________________
१०
महोपाध्यायधीमेघविजयगणिविरचिते सक्षसम्मानमहाकाव्ये
अत्यंताधिकृतायोऽनशनो जलानशन: जल तृषाजनितशुष्ककण्ठता तेन वरमांगलिकीम् मंगं गमनम् लाति गृह्णातीति मंगला मंगलाय पर. लोकगमनाय हिता मांगलिकी वरा मांगलिकी वरमांगलिकी ताम् शिवरमां शेतेऽस्मिञ्जगत् इति शिवः मरणं सैव रमा रमते जीवो यस्यां सा रमा इति शिवरमा मरणक्रीडान्दधौ धारयमास ॥ १६ ॥ उपरतापरतापरतापना
दविरताद्विरतापि यदुग्रता । शुचिरसौ चिरसौख्यमधारय
_दसमधीः शमधीरजितात्मना ॥ १७ ॥
अन्ययः- अविरताद् उपरतापरतापरतापनात् यदुग्रतापि विरता असो शुचिः असमधीः शमधीरजितात्मना चिरसौख्यम् अधारयत् ॥ १७ ॥
__ व्याख्या-अविरतात संततात् उपरतापरतापरतापनात् उपरतम् निरस्तम् पृथक्कृतमित्यर्थः अपरस्य भावः अपरता भिन्नता तस्याः अपरतायाः भिन्नतायाः पृथक्त्वस्येत्यर्थः परम् उत्कृष्टम् अतिशयम् तापनम् सन्तापनम् उपरतं निरस्तम् यत् परतापरतापनम् तस्मात् तथोक्तात् यदुग्रतापि यस्य यदीयस्य उग्रतापि तीक्ष्णता कर्कशते त्यर्थः विरता निर्गता उग्रतापि त्यक्तेति भावः शुचिः पवित्रोऽसौ असमधीः असमे अयोग्येऽपि धीवुद्धियस्य स असमधीः असमेपि समानबुद्धिः शमधीगजितात्मना शमधीरेण शमज्ञानेन जितः स्वायत्तीकृतः आत्मा येन स शमधीरजितात्मा तेन तथोक्तेन चिरसौख्यं अतिसौख्यम् अधारयत् आश्रयत् ॥ १७ ॥ असितताकृतिविश्वतपोदिवा
परततत्परमानववासरे।