SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, त्वात्म्सुवर्णस्य-काञ्चनस्य तन्निर्मितस्येत्यर्थः कूर्मस्थ कमठस्य प्रतिमा प्रतिकृतिमूतिरित्यर्थ स्तद्वत् क्रमौ-चरणौ यस्य यस्मिन् वा स सुवर्णकर्मप्रतिमाक्रमस्तस्यभावस्तत्वं तस्मात्तथोक्तात् हेमरचितकच्छपप्रतिमापृष्ठदेशसदृशपदयुगलशालिवादित्यर्थः 'शुभः कमठपृष्ठाभः' इति सामुद्रिकोक्तेः । तस्यां राज्यां विषये अधोलोकसुरप्रणामम्=अधोलोकसुराणां भूलोकाधस्ताद्वर्तिभुवनस्थदेवानां प्रणाम प्रणतिम् । तथा वरात्नेन भाग्यशालित्वसूचकमस्तक श्रेष्ठेन 'वराङ्गं मूर्द्ध-गुह्ययोः' इति हैमः रत्नं स्वजाति श्रेष्ठे स्यान्मणौ राजातु. पार्थिवै ऊर्बलोकप्रणम्रता-ऊर्ध्वलोकाः भूलोकादुपरिवर्तमानलोकाः तत्रत्यादेवा इति भावः प्रणम्राः प्रणता यं स ऊध्वेलोकप्रणम्रस्त . स्य भावस्तत्ता तां तीर्थङ्करजननक्षेत्रतया ऊधिोलोकवर्तीदेवादीनां प्रणम्यतामितिभावः वक्ति-कथयति ज्ञापयतीत्यर्थः॥ ६६ ।। मुक्ताकलापे स्तनयोविभूषा, __केशेषु शोभा शिखिनां कलापे । नितम्बशोभा रसनाकलापे, ___कलापरूपं तदिदं कवीनाम् ॥ ६७ ।। (अन्वयः) मुक्ताकलापे स्तनयोविभूषा. शिखिनांकलापे केशेषु शोभा, रसना कलापे नितम्बशोभा तदिदं कवीनां कलाऽपरूपम् (अमिमतम्) ॥६॥ व्याख्या-मुक्ताकलापे-मुक्तावल्यां हारे इत्यर्थः स्तनयो वक्षोजयोः विभूषा भूषकत्वम् स्तनशोभासंवर्द्धकत्वकथनमितिभावः, शिखिना-मयूराणां कलापेन्बहे उपमानभूते उपमेयतयाऽभिमतेषु केशेघु-कुन्तेलेषु शोभा, रसनाकलापे काञ्चीदाम्नि सति नितम्बशोभा नितम्बस्य कटिपश्चाद्वेशस्य शोभा छविस्तवर्णनमित्याशयः इदं-तत्त
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy