमय व्यतीत इति यावत्, कुत इत्याह-यतः तव कुलमिव उष्णदीधितेः सूर्यस्य, मंण्डलं भुवनोदयाय जगत्प्रकाशनाय, पक्षे जगद्वर्धनाय,