________________
१०
मुनिशिवानन्दविजयविरचितानामजीवे शक्ति तथाविधकोशादवगच्छन्नपि पुमान् यः खलु नामजीवशब्दवाच्यः स जीवशब्द वाच्य इत्येवमवधारयेत्, प्रकृ. तार्थनिरपेक्षनामार्थान्यतरपरिणतिन मनिक्षेप इत्येवं लक्षणलक्षितं नामनिक्षेपमजानानः प्रागधारणलक्षणजीवनरहितस्य कस्यचिद्वस्तुनः केनचिदयं जीवपदवाच्य इत्येवं जीवपदसङ्केतमात्रेण प्राणिवाचकजीवशब्देनात्मादिपर्यायशब्दानभिधेया परिणतिर्नामजीव इति नावधारयत्येव, तथा जीवपदस्य स्थापनाजीवे शक्ति तथाविधकोशादवबुद्धयमानोऽपि यः खलुस्थापनाजीवशब्दवाच्यः स जीवशब्दवाच्य इत्येवं सामान्यतोऽवधारयितुं शक्नुयात् , यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण चित्रादौ तादृशाकारमक्षादौ च निराकार स्थाप्यते चित्राद्यपे. क्षयेत्वरं नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकं स स्था. पनाजीव इत्येवं लक्षणलक्षित स्थापनानिक्षेपमजानानो जीवनरहितं जीयोऽयमवगन्तव्यमित्यभिप्रायेण स्थापितं जीवाकारसदृशाकार तदाकाररहितं वा वस्तु स्थापनाजीवोऽयमिति नावधारयत्येव तदनवधारणे चात्र जीवशब्दो वाचकतया प्रवर्तत इत्यपि कथं जानीयात् , तथा जीवपदस्य द्रव्यजीवे शक्ति तथाविधकोशाज्जाननापि पुमान्, यः खलु द्रव्यजीवशब्दवाच्यः स जीवशब्दावाच्य इत्येवमेवावधारयेत्, भूतस्य भाविनो वा भावस्य कारणं यन्निक्षिप्यते स द्रव्यनिक्षेप इत्येवं लक्षण. लक्षितं द्रव्यनिक्षेपमनवबुद्धयमान: भाविदेवजीवपर्यायकारणं मनुष्यपर्यायपन्नं जीवं द्रव्यजीवमिति नावगच्छत्येव, तथा