________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका.
३३
विषय:- देशः अस्तीति शेषः कीदृशः स इत्याह-स मागधः- मागधैः राजादि स्तुतिपाठकैः वंशपरम्पराशंसकैव सहितः । काव्यशतैः - परशतकाव्यैः स्तुतिसहस्रेण वा प्रशंसितः प्रशंसामुर्खेन व्यावर्णितः, स मध्यमः - मध्यमेन - मध्यजस्वरेण मध्यस्थजनेन वा मध्यमया - हृदयोत्पन्न बुद्धिसंयुक्तनादस्वरूपवाणीभेदेन वा सहितः । स कौशल:- कुशलस्य भावः कौशलं, कौशलेन - क्रियानैपुण्येन सहितः । कोशलसत्कृषीबलैः - कोशैः - धनधान्यराशिमिर्लसद्भि- विराजमानैः - कृषीवलैः कर्षकैः उपलक्षितः इह-अस्मिन् जगति संसारे नीतितः - न्यायवर्त्तनशीलतया श्रिया - लक्ष्म्या भारत्या वा समृद्ध्या वा अभिनीत :- आभिमुख्येन सामीप्येन वा प्राप्तः । एतेन शान्तिनाथ - नेमिनाथ-कृष्ण वासुदेवाना मवतारदेशः प्रदर्शितः । हस्तिनापुर - शौरिपुर- द्वारिकाणां कुरुदेशान्तर्गत्वात् । हस्तिनापुरमारभ्य कुरुक्षेत्रा च दक्षिणे । पञ्चाल पूर्वभागे तु कुरुदेशः प्रकीर्तितः इत्युक्तेः ॥ १ ॥ चरम तीर्थकराऽवतारभूमिमाह-स मागध इति मगधे - देशभेदे भवा मागधा: -मगधदेश वास्तव्यजनाः तैः सहितो विषयः देशः मगधदेश इत्यर्थः ब्राह्मणकुण्डनगरं मगधदेशस्याऽभ्यन्तरवर्तीति संभाव्यते । सः प्रसिद्धः मध्यमः = मध्येभवः, विषय: =देशः मध्यदेशः मध्यप्रान्तः तदन्तर्वर्त्ति वाराणसीत्यर्थः मध्यदेशस्तु मध्यम इत्यमरः । हिमव - द्विन्ध्ययोमंध्यं यत्प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः इति मनुः । अयं च प्रभुपार्श्वनाथावतारदेशः । स कौशलः = कोशले - देशविशेषे भवाः कौशलाः तैः सहितो विषयः कोशलदेश इत्यर्थः । अनेन श्रीयुगादिभवाssदिनाथस्य श्रीरामबलदेवस्य चाऽवतारभूमिः संसूचिता । सर्वत्र पक्षेषु 'कुरुप्रकाशी' इत्यस्य कुरुभिः ओदनैः रूपविशेषैर्वा प्रकाशी- प्रकाशशीलः । कुरुर्नृपांतरे भक्ते पुमान् पुंभूनि नीवृत्ति इति मेदिनी ॥