________________
९३
शास्त्रार्थकलोपस्कृतः । त्वे प्रतीयते ताशस्थले नबा तद्धर्मिणि ताशसंबन्धावच्छिन्नताहशधर्माच्छन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । प्रतियोग्यभावान्वयौ चेत्यादेरप्ययमेवार्थः । एवं च नमो भेदबोधकत्वं न कुत्रापि संभवति । अनीलं घटमानयेत्यादौ घटपदसामानाधिकरण्यानुरोधेनानीलपदस्य नोलभिन्नपरतया नञो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् ।
इदं तु तत्त्वम् । असमस्तनोलो घट इत्यादिस्थले ऽभेदस्य संसर्गतोपगमेऽपि गौरवविरहात् तत्र विशेषणविभक्तेर्वृत्तिकल्पनमनुचितम् । न च यत्राभेदे विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणामहो वा तत्र सर्वमत एबाभेदप्रकारकबोधस्य नीलो घट इत्यादिवाक्यादुत्पत्त्या तादृशसमभिव्याहारज्ञानस्य द्विविधबोघे हेतुताद्वयं कल्पनो. यम् अभेदस्य संसर्गतावादिनेति गौरवम् । एवं तादृशसमभिव्याहारज्ञानघटितसामनया भिन्नयोग्यताज्ञानघटितत्वेन द्वैविध्यमिति भिन्नविषयकप्रत्यक्षादिक प्रति तादृशशाब्दसामग्रीप्रतिबन्धकताया अप्याधिक्यमिति वाच्यम् ? इदन्तु तत्त्वमिति---
नीलो घट इत्यादौ प्रकारतावादिमतेऽपूर्वशत्तिकस्पनरूपगौरवात्संसर्गतावादिमतमेव ज्यायस्तरम् । असमस्तनोलो घट इत्यादिस्थल इति
ननु नीलो घट इति कथनेनैव विभक्त्यन्तश्रुत्याऽसमासरूपार्थलामेऽसमास इत्युक्तिः किमर्थेति चेन्न ? समासे विशेषणविभक्तरभावेन तत्र विशेषणविभक्तेर्वृत्तिकल्पनमयुक्तमितिग्रन्थाऽसङ्गतेः स्पष्टार्थमेव तदुपादानात् । किञ्च अत्र पङ्क्तौ असमास इतिपदमेव विशेष्यार्थकम्बिशेष्यमिति यावत् । असति प्रतिबन्धक उद्देश्यतावच्छेदकावच्छेदेनान्वय औत्सर्गिकस्तथाच विरुद्ध विभक्तिकवाक्ये विशेषणविभक्त्यभावेन तत्र विशेषणविभक्तवृत्तिकल्पनमनुचितमितिसन्दर्भासनतेश्च । __ नच संसर्गतामते नीलो घट इत्यादौ विशेषणविभक्तरभेदे शक्तिभ्रमे स्वारसिकलक्षणाग्रहे च अभेदप्रकारकोऽपि बोधः अभेदसंसर्गकोऽपि बोधः। विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वमितिनियमानुसारेण प्रतिबध्यप्रतिबन्धकभावे हेतुताद्वयङ्कल्पनीयम् । प्रकारतावादिमते तु हेतुरेक एवेति तस्मात्प्रकारतावादिमतभेव युक्तमिति वाच्यम् ? तादृशे स्थलेऽपि अभेदसंसर्गकबोधस्यैव स्वीका
प्रतिबन्धकत्वञ्चेति-प्रतिबन्धकं हि कार्योत्पादने बाधकं भवति अत एव कार्यवावच्छिन्नं प्रति प्रतिबन्धकसंसर्गामावस्य कारणत्वम् । तथा च कारणीभूतामावप्रतियोगित्वम् प्रतिबन्धकरवम् ।