SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतत्रिप्रणीता सरणी टीका, सर्ग-७ ३५७ व्याख्या-मारीचः ताडकेयः समयः समयनामा स प्रसिद्धः सुन्दरविधिः तदाख्यः यद्वा सुन्दरो विधिः अनुष्ठानं आभिचारिक यस्य स श्रीमेघनादः रावणज्येष्ठत नयः चन्द्रः चन्द्रज्वलननामा रावणिः अकः अग्रभः प्रथितः प्रसिद्धः प्रसस्त इति नानाख्यातः रावणमातामहः प्रधानमंत्री कामाक्षनामा कामाक्षेत्यभिधेयः रावण तनुजः शुकः राज्ञः प्रणिधिः गंभीरः मकरध्वजः यः कान्त्या कमनीयतया कमलभूः चतुराननसन्निभः शारणः रावणचरः बीभत्सः प्रबलायुधैः महदनशस्त्रैः सह रामरावणयुद्धे अगात् योद्धमगमत् अन्येऽपि क्षितिभृतः रावणसहायकनृपाः उत्साहसाः युद्धोत्साहस्थायिभावभावितान्तःकरणाः ईयुः समाजग्मुः इति रामपक्षे । तीर्थङ्करपक्षे-यथायथं विशेषणविशिष्टाः मुनीन्द्रा नरेन्द्रा देवे. न्द्राश्च समीयुः इति अवसेयम् ॥ ४ ॥ शार्दूलविक्रीडितम् छन्दः । जातातपस्य बलिता ललिता दिनस्य, श्री तिशीतमधुरा मधुराङ्गभाजाम् । आपानमप्युपवने पवनेरितेषु, यूनां द्रुमेषु चरणाद् रमणान्मयूनाम् ॥ ५ ॥ अन्ययः-~जातातपस्य दिनस्य बलिताललिताश्रीः मधुरांगभाजाम् नातिशीतमधुरा जाता पवनेरितेषु द्रुमेषु मयूनां चरणात् यूनां रमणात् भापानमपि मधुरं जातम् ॥ ५ ॥ व्याख्या-अत्र सर्गे " नानावृत्तमयः कापि सर्गः कश्चन दृश्यते" इति साहित्यदर्पणधृतमहाकाव्यलक्षणान्नानावृत्तयः किश्च प्रातमध्याह्नमृगयाशैल वनसागराः वर्णनीया इत्यपि तत्रत्यवचनाहतुवर्णनं सर्वसाधारणतया कविः प्रस्तौति जातेति-जातातपस्य जात. तापस्य अहः वलिता ओजखिता ललिता मनोहरा अथ च आतपस
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy