________________
स्वाद्यर्थ प्रकाशे
३४
वति । नन्वेवं गम्यर्थस्य स्पन्दस्य आश्रयत्वेन कतु त्वमित्र, तादृशस्य संयोगस्याश्रयत्वेन कर्मत्वमपि चैत्रस्य स्यात्, तथा च चैत्रो गमिकर्मेति व्यवहारः, चैत्रश्चत्रं गच्छति, स्वः स्वं गच्छति इति द्वितीयापत्तिश्च स्यात् इति चेन्न, कतृ संज्ञया कर्मसंज्ञाया बाधात् कर्मव्यवहाराप्रसक्तेः कर्मसंज्ञाया एव द्वितीयाप्रयोजकत्वात् कर्मसंज्ञाया विरहे द्वितीयाया अप्रसक्तेश्च । न च कर्तृ संज्ञया कर्मसंज्ञायाः परीभूतायाः कथं बाध इति वाच्यम् प्राधान्यात्, प्रधानकार्यं सर्वतो बलवदिति न्यायात् । प्राधान्यं चास्य प्रधानीभूनधात्त्रार्थाश्रयत्वात्, कारकचक्रप्रयोक्तृत्वाच्चातिरोहितम् । अतो हि कर्मगतस्य फलस्य प्रधानीभूतधात्वर्थत्वेन विवक्षायां तदाश्रयत्वेन कर्मणः कतु त्वमेव यथा पच्यते तण्डुलः स्वयमेवेति । एवमपादानत्वस्य विभागादेः धातुना प्रधान्येन बोधनेऽपादा नस्य कर्तृत्वमेव, गिरिरसरतीत्यादि यथा । एवं सम्प्रदानकरणाधिकरणानामपि कर्तृत्वमाकलनीयम् - अतो विवक्षातः कारकाणि भवन्तीति पदवाक्य प्रमाणज्ञानां प्रवाद इति विशिष्य तत्तत्प्रकरणसूत्रेषु विस्तरेण स्पष्टीकरिष्यते ॥ वैयाकरणमतम् ।
इति
( अथ न्यायमतेन द्वितीयार्थविचारः )
तार्किकास्तु आश्रयो न द्वितीयावाच्यः, आश्रयतात्वविशिष्टाश्रयत्वस्य द्वितीयावाच्यतावच्छेदकत्वे -- वाच्यताव्यावर्त्तकधर्मत्वे - गौरवात् तेन धर्मेण वाच्यत्वासम्भवात् । अयमाश्रयोऽयमाश्रय इत्यनुभवसाक्षिकं शाब्दिकाभिमतमाश्रयत्वं जातिरखण्डोपाधिर्वा गगनाभावादिवदिति न मन्तव्यम् इति स्वार्थान्धतार्किक वाचाटानामभिमानः इति चेन्न जात्यखण्डोपाध्योः स्वरूपतो भानस्वीकारेऽपि बाधकविरहेऽखण्डोपाधेः स्वरूपतो भानमभ्युपेयम्; अन्यथा पृथिव्यादिचतुष्टयान्यतमत्वस्वरूपस्याखण्डोपार्थः द्रव्यारम्भकतायां व्यावर्तकत्वसंभवे गुरुणः स्पर्शवत्त्वस्य अनवच्छेदकत्वम् ( अव्यावर्तकत्वमनियन्तृत्वमिति यावत् ) स्यात् । स्वीक्रियते
च सकलतान्त्रिक स्तत्त्वम् । यद्यन्यतमत्वस्य पृथिव्यादिभिन्नप्रतियोगिघटितस्य भेदस्य नाखण्डत्वं तदा गगनादिप्रतियोगिघटितस्य गगनाभावादेः, तथाभूतस्याश्रयत्वादेरपि नाखण्डोपाधिता, तुल्यत्वात् । किञ्चिद्धर्मानवलीढविषयतया ( यत्किञ्चिद्धर्माव्यावृत्तधर्मानियन्त्रित – विषयतया ) गगना भावादेरप्रत्ययात् । गगनाभाव इति प्रतीतौ गगनप्रतियो गिकस्य द्रव्यादिषट्कान्यो याभावस्य विषयत्वात् । न चातिरिक्तमेवाश्रयत्वम् - द्वितीयाप्रवृत्तिनिमित्तमिति वाच्यम्, शब्दप्रवृत्तिनिमित्तानुरोधेन अतिरिक्त वस्तुकल्पनाया अन्याय्यत्वात् । अन्यथा समासप्रवृत्तिवादिना खपुष्प -- शशशृङ्गादिशब्दप्रवृत्तिनिमित्ततयाऽतिरिक्त वस्तु कल्पनाप्रसङ्गः । अथ पुष्पादिकमतिरिक्तं प्रसिद्धमेवेतिचेत्; तहि अतिरिक्तद्वितीयाशक्यत्वकल्पनाखपुष्पादिसदृशस्यातिरिक्तवस्तुनः पेक्षया खपुष्पं पश्येत्यादौ कर्मत्वेन क्लृप्तस्य खपुष्पस्य लाघवात् द्वितीयार्थत्वं स्यात् । अथाधिकरणताधेयत्वयोरातिरेक्यं न्यायचिन्तामणिधिदीतिकारैर्युक्त्या सिद्धान्तितमिति खपुष्पे न कापि तादृशी युक्तिरिति चेत्, तत्रापि तयोरातिरंक्यं दीधितिकारैरङ्गीकृतम्, अन्यथा 'अधिकरणता' इत्याकारकप्रतीत्यनुपपत्तेः प्रकारत्वानिरूपितविशेष्यतायाः, प्रकारं विना प्रकारतायाश्चासिद्ध ेः, दर्शितप्रतीतावधिकरणत्वं विनाऽन्यस्य प्रकारत्वायोगात् अगत्या अधिकरणतत्वविशिष्टस्य द्वितीयाप्रवृत्तिनिमित्तत्वमिति चेत्, लाघवादधिकरपतात्वस्यैव द्वितीयाप्रवृत्तिनिमित्तत्वाद्गतिसम्भवात् । नचाधिकरणतानां तत्तत्सम्बन्धावलीढानां द्वितीयार्थत्वे शक्त्यानन्त्यम् - अधिकरतासामान्यस्य तथात्वे कालं पचतीति प्रयोगप्रसङ्ग इति प्रागेव प्रत्यपादीति वाच्यम्, अधिकरणतासामान्यस्यैव द्वितीयाnanarत् । अधिकरणतायाः स्वनिरूपिततत्तत्सम्बन्धावलीढाधेयत्व संसर्गेण फलेऽन्वयोपगमात् कालिकविशेषणता सम्बन्धावलीढाधे यत्वस्य विक्लित्तिसम्बन्धत्वानभ्युपगमात् । न च तण्ड ुलं पचतीत्यत्र तण्ड - लाधिकरणतायाः स्वनिरूपितत्वेन तण्डुलसामानाधिकरण्यव्यावृत्ताधेयत्वेन सम्बन्धेन फले विक्लित्तावन्वयेन सम्बन्धस्य