________________
द्वितीयार्थप्रकाशः
माशय:- रूढिः प्रयोजनञ्च लक्षणायां हेतुरित्यविवादम् । तत्र ताभ्यां विनैव यदि अशक्तिमात्रेण लाक्षणिकः प्रयोगो विर्धयते तदैव नेयार्थता नाम दोषः । प्रकृते च नास्ति रूढिः, नवा तथाप्रतिपादने किमपि प्रयोजनमिति चपेटापातनपदे लक्षणा तोचितेति; कृता चेनेयार्थतां नातिक्रामति । प्रकृतमनुसरामः स्वं हिनस्तीत्यादी अज्ञत्वाव्यतिशयप्रतीत्यर्थं तथा लक्षणया द्वितीयायाः प्रतियोगित्वार्थकत्वेऽपि गमनाद्यर्थ लक्षकत्वे तथाप्रयोजनविरहात् - पूर्वेषां प्रयोगविरहादेव वा न लक्षणेति न कश्चिद्दोषः ।
( द्वितीयाया विषयत्वादौ शक्तिरपि ) अ यदि स्वारसिकलक्षणया स्वं जानातीत्यादी द्वितीयाया विषयत्वार्थत्वे, स्वं हिमस्तीत्यादी तस्याः प्रतियोगित्वार्थकत्वेन सम्प्रतिपत्तिः तदा कारकान्तरत्वेनाविवक्षितस्य कर्मसंज्ञा यथाऽन्यैः 'अकथितं चे' त्यादिसूत्रेण स्वीक्रियते तथा प्रतियोगिनो विषयस्यापि च कर्मत्वेन विवक्षणादेव तत्र कर्मसंज्ञा तदधीना द्वितीयोत्पत्तिश्चास्तु, तथा च द्वितीयाया विषयतादी शक्तिरेव स्वीकरणीयेति न किञ्चिदनुपपन्नम् ! नन्वेवं करोतिपर्यायत्वाद् यतेरपि समभिव्याहारे विषयस्य कर्मसंज्ञायाः प्रसक्तौ घटं यतते इति प्रयोगः स्यादिति चेन्न; करोतेरुत्पत्त्यनुकूलयत्नवाचित्वेन, यतेश्च प्राधान्येन यत्नमात्रवाचकत्वात् धात्वर्थं फलाभावेना
कर्मकत्वान्न तस्य विषये कर्मसंज्ञेत्यदोषात् । वस्तुतस्तु द्वितीयार्थस्य विषयत्वस्य फलान्वयित्वे बुद्ध: फलत्वासंभवेन जानात्यादियोगे ( स्वं जानातीत्यादी ) द्वितीयानुपपत्तिः । व्यापारान्त्रयित्वे च घटं यतते इत्यस्यापि साधुत्वं स्यादिति भेदाशमपहाय आधेयत्वमात्रे द्वितीयाशक्तिरुपेया । तथाचोक्तप्रयोगे द्वितीयोपपत्तिरपि भवति ॥
४३
गमे मनोमयः प्राणशरीर इति वाक्यात् मनोमयस्याब्रह्मत्वशङ्कानिरासाय भगवता वादरायणेन "कर्तृ कर्मव्यपदेशाच्च (3 ब्र० सू० अ० १ पा० २ सू० ४ ) इति सूत्रितम् । तत्र "एतमितः प्रेत्य । भिसम्भवितास्मि" इति श्रतिवावये एतच्छब्देन मनोमयस्याभिधानात् तस्य जीवत्वे प्राप्तिकर्मत्वं द्वितीयया प्रतिपादितं जीवस्य कर्तृत्वं चाख्यातेनोक्तम्इत्येकस्य कर्तृकर्मव्यपदेशो विरुद्धः इति तस्य सूत्रस्यार्थः । एवं ज्ञातृज्ञेययोविरोधोपपत्तये तेनैव महर्षिणा "भेदव्यपदेशाच्च' इति सूत्रितम् । तत्र " तमेवैकं विजानथ आत्मानम्” इत्यत्र तच्छब्देन द्यम्वाद्यायतनस्याभिधानात् तस्य ज्ञेयत्वं द्वितीयया प्रतिपादितम् जीवस्य कर्तृत्वं चारव्यातेनोक्तमिति ज्ञातृज्ञेयभावेन भेदेन व्यपदेशात्मुमुक्षोः प्राणभृतः सकाशात् ज्ञेयस्य द्यम्वाद्यायतनस्य भेद इति तत्सूत्रार्थ : शारीरकभाष्यरीत्या प्रतीयते । तत्र कर्तृत्वकर्मस्वयोर्ज्ञातृत्वज्ञेयत्वयोरेकर्धामवृत्तित्वे पूर्वोक्तरीत्या समुपपने विरोधाभावात्कथं भेदकत्वमुक्तमिति चेत्, सत्यम् ; ज्ञातृज्ञेयभावस्य परस्परं विरोषे न तद्भाष्यस्वारस्यम् अपि तु विरुद्धधर्मविशिष्टयोर्ज्ञेयत्वज्ञातृत्वयोरिति तद्भाष्य एवाग्रे स्पष्टं प्रतिपादनात् । एवञ्च द्य म्वाद्यायतनत्वेन ज्ञेयत्वं ब्रह्मण्येव मुमुक्षुतया ज्ञातृत्वं जीवेष्वेवेति स्पष्टो विरोधः । एवं च केवलयोः कर्मस्वकर्तृत्वयोज्ञेयत्वज्ञातृत्वयोर्वा न परस्परं विरोधे तद्भाष्यस्वारस्यमिति ।
( द्वितीयाया श्रधेयत्वार्थकत्वेऽनुपपत्तिपरिहारः )
ननु पूर्वोक्तरीत्या द्वितीयाया आधेयत्वार्थकत्वे व्यापारे तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापत्तिः । तथा हि गृहे पचतीत्यादिवत् - गृहं पचतीत्यपि प्रयोगः स्यात् इति चेत्, मैवम् धात्वर्थतावच्छेदकफलांगे आगेयत्वान्वयविवक्षायामेव तादृश - ( आधेयत्वार्थक ) - द्वितीयायाः साकांक्षत्वकल्पनात्- व्यापारे तदुपस्थापिताधेयत्वान्वयासम्भवात्तादृशप्रयोगापत्तिविरहात् । सप्तम्यधीनाधेयसप्तमीसमभिव्याहारज्ञानघटिताया एव
( शारीरकभाष्य विरोधपरिहारः )
नन्वेवमेकस्यैव कर्मकर्तृभावस्य ज्ञातृज्ञेयभावस्य चोप- त्वोपस्थिति