________________
शास्त्रार्थकलोपस्कृतः तच्च स्वसामानाधिकरण्य-स्वप्रतियोगिवृत्तित्वोमयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव विशेषणविभक्तरर्थः । वृत्तिश्च तत्र प्रकृत्यथस्य संसर्गमर्यादया भासते। __ तादृशधर्मस्तत्तद्वयक्तित्वादिरूप एच । अपूर्वव्यक्तिनिष्ठतादृशधर्मस्थ विशिष्य ज्ञातुमशक्यत्वेऽप्येकमात्रवृत्तिधर्मत्यादिना सामान्य प्रत्यासत्तितः सुग्रहत्वमेव ।
स्वरूपसम्बन्धावच्छिन्नाया वृत्तिताया एव ग्रहणम् पूर्वोक्तदूषणद्वयन्तु न युक्ततरम्भेदविशिष्टान्यत्वरूपे विभक्त्यर्थे नीलो घट इत्यादौ प्रकृत्यर्थस्य नीलादिपदार्थस्य स्वरूपसम्बन्धावच्छिन्नाऽधेयतासम्बन्धेनैवान्वयस्तथाच तदधिकरणतानिरूपिताऽधेयताया भिन्नत्वादन्यनीलघटतात्पर्येण तादृशवाक्यस्य प्रामाणिकत्वविरहात् । स्वरूपसम्बन्वावन्छिन्नत्वनिवेशान्न कालिकसम्बन्धेन तद्वृत्तित्वमादाय भेदविशिष्टाऽन्यत्वाऽप्रसिद्धिरिति व्याख्यानात् । भेदविशिष्टं यत्तदन्यत्वमिति
न च मेदस्तादात्म्यसम्बन्धावछिन्नप्रतियोगिताकाऽभावरूपस्तादात्म्यञ्च भेदधटितमित्यात्माश्रयदोष इति वाच्यम् ? भेदत्वस्यानुयोगिताविशेषरूपत्वादखण्डोपा. धित्वाच । ननूभयभेदस्य केवलान्वयित्वेन तमेवादाय भेदविशिष्टत्वमस्त्येव तद्व्यक्तित्वादाविति भेदे व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वविशेषणनिवेशेन तु न निरुक्तदोषवारणम् १ तव्यक्तित्वेन तव्यक्तिधटोभयभेदाश्रयणेन निरुक्तदोषस्य जागरूकत्वात् । इति चेन्न ? एकत्ववृत्तिप्रतियोगिताकभेदविशिष्टं यत्तदन्यत्वमित्यस्य स्वीकारात् । वृत्तित्वञ्च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्वनिरूपकानुयोगितानिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धेन । समन्वयस्स्वयमूह्य इति केचित् ।
न च भेदशब्दार्थस्तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाऽभाव एव, तादात्म्यञ्च भेदविशिष्टान्यत्वमेवेत्यन्योन्याश्रयदोष इति वाच्यम् ? अभावविशिष्टान्यत्वमेव तादात्म्यमिति परिष्कारात् । वैशिष्टयञ्च स्वप्रतियोगितासामानाधिकण्य स्वसामानाधिकण्योभयसम्बन्धेन । तत्तद्वयक्तित्वाऽभावमादाय लक्षणसमन्वितिः । नचाभावत्वञ्च द्रव्यादिषटकान्योन्याऽभाववत्त्वम् तादात्म्यञ्च अन्योऽन्याभावत्वन्तच्च तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावत्वमेवेतिपूर्वोक्तान्योन्याश्रयस्तिष्ठत्येवेतिवाच्यम् ? अभावत्वस्य भेदत्वस्य अन्यत्वस्य वा अखण्डोपाधित्वेन परस्परनिरपेक्षस्वेनानान्योऽन्याश्रयाऽभावात् । तादृशधर्मस्तत्तद्व्यक्तित्वादिरूप एवेति---
मीलो घट इत्यादौ निरुक्ततद्वयक्तित्वं सुविभक्त्यर्थस्तत्र प्रत्ययाथें नीलरूपप्रकृत्य