________________
स्वाद्यर्थ प्रकाशे
प्रीतीच्छाया अपि प्रागुक्तविशेष्यतया इन्द्र ऽन्वयः इतीन्द्रस्य देवतात्वं वाक्यार्थतया प्रतीयते ।
प्रकारतानिरूपित महावीर विशेष्यता कप्रीतीच्छाप्रयोज्यमन्त्र- निरूपित ) विशेष्यितया तादृशप्रीतिच्छायामन्वये तादृशकरणकस्वत्वनाशप्रकारकेच्छायाः स्वत्वनाशप्रकारतानिरूपितविशेष्यतावत् पुष्पमित्यन्वयबोधः । विषयताया इच्छादिसमानकालिकत्वात् त्यक्ते पुष्पादी न नमः पदप्रयोगः । नमः स्वाहा इत्यादि पदानां प्रयोत्कृपुरुषीयत्यागार्थकत्वात् । अन्यदीयत्यागेऽन्यस्य न स्वाहादिपदप्रयोगः । प्रीतीच्छाप्रयोज्यत्वं स्वत्वनाशान्वय्येवोपपद्यते, यतः प्रीतीच्छाप्रयोज्यस्वत्वनाश एवं देवतानां स्वत्वं सम्बन्धः - 'महावीरस्य पुष्पम्' इत्यादी षठ्यर्थतया प्रतीयते । तत्र हि प्रीतीच्छाप्रयोज्यत्वस्य त्यागविशेषणत्वे विशिष्टत्यागस्य प्रयोज्यतया स्वत्वनाशघटकत्वे परम्परासम्बन्धगौरवं स्यात् । तस्य स्वत्वनाशविशेषणतया परम्परासम्बन्धघटकत्वे दर्शितसम्बन्धस्य लाघवमेव । न वा प्रीतीच्छायास्तत्प्रयोज्यत्वस्य चतुर्थ्यर्थस्य नमः पदार्थों त्यागेऽन्वयो युज्यते । तथा सति प्रीतेरुद्द श्यतया त्यागेऽन्येनैव तादृशप्रयोगसम्भवात् । पूर्वरीत्या महावीरादेः प्रीतिबाधेऽपि बाधितद्दश्यता केच्छायाः सम्भवस्योक्तत्वात् ।
१०४
प्रीतेनंमः
****
'यदग्नये जुहोती'त्यादौ सम्प्रदानत्वस्य पदार्थान्वयोपगमे धातु विना स्वविशेषणकशाब्दविषयत्वात् कारकत्वहानिप्रसङ्गात् । 'महावीराय नमः' इति मन्त्रवाक्ये महावीरादीनां देवतात्वं मन्त्रलिङ्गो नावगम्यते । यथा 'त्रातारमिन्द्रमवितारमिन्द्रम् " इति मन्त्रेण प्रकाशितस्येन्द्रस्य देवतात्वम् । तच्च त्यागार्थकनमः स्वाहादिपदसमभिव्याहृत चतुर्थ्यन्तपदप्रतिपाद्यत्वम्; अथवा नमः स्वाहादि पदप्रतिपाद्यस्य त्यागप्रकारकस्वत्वनाशस्य प्रयोजिकायाः प्रीतीच्छाया विषयत्वम् प्रागुक्त ( स्वत्वनाशप्रकारतानिरूपित ) विशेष्यत्वस्वरूपम् -- बोध्यमिति ।
यत्र पदेन वृध्योपस्थापितेऽर्थे पदान्तरार्थस्यान्वयेन वाक्यार्थतया देवतात्वं प्रतीयते तत्र श्रीतं देवतात्वमुच्यते । यथा 'ऐन्द्र ं दधि भवत्यमावास्यायाम्' इत्यादी तद्धितेना - प्रत्ययेन प्रीतीच्छाप्रयोज्यस्य मन्त्रकरणकत्यागप्रकारस्य स्वस्वनाशस्याश्रयोऽभिधीयते तत्र प्रागुक्त- ( प्रीतिप्रकारता -
देवता मन्त्ररूपाश्चेतना वेति विचारः ।
अत्रेत्थमाहुर्मीमांसकाः- देवतायाश्चैतन्ये प्रमाणाभावः । तथा हि- देवतावाच केन्द्रादिपदानां 'इन्द्राय स्वाहा' इत्यादिमन्त्रात्मकाचेतन एव शक्तिः तस्यैव देवतात्वम्; न तु सहस्राक्षस्य | "इन्द्रः सहस्राक्षः" इत्यादिवाक्यानां प्रवतंकत्वेनार्थवादतयाऽप्रामाण्यात् अथेन्द्राय हस्तिनं दद्यादित्यादी त्यागजन्यफलभागित्वरूपदेवतानिष्ठसम्प्रदानत्वश्रुतेर्वरदातृ -
तस्य
त्वश्रु तेश्चाचेतनमन्त्राणां कथमिन्द्रादिपदशक्यत्वम् दर्शितसम्प्रदानत्व विरहात् । अपि च मन्त्राणामिन्द्रादिपदशक्यत्वे तत्तन्मन्त्रानुपूर्वोविशेषणामेव शक्यतावच्छेदक--- त शक्यताविरहादिन्द्रादिसहस्रनाम्नां पर्यायत्वानुपपत्तिः । एवं वाजपेयेन स्वराज्यकामो यजेतेति श्रुत्या वाजपेययागस्येन्द्रपदफलकत्वात्तद्विरोधापत्तिश्चेति चेत् ? अस्त्वेतावतापि इन्द्रादिपदानां सहस्राक्षत्वादिविशिष्टे शक्तिः । एवमपि तस्य देवता पदवाच्यत्वे मानाभावः, देशना - (विधि) देशित चतुर्थ्यन्त - पदनिर्देश्यस्वरूप देवतात्वस्य देवतापद - शक्यतावच्छेदकत्वात् । तन्निर्देश्यत्वञ्च वेदवोधितचतुर्थ्यन्ततयोच्चार्यत्वम् । तच्च 'ऐन्द्र ं दधि भवत्यमावास्यायाम् ' 'आग्नेयं हव्यं निर्वपेत्' इत्यादौ देवतार्थे विहितेन तद्धितेनेन्द्रादिपद एवं बोध्यते न तु सहस्राक्षादी, अत एवेन्द्रादिपदमेव देवता, न तु शक्रादिपदम् तत्र चतुर्य्यन्तया निर्देश्यत्वस्य वेदेनाबोधनात् । न च 'इन्द्राय स्वाहा' इत्यस्यैव मन्त्रत्वेन तस्य चतुर्थ्यन्तत्वविरहात् देवतात्वानुपपत्तिरिति वाच्यम्, इष्टापत्तेः, इन्द्रायेत्यस्यैव देवतात्वात् स्वाहादिपदानां त्यागमन्त्रार्थकत्वात् । तत्र च वेदबोधितत्वं न विशेषणम्, येन पूर्व वेदजन्यज्ञाने जाते तादृशबोधितत्वज्ञानात् तद्घटितदेवतात्वं वेदेन बोधनीयम्, वेदेन देवताग्रहे वेदबोधितत्वं ग्राह्यमित्यन्योन्याश्रयो भवेत् ।