________________
महोपाध्यायश्रीभेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये (अन्वयः) रूपेग कान्त्या आचरणेन लक्ष्म्या त्रिषु विष्टपेषु शलाकांप्राप्ता तत: आकाराविकाराद् त्रिशलाकनाम्ना प्रसिद्धा रमणी मणी च (अभूत्) १६५||
व्याख्या-एकषष्टि ६१ मितश्लोकेऽनुक्तां सिद्धार्थराजस्य भार्या मिहिनामत आचष्टे । 'अस्ये'-ति पूर्वतोऽनुपज्यते. प्रकरणाद्वाऽनुसन्धेयः। तथा च अस्य-सिद्धार्थराजस्य, रूपेण-सौन्दर्येण सत्स्वभावेन वा 'रूपं स्वभावे सौन्दर्य' इति मेदिनीः, कान्त्या लावण्येन, आच. रणेन-सदाचारेण सम्यक्चारित्रेणेत्यर्थः लक्ष्म्या धनसम्पदाच त्रिषु विष्टपेषु-त्रिलोक्यां शलाकाम्-सर्वोत्तमतां प्राप्ता अधिगतवती ततः= तस्मात्कारणात् आकाराविकारात्-आकारस्य'त्रिशलाका घटककका. रोत्तरवर्तिन आरूपस्वरवर्णस्य अविकारात्-संज्ञा शब्दतया 'ड्यापोः संज्ञा-छन्दसोर्बहुलम्' इत्येतच्छास्त्रेण ह्रस्वविधानवशसञ्जाताद् अरूपवर्णविकारात् अन्यथा त्रिशलाका' इत्यापत्तेः, 'त्रिशलाक' नाम्नात्रिषुशलाका यस्य तत्रिशलाकं तादृशं नाम-अभिधानं तेन त्रिशला. नाम्नेत्यर्थः प्रसिद्धा-शास्त्रे लोकेच विदिता भूषिता वा 'प्रसिद्धी ख्यात-भूषितौ' इत्यमरः रमणी-स्त्रीरत्रम् अभूत् केव? मणीव-सद्रनमिव सापि रूपादिना प्रसिद्धा भूषिता, शलाकांवेधनास्त्रं प्राप्ता, आकार विकार रहिता भवति । श्लिष्टोपमा काव्य लिङ्गंचाऽलङ्कारौ॥६५ सुवर्णकूर्मप्रतिमाक्रमत्वा--
तस्या मधोलोकसुरप्रणामम् । वराङ्गरत्नेन तदो लोक
प्रणम्रतां वक्तितदीयकायः ॥ ६६ ॥ तदीयकायः सुवर्णकूर्मप्रतिमाक्रमत्वात् तस्या मधोलोकसुर प्रणामम् तश्रा बराङ्गरत्नेन अलोकप्रणम्रता वक्ति ॥ ६६ ।
व्याख्या-तदीयकाया पूर्वोक्तराज्ञीशरीरं सुवर्णकूर्मप्रतिमानमा