________________
१३
निक्षेपमीमांसा कृताविन्द्रपदशक्तिग्राहकः तबलात्तत्रापीन्द्रोऽयमिति व्यपदेशः प्रवर्तते, व्यवहरन्ति च लोका-इन्द्रं द्रष्टुं वयं गच्छामः, तत्र किं स्वर्गाधिपस्य प्रतिबिम्बं द्रष्टुं यूयं गच्छथ इति जिज्ञासायां येयं गोपालदारकस्येन्द्रस्य प्रतिकृतिरस्मिन्मन्दिरे तदीयनिर्मिता तां द्रष्टुं गच्छामो न तु स्वर्गाधिपस्येन्द्रस्येति भवतीत्थं तस्यापि स्थापनानिक्षेपस्य प्रवृत्तिः, स एवेन्द्रो भवान् भावी भूतो वा यश्च गोपजः इत्येवं कथानकपद्ये गोपालजस्य यः पूर्वभवीयपर्यायो भाविभवीयपर्यायो वेन्द्रशब्देन कथ्यते स द्रव्येन्द्रो गोपालपुत्रेन्द्रापेक्षयैवेति तत्र शक्तिग्राहको निक्षेपो द्रव्यनिक्षेपको गोपाटदारकापेक्षया प्रवृत्तिमासादयत्येव । ___ नन्वेवमपि ये भावाः केवलज्ञानकसमधिगम्याः शब्दानभिलाप्यास्तेषु नामनिक्षेपस्याननुमतत्वेऽपि द्रव्याकृतिभावनिक्षेपानामनुमतत्वमेव तच शक्तिग्राहकशब्दरूपरचनाविशेषस्य निक्षपस्वरूपत्वे न स्यादेव, यस्य हि वाचकं किञ्चिन्नाम समस्ति तद्वाचकाव्यवहितपूर्ववर्तितया स्थापनाद्रव्यभावपदानां योजनाया तदुपस्थाप्येषु तद्वाचकपदस्य शक्तिग्राहकवर्णादिविन्यास: कर्तुं शक्यते येषां तु वाचकमे नास्ति तेषां न सम्भवत्येवोतस्वरूपोनिक्षेप इति चेत् , तेषामाकृतिः सद्भूताऽसद्भूता वा, द्रव्यंपूर्वपरिणामरूपमुत्तरपरिणामरूपं वा भावश्च स्वासाधारणस्वरूपोऽर्थक्रियाकारी समस्त्येव त एते निक्षेपविषया आकृतिद्रव्यभावास्सन्त्येवेत्यतो भवन्ति ते निक्षेपस्वरूपयोग्याः केवल