________________
९४
अभेदस्य
दिति दिक् ।
व्युत्पत्तिवादः ।
संसर्गतावादिनोतस्थलेपि
तत्संसर्गक बोधस्यैवोपगमा
रात् । इत्याशयेनाह उपगमादिति । संसर्गत्वमेव मन्यते नतु प्रकारत्वमिति न हेतुताद्वयकल्पनेन गौरवमित्याशयस्संसर्गतावादिमीमांसकानाम् । इति दिगिति
विशेषणविभक्तिवृत्त्योपस्थितत्वेऽप्यभेदस्य
नच विभक्त्यर्थतादात्म्यस्य वृत्तिज्ञानाधीनोपस्थितस्य शाब्दबोधीयविषयताप्रयोजकस्य प्रकारतया भासमानस्य कथमिच्छामात्रेण संसर्गतया भानमिति वाच्यम् १ तात्पर्यज्ञानं शाब्दबोधे प्रधानङ्कारणमेवञ्चाभेदसंसर्गकबोधस्य संसर्गतावादिमतेऽनादितात्पर्य कल्पनात् ।
वस्तुतस्तु
तत्रापि न नो विद्वेष इति मूलवक्ष्यमाणरीत्या तादात्म्यप्रकारकबोधस्यैवेष्टत्वान्मीमांसकाऽभिमतोऽयं ग्रन्थो न सयुक्तिकः । सूक्ष्मद्रष्टारस्तु अभेदस्य संसर्गत्वमेव नतु प्रकारत्वन्तथाहि, अनेकविभक्त्यर्थकल्पनापेक्षया " द्योतिका वाचिका वा स्युर्द्वित्वादीनां विभक्तय" इत्युक्त्या विभक्तीनां द्योतकत्वेनाऽभेदस्य संसर्गतयैव भानमिति । निष्कर्षतस्तु --
संसर्गतावादे राज्ञः पुरुष इत्यादौ षष्ठीविधानन्न स्याच्छेषत्वाऽभावात्, यदि न स्वत्वं षष्ठयर्थस्तथा “षष्ठी शेष" इतिपाणिनीयसूत्रस्य प्रवृत्तिर्न स्यात् । तथाच कथन्तत्र संसर्गतावादचारितार्थ्यमिति भावना विचारणीयैव ।
केचित्तु
संसर्गतावादिनाम्मते राज्ञः पुरुष इत्यत्र ङस्विभक्तिस्साधुत्वार्थिकैव । अर्थात् “षष्ठी शेष" इत्यनेन षष्ठयास्साधुत्वं सम्पाद्य पश्चात् संसर्गतया आकाङ्क्षाभास्यत्वात्तद्वानम्भवतु नतु ङस्वाच्यत्वेन प्रकारतयेति तत्त्वम् । नच स्वत्वसम्बन्धरूपशेषे षष्ठया विधानात् स्वत्वं तदर्थतया प्रकारयैव भासतामिति वाच्यम् १ "पाणिनीयम्महाशास्त्रम्पदसाधुत्वलक्षणमि" तिशिष्टोक्त्या पदसाधनाऽनन्तरं स्वत्वरूपार्थस्यान्वव्यतिरेकगम्यत्वेन लाघवानुरोधित्वेन च लाघवात्संसर्गतावादिपक्ष एव श्रेयानिति मन्थनात् । किञ्च षष्ठीविधानानन्तरं ङसूविभक्तिस्स्वत्वसंसर्गे तात्पर्यग्राहिकैव तेन ससर्गत्वसामान्येनान्यसम्बन्धस्य ग्रहणन्न भवतीत्यपि तात्पर्य्यमुन्नेयम् इति शुक्ला: । किञ्च “षष्ठी शेष” इतिसूत्रे षष्ठ्यर्थस्सम्बन्धत्वेन रूपेण सामान्यरूपेणेति यावत् । तत्तद्रूपेण च स्वस्वामिभावादिः । अत एवैकोनशतं षष्ठयर्था एकशतं षष्ठयर्था इति “षष्ठी स्थाने योगे"तिभाष्यं सङ्गच्छते । षष्ठयर्थस्वत्वादयश्च सांसर्गिकविषयतयैव भासन्ते नतु विभक्तिवाच्यत्वेन प्रकारतयेति तात्पर्यम् । अत एव “षष्ठी शेष" इतिसूत्रभाष्ये राजा विशेपण पुरुषो विशेष्य इति स्पष्टीकृतम् । यदि प्रकारतया भानमिष्टं स्यात्तर्हि राजनि