________________
तृतीयार्थप्रकाशः
साक्षात्कारणत्वं यथा धनेन कुलम्, अन्नेन वसति, विद्यया यश इत्यादी, परम्परया कारणत्वं यथा दण्डेन घट: इत्यादी दण्डस्य चक्रभ्रमिद्वारा कारणत्वात् । ज्ञापकत्वं यथा धूमेन वह्निरित्यादौ । अत्र प्रकृत्यर्थस्याधेयतया तृतीयार्थे ज्ञापकत्वे, तस्य निरूपकतया ज्ञाष्ये वह्न यादावन्वयः तथा च धूमवृत्तिज्ञापकता निरूपको वह्निरित्यन्वयबोध :
चिन्तामणिकारास्तु- ज्ञापकत्वं न हेतु तृतीयार्थ:, तथा सति चक्षुषा रूपमिति प्रयोगप्रसङ्गात्, किंतु धूमेन वह्निरित्यत्र धूमपदं धूमज्ञाने वह्निपदं वह्निज्ञाने ज्ञायमानवी वा लाक्षणिकम् । तृतीयार्थी हेतुत्वम्, तस्य निरूपकतया लक्ष्यैकदेशे ज्ञायमानविशेषणे ज्ञानेऽन्वयः । तथा च धूप - ज्ञानवृत्तिहेतुतानिरूपकज्ञानविषयो वह्निरित्यन्वयबोध: 1 चेष्टाविशेषेण पचतीत्यत्र विशेषशब्दस्य चेष्टाविशेषज्ञाने, त्यादेः ज्ञायमानकृतौ लक्षणा । तथा च चेष्टाविशेषज्ञानवृत्तिहेतुतानिरूप कज्ञानविषयः पाककृतिरित्यन्वयबोध: । विभक्त्यर्थयोः परस्परं नान्वय इत्यप्रामाणिकमेव, प्रामाणिक चेत् स्याद्यर्थयोरेव परस्परं नान्वय इति तदाशयः । एवमन्यत्रापि ज्ञाने लक्षणा, यथा 'प्रत्यक्षोपजीवकत्वेन निरूप्यते' इत्यादी त्वप्रत्ययस्य प्रत्यक्षोपजीवकत्वज्ञाने लक्षणा, लक्ष्यं ज्ञानम् आधेयत्वेन तृतीयार्थहेतुत्वे तच्च निरूपकतया निरूपणेऽन्वेति । प्रत्यक्षोपजीवकत्वसंग तेर्ज्ञानं तज्जिज्ञासाया जिज्ञापयिषाया वा प्रयोजकतया निरूपणजनकम् । एवं वेदेन प्रवर्त्तते आगमेन व्यवहरति इत्यादी वेदपदस्य आगमपदस्य वा तत्तज्ज्ञाने लक्षणा, वेदज्ञानस्य वेदार्थे इष्टसाधनत्वगोचरज्ञान प्रयोजकतया प्रवृत्तिजनकत्वमित्याहुः ( मणिकृत : ) ।
एकदेशिनस्तु - "न जनकत्वं ( कारणत्वं न वा ज्ञाप• कत्वं तृतीयार्थः, तथा सति घटो न रासभेनेतिवत् घटो न दण्डेनेति प्रयोगप्रसङ्गात् - स्वरूपसम्बन्धावच्छिन्न प्रतियोगिताकस्य दण्डहेतुत्वाभावस्य घटेऽपि सत्त्वात् । निरूपकता - सम्बन्धस्य वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वात् इति जन्यत्वं ज्ञाप्यत्वं च तृतीयार्थः" इत्याहुः तच्चिन्त्यं,
६३
वृत्तिनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वे युक्तेः द्वितीयाविवरणप्रसङ्गे दर्शितत्वात् । अन्यथा 'घटो न पारिमाण्डल्येन' इत्यत्रान्वयबोधानुपपतेः । पारिमाण्डत्यजन्यत्वस्याप्रसिद्धतया तदभावबोधासम्भवात् । वृत्तिनियामकस्य सम्बन्धस्य प्रतियोगितावच्छेदकत्वे तु तृतीयार्थे हेतुत्वे आधेयतया, जन्यत्वे निरूपकतया सम्बन्धेन प्रकृत्यarratr नञा बोधनसम्भवादन्वयबोधानुपपत्तिः । 'गगनं न पारिमाण्डल्येन' इत्यादिवाक्यमयोग्यमेव योग्यं चेत्, तदा नया द्वेषाभावो बोध्यते, अतः प्रकृत्यर्थाभाव - विशिष्टजन्यत्वस्याभावो बोध्यते अतः पारिमाण्डल्याभावविशिष्टजन्यत्वस्याभावो मगने प्रतीयते । गगनमन्वो न पश्यतीत्यत्र द्वेधा नञ्ञर्थबोधवत् इति ।
वस्तुतस्तु तृतीयाविधाय के प्रकृतसूत्रे हेतुपदेन हेतुत्वस्य प्रतिपादनात् हेतुत्वं तृतीयार्थ इत्युक्तम् । तत्र हि हेतुपदस्य ज्ञाप्यं ज्ञापकं वा न शक्यम्, येन तत्त्वं प्रतीयेत । सूत्रे लक्षण कल्पने प्रयोजनविरहः, कोशादिप्रमाणाभावेन रूढि - विरहश्च परिपन्थी । 'धूमेन वह्निरित्यादिप्रयोगो न वृत्तौ दुष्टचरः । वृत्तौ तु धनेन कुलम्, विद्यया यशः, कन्यया शोकः, इत्याद्य वोदाहृतम् । तत्र धनस्य दारपरिग्रहादिप्रयोजकतया कुलस्य सन्ततेः हेतुत्वम्, अध्यापनादिप्रयोजकतया विद्याया यशोहेतुत्वम्, विश्लेषप्रयोजकदानप्रयोजकतया कन्यायाः शोकहेतुत्वम् इति बोध्यम् । एवमुदाहरणान्तरेष्वपि तेन तेन रूपेण कारणत्वरूपं हेतुत्वमूह्यम् ।
फलमपीह हेतुतया व्यवह्रियते । फलं च कार्यम् । तथा च तृतीयार्थे हेतुत्वे यथाssधेयतया तथा निरूपकतयाऽपि प्रकृत्यर्थस्यान्वथः, कार्यस्य हेतुतानिरूपकत्वात् । अथवा तृतीयार्थे जन्यत्वे यथा निरूपकतया तथाऽऽधेयतयापि प्रकृत्यर्थस्यान्वय: कार्यस्याधिकरणत्वात् । फलरूपहेतोरुदाहरणम् अध्ययनेन वसतीति । अत्राध्ययननिरूपितहेतुताकोऽध्ययन जन्यता निरूपको वा वासः इति वाक्यार्थबोधः । 'अलं महीपाल तव श्रमेण, इत्यत्र फलोद्देश्य कृति - विषयः फलाजनकोऽलंपदार्थः । निष्फलस्य कृतिविषयस्थ