________________
व्युत्पत्तिवादः
अभेदम्य संसर्गतामतेऽप्येतादृशानुगताभेदस्यैव तथात्वमुचितम् | तत्तद्वयक्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे घटो न
नील
इत्यादिवाक्यजन्यबोधे प्रतियोग्य भावान्वयौ च तुल्ययोगक्षेमाविति न्यायेन तादृशाननुगत सम्बन्धावच्छिन्नप्रतियोगिताकाननुगताभाचा एव भासेरन् न तु नीलवृत्तिरकोऽभावः, तथा सति यत्किचित्तादृशाभावतात्पर्येण प्रयुक्तस्य नीलेऽपि न नील इत्यादिवाक्यस्य प्रामाव्यं स्यात् ।
इदन्तु बोध्यम् । विशेषणविभक्तेरभेदार्थकत्वे घटो न नोल इत्यादौ नया नीलाद्यभेदाभाव एव प्रत्याययिष्यते न तु नीलादिभेदः । यादृशसमभिव्याहारस्थले येन सम्बन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं नवसर्थस्य स्वरूपसम्बन्धावच्छिन्नाधेयतासम्बन्धेनान्वयः, तद्वयक्तित्वरूपप्रत्ययार्थस्य च स्वरूपसम्बन्धेन घटपदार्थेऽन्वयः । एवञ्च नीलवृत्तितद्वय क्तित्यवान् घट इति शाब्दबोधः । ननु सुन्दरो घटो भविष्यति विद्यावान् पुत्रो भविष्यतीत्यादौ घटपुत्रादिगत भविष्यद्वयवहारस्य दृष्टिगोचरत्वाऽभावेन विभक्तिशक्तिग्रहस्य कत्तु मशक्यत्वात्कथन्तत्र शाब्दबोधविषयत्वमित्याशयेनाह - अपूर्व व्यक्तिनिष्ठेति । नैयायिक मते सामान्यलक्षणाप्रत्यासत्तिस्तथा चैकमात्र वृत्तिधर्मत्वेनैवापूर्वव्यक्तिभानम् ।
संसर्गतामतेऽपीति
९२
तादात्म्यलक्षणाऽनुगताऽभेदस्य संसर्गतावादिमतेऽपि व्यवहारोऽत एव नञ्पदसमभिव्याहारे नीलो न घट इत्यादौ नीलवृचितादात्म्याभाववान् षट इत्याकारको बोधः । सर्वावयवावच्छेदेन तादात्म्यम्भासते । तेनैव रूपेण नञ्सत्त्वे निषेधः । अत एव यत्किञ्चिन्नीलसत्त्वे नीलो न घट इत्यस्य प्रयोग एव न ? सामान्यलक्ष्णायाः प्रत्यासन्तेरेतदर्थमावश्यकत्त्वात् ।
इदन्तु बोध्यमिति
अलब्धलाभो योगः लब्धरक्षणन्तु क्षेमम् तयोस्तुल्यमेवेति ।
सामान्यलक्षणा
सामान्यलक्षणप्रत्यासत्त्येति — सामान्यं लक्षणकोऽर्थो विषयो यस्याः सा प्रत्यासत्तिः सामान्यविषयकं ज्ञानमित्यर्थः । यथा हि एकत्र घटे ज्ञाते सति घटत्वेन सकलघटानां यथा वा एकत्र धूमे ज्ञाते सति घूमत्वेन सकलधूमानां भानम्भवति । न च निरुक्तरीत्या सकलधूमघटमानाभावेऽपि का क्षतिस्सामान्य लक्षणाप्रत्यासत्तिश्च मा स्वीक्रियतामिति वाच्यम् ? सामान्यतो धूमो वहिव्याप्यो न वेतीष्टस्यापि संशयस्य व्याघातापत्तेः । तथाहि प्रत्यक्षधूमे वह्निसम्बन्धस्य गृहीतत्वात् अन्यधूमस्य च तदानीमभावात् संशयोच्छेदापत्तेः । अत एव महानुभावयोः कयोश्चिद सामान्यलक्षणाप्रत्यासत्तिविषये प्रचलिते शास्त्रार्थे उक्तिरियमुत्तरपक्षवादिनः श्रुयते "वक्षोजपानकृत् काण संशये जाग्रति स्फुटम् । सामान्यलक्षणा कस्मादकस्मादपलप्यते ॥” इति सक्रोधं संशयोच्छेदापत्तिप्रदर्शनेन प्रत्यासत्तेरस्थाः समर्थनम् ।