________________
११४
स्याद्यर्थप्रकाशे
वह्निसंयोगजनकप्रक्षेपोत्तराङ्गक विहितत्यागः शब्दार्थः । विहितत्व विशेषणात् वह्निसंयोगफलकयादृच्छिकत्यागो न स्वाहा पदार्थः । त्यागस्तु स्वत्वनाशप्रकारिकेच्छेव चतुर्थ्यर्थः सम्बन्धः प्रीतीच्छाप्रयोज्यत्वम् तस्य स्वत्व - नाशेऽन्वयः । प्रीतीच्छायां तु प्रीतिप्रकारता निरूपित विशेष्यताकत्वेन प्रकृत्यर्थस्थान्वयः । त्यागस्य स्वत्वनाशप्रकारता निरूपित विशेष्यतया हविषि ( प्रक्षेप्यद्रव्ये ) अन्वयः, तथा च इन्द्राय स्वाहेत्यादौ- इन्द्रनिष्ठप्रीतीच्छा प्रयोज्यस्वत्वनाशप्रकारतानिरूपित विशेष्यताश्रय वह्निसंयोगजनकप्रक्षेपोतराङ्गत्यागकर्म हविरित्यन्वयबोधः । अग्निकर्तृक(अनाहिताग्निविहित ) ब्राह्मणपाण्याद्यधिकरणकप्रक्षेपोत्तराङ्गके स्वाये, अग्नौकरणहोमे स्वाहाप्रयोगो गौणः, तस्य त्यागस्य विहितत्वाभावात् ।
स्वाहा
पित्र्युद्देश्यकस्त्यागः स्वधापदार्थः । पितृत्वं तु वैदिकमते त्रैवर्णिकसपिण्डितत्वम्, शूद्रादेः पिता न त्रैवर्णिकेन पण्डितः किं तु श्राद्धदैवतमात्रम् इति न तदुद्देश्यके त्यागे स्वधापदप्रयोगः किन्तु नमः पदप्रयोग एव प्रामाणिकः । त्रैवर्णिकेन सपिण्डितस्य शूद्रादिना क्रियमाणे श्राद्धादावधि न स्वधाशब्दप्रयोगः तस्य स्वधाशब्दोच्चारणस्य निषेधात् । निषेधोल्लङ्घनजन्यप्रत्यवायमङ्गीकृत्य तेन प्रयुक्तः स्वधाशब्दः शाब्दबोधं जनयत्येव बाधकाभावात् । भवतु वा स्वधाकरणकस्त्यागः स्वधापदार्थः शूद्रकर्तृकस्त्यागो न स्वधाकरणक इति न तत्र स्वधाशब्दप्रयोगः इति सम्प्रदायविदः । वस्तुतस्तु विहितस्त्यागः स्वधाशब्दार्थः, चतुर्थ्यर्थः पूर्वोक्त एव सम्बन्धः, तस्य स्वत्वनाशे त्यागस्यार्थे पूर्ववदेव अन्वयः । तथा च पितृभ्यः स्वधेत्यादौ पितॄनिष्ठप्रीतीच्छा प्रयोज्योऽन्नादिकर्म कस्त्याग इत्यादिप्रकारेणान्वयो बोध्यः ।
इत्थञ्च -- नमः स्वाहा स्वधापदानां विहितस्त्याग एवार्थः । त्यागस्तु प्रयोक्तुरेव । तत्र पूजादौ नमः पदस्य, होमे स्वाहापदस्य, श्राद्ध स्वधापदस्य प्रयोगो विहित इति विशेष: 1 नमः स्वाहादिशब्दाः पर्यायभूता इवेति एतदर्थ
कानामन्येषामपि शब्दानां योगे चतुर्थीप्रयोगो दृश्यते । तथा च हन्तशब्दोऽपि विहितत्यागे प्रयुज्यत इति तद्योगेऽपि चतुर्थीप्रयोगो दृश्यते । यथा - इदमन्नं सनकादिमनुष्येभ्यो हन्तेति । एवं वषग्रहणमपि फट् वौषडादिशब्दानामुपलक्षणम् - तथा च ' नेत्रत्रयाय वौषट्' अस्त्राय फट् इत्यादी चतुर्युपपद्यते । एवं च 'हृदयाय नमः' इत्यादाविव वौषट् -- फट् इत्यादयः शब्दाः कुशलार्थका इति सम्प्रदायविदः । चतुर्थ्यां आधेयत्वमर्थः । एवं हुं शब्दयोगेऽपि चतुर्थी प्रयोगो दृश्यते इति सोऽपि वषट्शब्देनैवोपलक्षितो बोध्यः । आशीविवक्षया वैषु प्रयोगेषु चतुर्थी बोध्या ।
ननु जिनान्नमस्यतीत्यत्राऽपि नमः शब्दसत्वाच्चतुर्थी कुतो नेत्याशङ्कायामाह -- नमस्यधातुना योगो न तु नमसेति । अयमाशयः, शब्दग्रहणादर्थस्योपस्थित्याऽर्थवत एव नमः शब्दस्य योगे चतुर्थी भवति । नमस्यति जिनान्, नमस्करोति गुरुनियादी केवलस्य नमः शब्दस्य न कोऽप्यrsपि तु नमस्य धातोः, नमस्कृ धातोश्चेति तद्योगे न चतुर्थीति । नमस्यतेर्न मस्करीतेश्च नमस्कारानुकूल प्रयत्नार्थकतया केवलस्य नमसस्तत्र स्वातन्त्र्येणार्थबोधकत्वाभावात् । यद्यपि करणेऽर्थे क्यो विधानेन शब्दायतिवत् नमस्यतेरकर्मकत्वमेवोचितमिति नमस्यति जिनानित्यत्र कर्मणि द्वितीयाऽपि नोचिता तथापि नमस्यति--नमस्करोती नत्यर्थे रूढी करणार्थं व्युत्पादनं तु बालोपलाल मुणादिव्युत्पादनवदित्याश्रित्यानयोः सकर्मकत्वेन कर्माणि द्वितीयोपपत्तिः ।
नन्वेवं स्वयंभुवे नमस्कृत्येत्यत्राऽपि द्वितीयैव युक्तेति वेदनाह - स्वयंभुवे नमस्कृत्येत्यत्र नानॆन चतुर्थीत्यादि ।
अयमाशयः नमस्कृतिक्रिययाऽभिप्रेयमाणत्वेन पत्ये शेत इत्यादिवदिहापि चतुर्थी विधेयेति । परे तु 'गम्यस्याप्ये' ( २/२/६२ ) इति सूत्रेणात्र चतुर्थीति वर्णयन्ति । स्वयम्भुवमनुकूलयितुमित्यर्थस्य विवक्षितत्वेन तुमर्थस्य गम्यत्वात्तदाप्ये चतुर्थीविधानादिति । क्वचिच्च स्वयम्भुवं नमस्कृत्येत्यादिप्रयोगोऽपि सम्भाव्यते स कथमिति चेदाह क्रिययाऽ