________________
आचार्य श्री विजयानृतसूरिप्रणीता सरणी टीका. सर्ग-७
३६१
व्याख्या -- सीतापहारविधिः सीतायाः मदिरायाः " सीता लांगलपद्धतौ जनकदुहितरि लक्ष्म्यां मदिरायामुमायां येति शब्द स्तोममहानिधिः" अपहारविधिः परित्यागविधिः तव उपहारव्याहारनिर्भय विहार विनाशनाय स्वच्छन्दत इतस्ततोगमनागमन निर्भयविहारनिवारणाय तेन अधुनापि इदानीमपि मधुनाशनताम् मद्यप्रधानभो जशीलताम् जहीहि परित्यज इति रावणम् रावयति लोकमिति रावणसम् मद्यजनितविभ्रान्तवचनम् इह वसन्तसमये स्वधिया स्वमत्या अलिजन्यम् भ्रमरवादः भ्रमराणाम्परस्परशब्दः आहेव उवाचैव "जन्यं - - स्याज्जनवादेऽपीत्यमरः" अत्र क्रियागतोत्प्रेक्षालंकारः ॥
अन्यत्र एप सीतापहारविधिः सीतायाः जानक्या अपहारविधिः अपहरणव्यापारः तव सर्वैश्वर्यसम्पन्नस्यापि रावणस्य उपहारव्याहारनिर्भय विहारविनाशनाय उपहाराणाम् उक्ढौकनानाम् व्याहाराणानि भयवचनानाम् निर्भयविहाराणाम् क्रीडाविशेषाणाम् विनाशनाय निवृत्यै तेन तद्धेतुना अधुनापि इदानीमपि मधुनाशनताम् मधुप्रधानभोजनताम् मद्यपानमित्यर्थः यद्वा मधुना तदभिधानेन राक्षसेन सह संघताम् संबन्धताम् अथवा मधुना कुम्भनसीभत्र सह असनतामुपवेसनताम् तेन संगतिम् जहीहि परित्यज इत्थमेवम् अलिजन्यम् भ्रमरवादः अथवा अले: काकस्य जन्यम् युद्धम् स्वधिया स्वबुद्ध्या इह समये आह व कथयतीवेत्यर्थः ॥ ८ ॥ श्लेषः । व्यर्था सपक्षरुचिरम्बुज संधिबन्धे,
www.
.
राज्ञो न दर्शनमिहास्तगतिश्च मित्रे । किं किं करोति न मधु-व्यसनं च देवा
दस्माद् विचार्य कुरु सज्जन ! तन्निवृत्तिम् ॥ ९ ॥
-