________________
स्वाद्यर्थप्रकाशे
१७०
तत्र स्वत्वान्वय्याधेयत्वं तयोरर्थः । गवां गोषु वाऽधिपति - रित्यादी अधिपतिशब्दः स्वामिपर्यायस्तत्र स्वामिशब्दयोगवत्सर्वं बोध्यम् । गवां गोषु वा दायाद इत्यादी दायादशब्दस्य घनग्राहकोऽर्थः, तत्र धनान्वयि तादात्म्यं विभक्त्योरर्थः । गवां गोषु वा साक्षीत्यादो वृत्तनिश्चयप्रमावान् साक्षिशब्दार्थः तत्र वृत्तान्वयी सम्बन्धस्तयोरर्थः । गवां गोषु या प्रतिभूरित्यादौ अन्यकतृ कावधिकालिकधनदानाभावप्रयोज्यधनदानकर्ता प्रतिभूशब्दार्थः तत्र द्वितीयधनान्वयि तादात्म्यं तयोरर्थः । वादिनो वादिनि वा प्रतिभूरित्यादौ अधिकालिकदर्शनकर्ता प्रतिभूशब्दार्थः, तत्र दर्शनान्वयि विषयत्वं तयोरर्थः । गवां गोषु वा प्रसूत इत्यादी प्रसवकर्म प्रसूतशब्दार्थः तत्र प्रसवात्वयि विज्ञानानुगुणत्वं तयोः ( षष्ठी सप्तम्योः ) अर्थ:, अत एव गा एवानुभवितुं जात इत्यर्थं इति शाब्दिकाः । वस्तुतस्तु प्रसवान्वयि धर्मोपाकत्वं तयोरर्थः तथा च गोमर्मोपार्जक प्रसवकर्मत्यन्वयबोधः । गोधर्मी जाड्यादिः । अत एव " तदन्वये शुद्धिमति, प्रसूतः शुद्धिमत्तर:" इति दिलीपवर्णनं रघुवंशे प्रथमसगँ । तदन्वयधर्मः शुद्धिमत्वं तत्र प्रसूते दिलीपे युक्तमिति तदाशमात्इत्याद्याहुः ||२||१८||
व्याप्येक्तेनः || २२६६॥
क्तप्रत्ययान्तात् य इन् तदन्तस्य व्याप्यो सप्तमी विधोते प्रकृतसूत्रेण । क्तान्ताच्च इन् प्रत्ययः इष्टावे: ( ७|१|१६८ ) इति सूत्रेण कर्तरि विधीयते । अधीती व्याकरणे इति प्रयोगः । तत्र अधीतम् अनेन इति सामान्यविवक्षायां कर्तरि इन्प्रत्ययं विधाय ततः कर्मविशेषविवक्षायां व्याकरणपदार्थ योगे ततः कृतपूर्वी कटमित्या दाविव व्याकरणशब्दाद् द्वितीयायां प्राप्तायां सप्तम्यनेन विधीयते । क्तान्तद्विहितस्येनोऽर्थेन कर्त्रा स्वक्रियाऽध्ययनेन व्याप्यं हि व्याकरणमेवेत्यस्य कर्मत्वे सति ततो द्वितीयाया दुर्वारस्वात् । न चाधिकरणत्वविवक्षया सिद्धैव सप्तमीति
भणितव्यम् प्रकृत- सूत्रारम्भसामर्थ्यात् क्तेनो विषगे कर्मणि विवक्षान्तराभावस्यापि प्रत्यायनात् । विषयत्वं कर्मत्वमेव वा सप्तम्यर्थः- तच्च क्तान्तेन् - प्रत्ययान्तकदेशे धात्वर्थेवेति । व्याकरणकर्मकभूतकालिकाध्ययनकर्तेति वाक्यार्थबोधः । एवमन्यत्रापि वाक्यार्थो बोध्यः ||२||१९||
तद्युक्ते हेतौ || २|२|१००॥
तदिति पूर्वसूत्रोक्तं व्याप्यं परिगृह्यते, तथा च व्याप्ययुक्तहेतो वर्तमानानाम्नः सप्तमी विधीयते । तथा च सप्तम्या हेतुत्वमेवार्थः । हेत्वर्थे च तृतीया विहितेति तदपवादोऽयं योगः । वृत्तौ हेतुर्निमित्तं कारणमिति - कथनं हेतुपदस्थ - कतु प्रयोजकहेतुपरस्वव्युदासार्थम् । अनेकदेशस्थ - विनेयप्रतिबोधनार्थं वा शब्दप्रयोपादानं यत्र देशे येन शब्देन प्रसिद्धिस्तत्परिग्रहार्थमिति शब्दमहाणंवन्यासे । किं च हेतुशब्दोऽत्र विशिष्टनिमित्तवाची, यदर्थं तस्यां क्रियायां कर्ता प्रवर्तते तस्य प्रयोजनस्य परिग्रहार्थं इति यावत् तेन क्रियासाधकतमस्य करणादिनिमित्तस्य योगे न सप्तमी भवति, यथा दात्रेण लनवान् इत्यादी । न चात्र कारकविभक्त्या तृतीययोपपदविभक्तेः सप्तम्या बाध इति वाच्यम् व्याप्यसम्बन्धाद्धि विधीयमाना सप्तमी परम्परया क्रियासम्बद्धस्वात् कारकविभक्तिरेव सेव हि उपपदविभक्तियंत्र कारकसम्बन्धलेशोऽपि न स्यात् यथा शक्तार्थादियोगे चतुर्थी विधीयमाना न क्रियासम्बन्धभागिनीत्युपपदविभक्तिरेब तथा च क्रियारम्भप्रयोजकं प्रयोजनमेवेह निमित्तार्थ कहेतुशब्देनोच्यते इति विज्ञेयम् । चर्मणि द्वीपिनं हन्तीत्यादी कर्मभूतद्वीपिना सह चर्मणोऽवयवावयविभावः सम्बन्धः, एवमेव - दन्तयोर्हन्तिकुञ्जरमित्यादावपि विज्ञेयः । तथा च चर्मादिशब्देभ्यः सप्तमी भवति । तस्याश्च हेतुत्वमेवार्थ:, चर्म प्रयोजनकं द्वीपिकर्मकं हननम्, तत्कर्तेति बोधः । द्वीपी व्याधः । व्याघ्रचर्मण आसनादिप्रयोजनसत्वातदर्थं द्वीपिनं हन्तीति भावः । दन्तयोः कुञ्जरं हन्ति, अत्रापि दन्ति