________________
६
महोपाध्यायधीमेधविजयगणिविरचिते सप्तसन्धानमहाकाम्ये
कृष्णपक्षे-"श्रीअहंदाद्य" इत्यादिविशेषणार्थ योजनं रामवन् श्रियाऽभिराम इत्यस्य श्रिया-लक्ष्म्या अभिरामो-मनोजः इत्यर्थः । श्रियासराम इति पाठान्तरे श्रिया-लक्ष्म्या सरामः-सभार्यः (रामयाभार्थया सहितः इति कृत्वा) रामा हिङ्गुलिनी स्त्रियोः इति हैमः।।२।। यो वीतरागः कृततीर्थयागः,
प्रोद्यत्सभामण्डलसंविभागः । यो नीतिकारी भुवनोपकारी,
सेव्यः स भव्यैर्नवकाव्यनव्यः ॥ ३ ॥ अन्वयः-~यः वीतरागः कृततीर्थयागः, प्रोधसभामण्डलमंत्रिभागः ।
य: नीतिकारी भुवनोपकारी, भव्यैः सेव्यः स नवकाव्यनन्यः ॥ व्याख्याननु मत्स्वप्यन्येषु बुद्धादिषु परश्शतेषु देवेषु कथमेतेषामेव चरित्राख्याने कविः जातादर इत्याह-य इति. यः अनिर्दिष्टनामधेयः, वीतरागः-चीत:-विगतः निवृत्तः गगः-स्रक्चन्दनवनितादिविषयाऽभिषङ्गः यस्य स तथोक्तः तीर्थकृत्पञ्चक श्रीरामपक्ष माधारणोऽयमर्थः । कृष्णपक्षे तु विः-पक्षी गरुड इत्यर्थः तं तस्मिन् वा इतः प्राप्तोरागः-प्रीतिर्यस्य स तथोक्तः। कृततीर्थयागः तीर्थसाधु-साध्वी-श्रावक-श्राविकात्मकचतुर्विध सङ्घः लक्षणया तत्स्थापनमिह गृह्यते तीर्थ याग इव तीर्थयागः कृतः सम्पादितः तीर्थयागःतीर्थस्थापन यज्ञो येन स तथोक्तः । रामकृष्णपक्षे-कृतस्तीर्थस्य-सावादिसंघस्य यागः-यजनं पूजनं येन सः, कृतस्तीर्थ-सरवादितटान्मकपुण्यक्षेत्रे यागः-देवपूजा येन स इति वा तथोक्तः.
प्रोद्यत्सभामण्डलसंविभाग:-प्रोद्यन्ती दीप्यमाना सभा देवादिपरिपत् तस्या मण्डले-समूहे संविभागः-जीवाजीवादिपदार्थानां विविन्य