________________
निक्षेपमीमांसा न्यतो जीवाजीवादिपदानां शक्तिग्राहकान्तरादपि शक्तिग्रहः सम्भवत्येव, जीवाजीपादितत्वप्रतिपादक सूत्र तावत्तचोदेशसूत्रमेव, उद्देशश्च नाममात्रेण वस्तुसङ्कीतनमेव तत्र नामजीवत्व स्थापनाजीवादीनां जीवत्वाधवान्तरधर्माणामनवगमेऽपि जीवत्वादिसामान्यधर्मेण जीवादौ कोशादितो गृहीतसङ्गतिकाजीवादिपदादेव जीवादिपदार्थोद्देशस्सम्भवतीति न नामजीवत्वाद्यवान्तरधर्मावच्छिन्ने जीवादिपदशक्तिग्राहकस्य निक्षेपस्यावश्यकत्वमिति तत्वोदेशसूत्रात्प्रथमत एव निक्षेपसूत्रसूत्रणस्य नावश्यकत्वम्,किन्तूद्देशसूत्रसूत्रितजीवादिसामान्यज्ञानसातावान्तरधर्मजिज्ञासाविषयीभूतावान्तरधर्मावच्छिन्नावगमप्रवणतत्तद्धर्मावच्छिन्नशक्तिग्रहनिदाननिक्षेपसूत्रणम् , इत्थं व्याख्याङ्गतया समर्थितात्मनो निक्षेपस्य शक्तिग्राहककोशादितो गतार्थत्वानिष्प्रयोजनत्वेनानिरूपणीयत्त्वं तदास्याद्यदि निक्षेपतो यथा नामजीवस्थापनाजीवद्रव्यजीवभावजीवेषु जीवपदस्य परस्परासङ्कीर्णशक्तिप्रतिपत्तिस्तथा कोशादितोऽपि भवेत् , न चैवम् , यदि कश्चिद्विपश्चिज्जैनागमाध्यययनादिनाऽवधारितनिक्षेपचतुष्टयस्वरूपोऽभिनवस्वविरचितकोशे जीवो नामाकृतिद्रव्यभावजीवेष्विति, एवमजीवादिशब्द इत्ये. वमभिदध्यात् , तेन च वचनेन नामजीवादिषु जीवादिपदशक्तिग्रहः सम्भवति, तदाप्यागमे निक्षेपनिरूपणस्य मूलतया. ऽवस्थानमायातमेव, तथा च कोशः कथं स्वोपजीव्यमागमगतनिक्षेपनिरूपणस्य निष्प्रयोजनभावमानयेत, अपि च जीवपदस्य