________________
___३२ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकान्ये रक्तं तत्राऽनेनेच्छाकृतेतिकल्पना । लोकेऽपि रक्तच्छ वेऽधमपदं राज्ञा प्रदीयते ) अत एव दोपाद् ऐरवतंतदाख्यक्षेत्रभेदं वाम-बामगतं सव्यभागस्थं विन्यस्य-विधाय कृन्वत्यर्थः । स शूरतं शूरतः कृपालुस्तेन सहितं यद्वा शूरस्य भावः शूरता शौर्य तेन सहितम् । प्राप्त घृणित्वभव्यम्=प्राप्ता अधिगता घृणिः कान्ति यस्ते प्राप्तघृणयस्तेषां भावस्तत्वं तेनभव्यं-शोभनं योग्यं वा यद्वा धृणा करुणा दयेत्यर्थः अस्त्यस्यासौ घृणी दयालुस्तम्यभावो घणित्वं दयालुता कृपेत्यर्थस्तेन भव्यं, यद्वा प्रकृष्टाः आप्ताम् अत्ययिता विश्वास्यवचना इत्यर्थः यस्मिन् तत्प्राप्तं तच तद् घृणित्वभव्यं चेति विशेषणोभयपदकः कर्मधारयः, तत्-प्रसिद्धं भरतं भरतक्षेत्रं तु असव्यं दक्षिणं दक्षभागस्थं कृत्वेन्यर्थः दधौ-धारयामास । वामंधने पुंसि हरे कामदेवे पयोधरे वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियामथ इति मेदिनी। कृपालुः शूरतः समाः इत्यमरः । आप्त-प्रत्ययितौ समौ इत्यमरः । जुगुप्सा-करुणे वृणे इति चाऽमरः ।। २७ ।। कुरुप्रकाशी विषयः स-मागधः,
प्रशंसितः काव्यशतैः स--मध्यमः। स-कौशलः कोशलसत्कृषीवलैः,
श्रियाऽभिनीतो जगतीह नीतितः ॥२८॥ __ अन्वयः-कुरुप्रकाशी विषयः (अस्ति) स मागधः काग्यशतैः प्रशंसितः स मध्यमः स कौशल: कोशलसत्कृषीवलैः (उपलशितः) इह जगति नीतितः श्रियाऽभिनीतः (पक्षान्तरेषु-स मागधः विषयोऽस्ति । स मध्यमो विषयोऽस्ति । स कौशलो विषयोऽस्ति (शेष विशेषणान्वयः प्रथमवत्) ॥ २८ ॥
व्याख्या-कुरुप्रकाशी-कुरुमिः तदाख्यराजविशेषः प्रकाशी प्रकाश (मसिद्धि) शाली, यद्वा कुरून् प्रकाशयति तच्छीलः स तथोक्तः