________________
५४
न विव्यथे तस्य मनो, न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥"
इति ( " किरातार्जुनीय - प्रथमसर्गे ) भारविप्रयोगे प्रधानकर्मण्येव क्तप्रत्ययो विहितः । 'गर्गाः शतं दण्ड्यन्ते' इति दण्ड्यते वा शतमित्यपि । क्षोरनिधि: कौस्तुभं मध्यते, कौस्तुभो मथित इति वा 'देवासुरैरमृतमम्बुनिधिर्ममन्थ' इति च कविप्रयोगेऽप्रधानकर्मण्येव प्रत्ययः । तण्डुलः ओदनं पच्यते, पक्वो वा, प्रधानकर्म मात्रविवक्षायां 'पच्यते ओदन इत्यपि । वणिक् हिरण्यं मुष्यते मुषितो वा, मुष्यते हिरण्यमित्यपि । भारो ग्राममुह्यते, ऊढो वा अत्र मुख्य एव कर्मणि प्रत्ययः । परधनं स्वगृहं हियते, हृतं वा परधनम् । प्रधानकर्मणस्त्वविवक्षा न सम्भवतीति न तथा प्रयोगः । शाखा भूमि कृप्यते कृष्टा वा । कटो वीरणं क्रियते, कृतो वा । कृतः कट इत्यपि । एतच्च
“प्रधानकर्मण्याख्येये लादीनाहुद्विकर्मणाम् । अप्रधाने दुहादीनाम्”
इति कारिया संगृहीतम् । द्विकर्मकाश्च परिगणिता महाभाष्ये --
स्वाद्यर्थ प्रका
" नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः " इति कारिकया । तद्भिन्नाश्च दुह्यादयोऽपि विवक्षाव शाद्विकर्मका भवन्तीति तथैव समुदाहृताः ॥
( अथ सन्प्रत्ययान्तधातुसमभिव्याहारे कर्मत्वविचारः )
"सन्प्रत्ययान्तस्य धातुत्वेन सन्नर्थेच्छाविषयस्य कर्मत्वं भवति । यथा पार्क चिकीर्षतीत्यत्र पाकस्य, ओदनं बुभुक्षते इत्यत्रोदनस्य च कृतिभोजनयोर्धात्वर्थयोः सन्नच्छायां विशेष्यतासमानकर्तृ कत्वाभ्यां सम्बन्धाभ्यामन्वयः 1 तेन
अन्यसम्बन्धिकृतिभोजनविषय केच्छासत्त्वे न चिकीर्षति बुभुक्षते इति वा प्रयोगः समानकर्तृ कत्वस्याभावात् ।" इति केचित् तन, विषयतामात्रेण कर्मत्वस्वीकारे पाकत्वं चिकर्षतीति प्रयोगापत्तेः । उद्देश्यतथा तथात्वे तु ओदनं वुभुक्षते इत्यादी ओदनस्येच्छानुद्देश्यत्वात् कर्मस्वानुपपत्तिरित्यादिकं चिन्तनीयम् ।
चिन्तामणिकारास्तु चिकीर्षा - कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषया इच्छा, पाकं चिकीर्षामीत्यतः पार्क कृत्या साधयितुमिच्छामीत्यनुभवात् । कृतिसाध्यत्वप्रकारक - फलेच्छावारणाय क्रियाविषयकत्वं विशेषणम् । कृतिसाध्यत्वभ्रमजन्यायाः कृत्यसाव्यक्रियाविषयिण्या इच्छायाः वारणाय कृतिसाध्यत्वं वस्तुसद् विशेषणम् । अनुभवस्तु कृतिसाध्यत्वेन पाकमिच्छामीत्याकारक एव । पाकं चिकीमीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते, न तु कृतेः । प्राधान्यमुद्दे श्यत्वम् । धातोश्च सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वं तेन कृञः कृतिसाध्यत्वं तत्प्रकारकत्वं वाऽर्थः । तच्च प्रकारितया स्वरूपेण वा सम्बन्धेनेच्छायां सन्प्रत्ययार्थेऽन्वेति । ओदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयौदनस्यानुभवात् भोजनस्य कर्मतासंसर्गेण ओदनेऽन्वयः, तस्य च विषयतया सन्नर्थेच्छायामन्वयः । अत्र कृतिसाध्यत्वस्य स्वनिरूपककृतिसामानाधिकरण्येन, ओदनस्य स्वकमंकभोजनजनककृतिसामानाधिकरण्येनापि सन्तच्छायामन्वयः, तेनान्यदीयकृतिसाध्यत्वभोजनीयकर्म स्वविषय केच्छायां सत्यां न तथा प्रयोगः इति वदन्ति ।
उपाध्यायास्तु पार्कं चिकीर्षतीत्यादौ सन इच्छामात्रमर्थः, तत्र धात्वर्थस्य कृत्यादेरुद्देश्यत्वसमानकर्तृत्वाभ्यां सम्बन्धाभ्यामन्वयः । धात्वर्थकृत्यादौ तत्फले साध्यत्वविषयत्वे वा पाककर्मत्वस्य विषयित्वस्याधेयत्वस्य वा अन्वयः । समानकर्तृ कत्वनिवेशादन्यदीयकृतीच्छायां चिकीर्षतीति न प्रयोगः । उद्देश्यत्वनिवेशात कृतिज्ञानेच्छायां न तथा प्रयोग " इति वदन्ति । युक्तं चैतत् तथा हि सन्नच्छायां पाकादिविषयत्वस्य नान्वयः, घात्वर्थस्यैवोद्द श्यितया