SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३५६ महोपाध्यायश्रीमेघविजयगणिविरचिते सससन्धानमहाकाम्बे श्रीरामपक्ष-अनुदिशम् प्रतिदिशम् अन्तर्हृदये दशाननसंगमम् 'रावणसनिधानम् ध्यायन् विचारयन् उदयिनम् अचिरराज्यप्राप्त्या प्राप्तोदयम् भानुम् सूर्यतनयम् “ अपत्यप्रत्ययस्य लुक् " अथवा भातीति भानुस्तम् सुग्रीवम् कर्णे निधाय कर्णसमीपं नीत्वा "सामीप्ये सप्तमी" विचारयन् किमपि चिन्तयन् रामः करिशिरसि हस्तिमस्तके न्यस्तं स्थापितं हस्तम् इन्द्रजिता मेघनादेन समम् सार्धम् गुर्वीम् गरीयसीम् सुरवाहिनीम् सुरति ऐश्वर्यदीप्तिम् प्राप्नोतीति सुरः राक्षसः तस्य वाहिनीम् सेनाम् नयनविषयीकुर्वन् अवलोकयन् अगमदिति पूर्वश्लोकेनान्वयः ॥ कृष्णपक्षे-अनुदिशम् प्रतिदिशम् दशाननस्य कामस्य प्रद्युम्नस्येत्यर्थः संगतिम् संगम् ध्यायन् विचारयन् उदयिनम् प्राप्तोदयम् भानुं तदभिधानम् कश्चिन्नृपम् कर्ण निधाय कर्णसमीपन्नीत्वा विचा. स्यन् रहो मंत्रयन् कार्यजातमिति शेषः करिशिरसि न्यस्तं स्थापितम् हस्तम् इन्द्रजिता ऐश्वर्येण महेन्द्रमणि पराभवता नृपेण समम् सार्धम् पुरः अग्रे गु/म् महीयसीम् सुरवाहिनीम् दैत्यसैन्यम् राजसैन्यम्बा नयनविषयीकुर्वन् पश्यन् अगमत् इयाय ॥ ३ ॥ मारीचः समयः स सुन्दरविधिः श्रीमेघनादोऽप्यगाच्चन्द्रोऽर्कः प्रथितःप्रहस्तकथितःकामाक्षनामा-शुको(कः) गम्भीरो मकरध्वजः कमलभूः कान्त्या (पिना?)शारणो, बीभत्सः प्रबलायुधैः क्षितिभृतोऽन्येऽपीयुरुत्साहसाः॥४॥ अन्वयःमारीचः समयः सुन्दरविधिः सः श्रीमेघनादः चंद्रः अर्कः 'प्रथितः प्रहस्तकथित: कामाक्षनामा शुकः गंभीरः कान्त्या कमलभूः मकरध्वजः शारणो ना बीभत्सः प्रमलायुधैः अगात् अन्येऽपि उत्साहसा: क्षितिभृतः ईयुः ॥४॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy