________________
मुनिशिवानन्दविजयविरचितास्थापनानिक्षेपोऽयं, एवं द्रव्येन्द्र इन्द्रपदशक्य इत्येवं प्रवर्तमानस्तत्र द्रव्यनिक्षेपो यो मृत्वा स्वर्गाधिपो भविष्यति, स्वर्गाधिपो भूत्वेदानी मानवभवमलङ्करोति स द्रव्येन्द्र इति तस्येन्द्रपदशक्तिग्राहक इति स्वर्गाधिपापेक्षयैव द्रव्यनिक्षेपोऽयं न तु यो गोपालदारको भविष्यति भूतो वा तस्य गोपालदारककारणीभूतस्य तत्कार्यस्य वा शक्तिग्राहक इति न गोपालदारकापेक्षया द्रव्यनिक्षेप इति चेद, उच्यते, गोपालदारकस्या. धुनिकेन्द्रपदसङ्केतविषयीकृतस्य स्वर्गाधिपेन्द्रापेक्षया नामेन्द्रत्व मेतावतैवोच्यते 'इदिङ' ऐश्वर्ये इति धात्वथैश्वर्यविशेषस्य स्वर्गाधिपगतस्य गोपालदारकेऽभावात्तस्य भावेन्द्रत्वासम्भवात्, परन्तु गोपालदारकस्य पुरुषविशेषस्य यदसाधारणस्वरूपं तदेव तस्य भावस्तद्रूपं प्रवृत्तिनिमित्तमुररीकृत्य तत्र पित्रादिभिरिन्द्रेति नाम प्रयुज्यते तदसाधारणधर्मविशिष्ट इन्द्रपदवाच्य इत्येवं भावनिक्षेपो गोपालदारकेऽसाधारणधर्मलक्षणभावपुरस्कारेण शक्तिग्राहकतया प्रवर्त्तमानो गोपालदारकेन्द्रापेक्षया मावनिक्षेपः, तस्य गोपालदारकस्य यदिन्द्रेति नाम तदुपजीवनेन यः कश्चित् स्वपुत्रादेरिन्द्रोऽयमित्येवं सङ्केतं करोति सङ्केतितश्च पुरुषो गोपालदारकगताऽसाधारणधर्मलक्षणभावात्मकेन्द्राथवियुत इति कृत्वा गोपालदारकापेक्षया नामेन्द्र इति व्यपदिइयत इत्येवं गोपालदारकेन्द्रापेक्षयाऽपि नामनिक्षेपप्रवृत्तिन दुर्घटा, तथा गोपालदारकेन्द्रस्य या प्रतिकृतिस्तामुपादाय यमिन्द्रपदवाच्य इत्येवं यस्स्थापनानिक्षेपस्स गोपालदारकप्रति