________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३
१४.
innrn.nnn........
रामकृष्णपक्षे-अग्रकोटौ सर्वमूर्धन्ये सतां सत्पुरुषाणां पुण्यं समधिरोपयता संस्थापयता भुजाग्रे स्वहस्ताग्रे कौमोदकी तदभिधानां गदा अस्त्रविशेषं दधता गृह्णता अर्हता योग्येन रामेण, कृष्णेन वा चक्रभृता चक्राखं दधता अङ्गजेन भावेन विलासादिना अलंकृतिभिरलंकाकारैः निजपवित्रसमुदाचारः सालंकृतं भूतलं भूमण्डलं सपदि सहसा चक्रे विदधे ॥ ३३ ॥ शंखध्वनिध्वनितदिग्वलयः प्रयोगं,
__ सद्यो विभिद्य रिपुभूमिभुजां भुजायाः । मुक्तेषु-निश्चितधियां स्वधरादरेण,
त्यागाय सर्वविषयस्य तदा बभव ॥ ३४॥ अन्वयः-शंखध्वनिध्वनितदिग्वलयः रिपुभूमिभुजां भुजायाः प्रयोग सद्यः विभिद्य मुक्तेषु निश्चितधियां स्वधरादरेण सर्वविषयस्य त्यागाय तदा बभूव ॥३४॥
__व्याख्या-जिनेन्द्रपञ्चकपक्षे-शंखध्वनिध्वनितदिग्वलयः शंखस्य कंबोर्यो धनिरव्यक्तमधुरशब्दस्तेन ध्वनितं शब्दायितं दिग्वलयं दिग्विभागो येन स तथोक्तः रिपुभूमिभूजाम् भूमि भुञ्जन्तीति भूमिभुजस्तेचते रिपवश्वेति रिपुभुमिभुजः शत्रुनृपतयस्तेषां महीभुजां भुजायाः बाहोः प्रयोगम् प्रसरम् गर्वमित्यर्थः सद्योविभिद्य तत्क्षणमेव निराकृत्य मुक्तेषु निश्चितधियां मोक्षेषु विषयेषु निश्चितधियां कृतनिश्चयबुद्धीनां जिनेन्द्राणामिति शेषः स्वधरादरेण स्वस्य धरः स्वधरः स्वकीयसंकल्पस्तस्यादरेण तस्याभिनिवेशेन यद्वा स्वस्थयोधरादरः धरस्य पर्वतादिनिर्जनस्थानस्य आदरः पर्वतादौ गत्वात् तपश्चर्याविधेयेतिनिश्चयेन आग्रहेण हेतुना सर्व विषयस्य सांसारिकमोहनीयवस्तुजातस्य त्यागाय वदा तमिन् काले बभूव तत्र प्रसक्तो जज्ञे ।