________________
सप्तम्यर्थप्रकाशः
त्वमेव व्यपदिश्यते । क्वचिद्धटकता सम्बन्धोऽपि वृत्ति - नियामक:, यथा न्यायेऽवयवाः प्रतिज्ञादिकं वेत्यादी घटकतासम्बन्धावच्छिन्नाधेयत्वं सप्तम्यर्थोऽवयवादावन्वेति । घटकत्वं तु विषयितान्यापविषयिताकत्वं प्रागेवोक्तम् । घटकत्वार्थिका सप्तमीति तान्त्रिकवाक्ये घटकत्वशब्देन घटकतासम्बन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते । एवमन्यत्रापि सप्तम्यर्थतया यद्यत् तान्त्रिका व्यपदिशन्ति तत्तत्सम्बन्धावच्छिन्नाधेयत्वमेव सप्तम्यर्थं इति बोध्यम् । तथा चाधेयत्वमेव सप्तम्यर्थः इति तार्किक मत निष्कर्ष: । स्वमते चानुशासनानुसरणस्यैव युक्तत्वेनाधिकरणमेव सप्तम्यर्थः, अधिकरणत्वं च तदवच्छेदकम् । तच्चाश्रयत्वरूपमखण्डोपाधिरिति तत्र तत्सम्बन्धावच्छिन्नत्वादेरप्रवेशान्नाननुगमो
गौरवं वेति विवेचितं विस्तरेणान्यत्र ॥२२॥९५॥
नवा सुजः काले || २२६६॥
सुचोऽयं एवार्थी येषां प्रत्ययानां तदन्तैर्युक्तात्कालवाचिनोऽधिकरणेऽथ सप्तमी विकल्पेन विधीयतेऽनेन सूत्रेण । पक्षे च सम्बन्धसामान्यविवक्षायां षष्ठी । सप्तम्या अधिकरणमेवार्थः । षष्ठ्याश्च सम्बन्धसामान्यमेव परमतमंत्र विषये शेषे ( २२८१ ) इति सूत्रव्याख्यायामेव प्रद शितम् ॥२२॥९६॥
कुशलाऽऽयुक्तेनाऽऽसेवायम् ॥ २६७॥
आसेवा तत्परता तस्यां द्योत्यायां कुशलायुक्तशब्दयोयोगेऽधिकरणे सप्तमी विधीयते प्रकृतसूत्रेण । " कुशलो विद्याग्रहणे' आयुक्तस्तपश्चरणे" इत्यादी - सप्तम्या वैषयिक आधारोऽर्थः पौनः पुन्येन विद्याग्रहणविषये तत्पर इति गम्यते । तार्किकास्तु कुशलशब्दार्थो दक्षः स च पुनः पुनः कर्ता, अत्र पुन: पुन: करणान्वयि प्रयोजकत्वं सप्तमी
१६६
पष्ठ्योरर्थः तथा च विद्याग्रहणप्रयोजक- पुनः पुनः करणाश्रय इत्यन्वयबोधः | आयुक्तशब्दार्थो व्यापूतः तत्र व्यापारान्वयि प्रयोजकत्वं षष्ठीसप्तम्योरर्थः । तथा च तपश्चरणप्रयोजकव्यापाराश्रय इति बोधः । यत्र क्रियान्तरतात्पर्य नास्ति तत्र केवलमधिकरणे सप्तम्येव, न षष्ठी; वैकल्पिकसप्तम्यास्तत्राप्रवृत्ती षष्ठ्या अवकाशाभावात्, यथा ' आयुक्तो गौः शकटे' इत्यत्र ईषद्य क्त आकृष्य युक्त इति वार्थात्, तात्पर्यार्थाभावात् इत्याहुः ॥२/२/९७॥
स्वामीश्वराधिपतिदायादसाचि प्रतिभूप्रसूतैश्च ॥ शरा६८ ॥
एभिः ससम्बन्धकैः शब्दैर्युक्तान्नाम्नः सप्तमी वा विधीयते । पक्षे च सम्बन्धसामान्ये षष्ठी प्राप्तैव । एते च ससम्बन्धकाः शब्दा इति एतत्प्रकृतिकसप्तम्या अपि सम्बन्धएवार्थः । स्वामीश्वराधिपतिशब्दाः पर्याया एवेत्येकस्यैवोपादानेऽर्धग्रहणे च त्रयाणामपि योगे सप्तमी भविष्यत्येवेति द्वयोर्ग्रहणं गौरवायेति आशङ्कय- पर्यायान्तरव्यावृत्यर्थमन्ययोर्ग्रहणमिति समाहितं बृहद्वृत्तो तेन स्वाम्यर्थक राजादिशब्दयोगे न सप्तमी भवति । एतैर्योगे षष्ठीसप्तम्योः निरूपितत्वरूपः सम्बन्धोऽर्थः गोनिरूपितस्वामित्वयान् पुरुष इति गोषु गवां वा स्वामीत्यादेरर्थः । दायं स्वांशमादत्ते इति दायादः । गोषु गवां वा दायाद इत्यादी वृत्तित्वं विभक्त्यर्थः तच्च दायादशब्दार्थेकदेशे दायेऽन्वेति व्युत्पत्तिवैचित्र्यात् तथा च गोवृत्तिदायग्राहक इत्यर्थः । एवमन्यत्रापि यथायथं सम्बन्धसामान्यं विशेषो वा विभक्त्यर्थत्वेन वोध्यः ।
तार्किकास्तु - गवां गोषु वा स्वामीत्यादी षष्ठीसप्तम्योः स्वामित्वात्वयि निरूपितत्वमर्थः । गवां गोषु वा ईश्वर इत्यादावपि तयोरैश्वर्यान्वयि निरूपितत्वमेवार्थः । ऐश्वयं स्वामित्वमेव । अथवा ऐश्वर्यं सामर्थ्यं स्वत्वोत्पादकत्वम् ।