________________
आचार्य श्री विजया मृतसूरिप्रणीता सरणी टीका, सर्ग-ट ४११
प्रवरसंवरसंवृतविक्रिये
ऽजनि शिवे निशि वेश्म परात्मनः ॥ १८ ॥
अन्वयः -- असितता कृति विश्वतपोदिवा परततत्परमानववासरे प्रवरसम्वरसंवृतविक्रियेऽनिशि शिवे परात्मनः वेश्म अजनि ॥ १८ ॥
व्याख्या - असितताकृति सितस्य शुक्लस्य भावः सितता शुक्लता न सितता असितता आकृतिः स्वरूपं यस्य स असितताकृतिः कृष्णः विश्वान् तापयतीति विश्वतपः "तपेः कसुन्" कामः तस्य तपः विश्वतपस्तप इत्यत्रैतपशब्दस्य लोपाऽविवक्षातः इति विश्वतप इत्यस्यैव माघकृष्णत्रयोदशीत्यर्थः कथमपि समायातः तस्य दिवा दिनेऽपरः पूर्वभागः पूर्वाह्न इति यावत् तत्परो यो मानवः स फाल्गुननामधेयाऽर्जुनः तस्य वासरः रविः श्वेतवाहनत्वात् श्वेताश्वः सूर्य इति सादृश्येन सूर्यः तस्मिन् माघकृष्णे त्रयोदशीरवों प्रवरसम्बरसम्वृतविक्रिये प्रवरः श्रेष्ठः यः सम्बरः वैराग्यः स प्रवरसंवरः तेन संवृता निरुद्धा विक्रिया विकारो यस्मिन् तस्मिन् तथोक्ते शिवे मोक्षेऽनिशि दिवसे परात्मनः परमात्मनः ऋषभस्वामिनः वेश्म प्रवेशनम् अजनि मोक्षगमनमभूत् इति भावः ।। १६ ।।
शान्तिनाथपक्षे असितताकृतिः कृष्णो यो विश्वस्य द्वादश्यास्तपो ज्येष्ठः तस्मिन् अर्थात् ज्येष्ठ कृष्णद्वादशस्यामन्यत् सुगमम् घनमहानमहा रजताचलं,
ध्रुवमितोऽक्रियया रजताचलम् |
भरतराड् रतरागविमोचनाद, 'मुदमधादमधावपि तदिशा ॥ १९ ॥
अन्वयः - धनमहान् भ्रमहा रजताचलम् ध्रुवम् इतः अक्रिया रजताचकम् स्तरागविमोचनात् भरतराट् अमधावपि तद्दिशामुक्त अधात् ॥ १९ ॥