________________
१४६
महोपाध्याय श्रीमेघविजयगणिविरन्धिते सप्तसन्धानमहाकाव्ये
~~
~~
पनमिति निश्चित्य प्रीत्या पित्रोः प्रेम्णा इन्द्रस्य वा प्रणयेन आव्युवाह परिणिनाय, सांवत्सरे वितरणे कृतकर्मयोगः सम्वसति ऋतुः स्त्रीमासिकधर्मोऽत्र इति सम्वत्सरः स एव साम्बत्सरः तसिन साम्वत्सरे वितरणे ऋतुदाने कृतकर्मयोगः कृतव्यापारः ऋतुदाने सावधानः ऋती भार्यामुपेयादित्यनुसृत्य तत्रैव कृतोपयोगः आसीदिति शेषः । अन्ये पर शतनृपा अनेकशो भूपाः तथैव तदनुसारेणैव तस्थुः यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजन इति मतमवलंव्य ततोऽक् ितदीया चरण मेवप्रमाणत्वेन प्रचचारेति भावः पक्षान्तरे यथायोग्य मेतदिति ।। ३२ ॥ धर्म सतां (समधि) रोपयताऽग्रकोटी (?)
__ कौ-मोदकीमपि रुचिन्दधता भुजाये । चक्रेर्हता सपदि चक्रभृताङ्गजेन,
भावेन भूतलमलं कृतिभिः सशोभम् ॥३३॥ अन्वयः-को अग्रकोटौ सतां धर्म प्रमधिरोपयता भुजाग्रे मोदी रुचि दधता चक्रभृता अङ्गजेन अर्हता भावे. अलंकृतिभिः सशोभं भूतलं सपदि चक्रे ॥३३॥ व्याख्या-को-पृथिव्यां अग्रकोटौ अग्रभागे सर्वत उच्चप्रदेशे सतां= सत्पुरुषाणां धर्म-सुकृतं पुण्यमिति यावत् समधिरोपयता स्थापयता भुजाग्रे-स्वचाही मोदकी-मोदयति हर्षयतीति मोदकी हर्षदात्री तां सर्वसम्मोदसम्पादिकां रुचि दीप्तिं शोभां दधता धारयता चक्रभृताचक्रास्त्रं चक्रचिहूं वा बिभर्तीति तेन, अङ्गजेन-अंगान्मनसो जायते इति अङ्गजः कामः स इवाचरतीति तेन कामसदृशेन अर्हता पूज्येन जिनेन्द्रेण भावेन विदुषा अलंकृतिभिः शोभाधायकै स्वीयनिर्मलपवित्राचारैः सशोभं सालं कृतं भूतलं धरामण्डलं सपदि सद्यः चके विदधे स्वजन्मना निर्मलाचरणेन च भूमितलं मालंकृतं कुरुतेस्मेति भावः यद्वा चक्रभृतांगजेन चक्र बिभर्तीति चक्रभृत् स आङ्ग जस्तनयो यस्य स चक्रभृतांगजस्तेनति आदीश्वरपक्षे व्याख्येयम् ।