________________
प्रत्ययत्वनिहतः
१३
चैत्रादिपदानां न त्याद्यर्थान्वयायोग्यत्वमिति दर्शितस्थलेषु सम्बन्धीत प्रथमासमभिव्याहारस्य सहकारिणो विरहाना -- न्वयबोध इति वाच्यम्, एवं सति हि कृत्तद्वितस्थलेऽपि प्रकृतिसमभिव्याहारस्य सहकारित्वान्न त्याद्यर्थान्वयायोग्यत्वमिति तत्राव्याप्तिः । न च कृत्तद्वितस्थले प्रकृतिसमभिव्याहारो न त्याद्यर्थान्वये तन्त्रम्, किन्तु प्रकृत्यर्थान्वय एवेति वाच्यम्, प्रत्यये प्रकृतिसमभिव्याहारस्य प्रत्ययार्थान्वयमा तन्त्रत्वात् प्रकृतिविनाकृतस्य कुत्राप्यननुभावकत्वात् । एवं च पाकोऽस्तीत्यादी घञ्ञ प्रत्ययेऽव्याप्तिरच, पदान्तरार्धानन्दिले धातुषा भयोपस्थापिते पाके त्याद्यर्थात्वयस्य सर्वमतसिद्धतया घास्त्याद्यर्थान्वययोग्यत्वात् इति यदपि, "शब्दान्तराविशेषितस्य स्वार्थस्य विशेषणतयान्वयबोधनायोग्यः शब्दः प्रत्यय " इति तदपि तादृशयोलिङ्गसंख्य योविशेषणतयान्वययोग्ये स्यादी, पाकमित्यादौ तादृशस्य पाकस्य कर्मत्वे विशेषणतयाऽन्वययोग्य घञ्ञ प्रत्यये चान्यात्या नादरणीयमिति । तस्मात् प्रत्ययत्वं दुर्वचमिति चेत्, उच्यते-- सार्थक शब्दोत्तरत्वज्ञानाविषयो यः शब्दः शाब्दबोधं नार्जयति स प्रत्ययः । प्रकृतीनां नामधातूनां सार्थकशब्दोत्तरत्वज्ञानाविषयाणामपि शाब्दबोधार्जकत्वं प्रत्ययानान्तु सार्थक शब्दोत्तरत्वज्ञानविषयाणामेव तथात्वमिति । तथा च स्वार्थविषयशाब्दसामान्ययाभावप्रयोजकाभावप्रतियोगि- सार्थक शब्दोत्तरत्वज्ञानीयोत्तरत्वप्रकारतानिरूपित विशेव्यतावत्सार्थक शब्दत्वं प्रत्ययत्वमिति । राज्ञः पुरुष इत्यादी पुरुषपदे राजपदोत्तरत्वप्रकारकज्ञानविषयतायाः सत्त्वात् अतिव्याप्तिरिति प्रतियोग्यन्तं ज्ञानविशेषणम् । पुरुषपदे षष्ठ्यन्त राजपदोत्तरख - ज्ञानस्य निरुक्त प्रतियोगित्वविरहात्पुरुषोराज्ञ इत्यतोऽपि शाब्दबोधोदयात्- नातिव्याप्तिरिति । असम्भववारणाय स्वार्थविषयकत्वं शाब्दविशेषणम् । राज-. पुरुष इत्यादिसमासे पुरुषपदे राज्ञपदोत्तरत्वज्ञानं राजपदार्थविशेषणता पुरुपपदार्थविशेष्यता कशान्दोवस् जनकमतः पुरुषराज इत्यतो न तथाशाब्दबोधः । पुरुषो राजेत्यादौ . राजपदार्थान्वितविभक्त्यर्थतादात्म्यस्य पुरुषपदार्थे विशेषण
-
पदार्थान्वितस्वार्थकत्वम्, 'राजपुरुष' इत्यादिसमासेऽतिव्याप्तेः । इत एव पूर्वपदार्थान्वितप्रधानीभूतस्वार्थकत्वमित्यपि परास्तम् । यत्तु "शब्दान्तरार्थाविशेषिते यादृशे स्वार्थे धर्मिणि त्याद्यर्थस्यान्वयबोधने स्वरूपायोग्यो यः स निभ— तुल्य – सदृशप्रतियोग्यनुयोग्यधिकरणाधेयादिशब्देभ्यो निपोतेभ्यश्च भिन्नः शब्दः तादृशार्थे प्रत्ययः इति । कृतद्धि - तादीनां स्वार्थेत्याद्यर्थान्वयस्वरूपयोग्यत्वात्तेष्वतिव्याप्तिरिति तद्वारणाय शब्दान्तरार्थाविशेषितत्वं स्वार्थे विशेषणम् । 'तस्या अङ्कक' मित्यादौ कादिप्रत्ययस्य कमस्तीत्यादौ शिरः प्रभृति-स्वार्थी त्याद्यर्थान्वयस्वरूपयोग्यत्वात् तत्रातिव्याप्तिरिति यादृशत्वविशेषणम् । तेन कादिप्रत्ययस्यात्पादिस्वरूपस्वार्थी त्याद्यर्थान्वयस्वरूपयं । ग्यत्वान्नातिव्याप्तिरिति । अस्तीन्द्राणीत्यादाविन्द्रशब्दार्थाविशेषिते वर्थे स्त्रियां त्याद्यर्थावयस्वरूपायोग्ये आनुशब्देऽतिव्याप्तिरिति स्वार्थ इत्युक्तम् । प्रत्ययमात्रस्य स्वार्थे प्रकृत्यर्थान्वयस्वरूपयोग्यत्वादसम्भवः स्यादिति त्याद्यर्थस्येत्यवोचि । चन्द्रनिभोस्तीत्यादौ निभादिशब्दानां पूर्वपदार्थ चन्द्राद्यविशेषिते स्वायें सदृशादी
त्याद्यर्थान्वयस्वरूपायोग्यत्वात्तत्रातिव्याप्तिरिति निभादिभिन्नत्वं शब्दस्य विशेषणम् । समुच्चय-विकल्पाद्यर्थकानां च वादिनिपातानां स्वार्थे त्याद्यर्थान्वयस्वरूपयोग्यत्वात्तत्रातिव्याप्तिरिति निपातभिन्नत्वं विशेषणम् । कादिप्रत्ययस्य शिरः प्रभृत्यर्थे प्रत्ययत्ववारणाय तादृशार्थं इत्युक्तमिति मतं ", तदपि न सम्यक् निभादिसकलशब्दस्य प्रतियोगिनोऽवगमस्याशक्यतया तावद्भिन्नत्वस्य दुर्ज्ञेयत्वात् । किं च सम्बन्धीत्यादाविन्प्रत्ययार्थस्य सम्बन्धिनः शब्दान्तरसम्बन्धेन विशेषितत्वात्तदविशेषितस्वार्थाप्रसिद्ध या तत्राव्याप्तिः । यदि चाविशेषितत्वमतन्वितत्वमुच्यते तदापि खले कपोतन्यायेन शाब्दमते दाक्षिरस्ति पाचकोऽस्तीत्यादी प्रकृत्यर्थेन समं त्याद्यर्थस्य सद्धितकृत्प्रत्ययार्थे युगपदन्वयेन तयोरव्याप्तिः । किं च सम्बोधनान्तस्य निविभक्तिकस्य च चैत्रादिनाम्नः स्वार्थी त्याद्यर्थान्वियायोग्यत्वात् तादृशतादृशचैत्रादिपदेऽतिव्याप्तिः । न च चैत्रोऽस्तीत्यादावन्वयदर्शनेन