________________
९५
शास्त्राथ कलोपस्कृतः
स्तोकं पचति मृदु पचतीत्यादौ विरुद्धविभक्त्यवरुद्ध पदोपस्थापितस्यापि स्तोकमृद्वाधात्वर्थ पाकादावभेदान्वयोऽपि व्युत्पत्तिसिद्धः, तदनुरोधेन च द्वितीयान्तपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिकाकाङ्क्षात्वमुपगम्यते, क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभाक्तरुत्पद्यते क्रियाविशेषणानां कर्मत्वमित्यनुशासनेन तत्र कर्म त्वातिदेशात् ।
रूपितस्वत्वे विशेष्यता पुरुषनिरूपितस्वत्वे प्रकारतेत्येवम्भाव्यकृता वक्तव्यमासीत् केवलराश इत्युक्तेऽर्थानुसन्धानेऽपि अग्रे किन्तत् पुरः कः पदार्थ इति विशेषजिज्ञासोदेत, पुरुषादिपदार्थसंयोजनेन च सा जिज्ञासा निवर्त्तते । भाष्यसम्मन्यनेन षष्ठयास्सामान्यसम्बन्धत्त्रन्तत्तद्रूपेण स्वस्वामिभावादिविशेष सम्बन्धत्वं विशेषणत्वञ्चेत्यर्थद्वयं समायाति । अतो विशेषणात् षष्ठी । राज्ञ इत्युक्ते तत्तत्स्वत्वादिसम्बन्धाकाङ्क्षा सुखेन जायते स्वत्वादिसम्वन्धाकाङ्क्षोत्पादकस्वामित्वादिशक्तिरपि षष्ठयर्थ इति तत्रैव भाष्ये स्पष्टम् । स्वाभित्त्रस्याऽपि षठ्यर्थत्वेऽपि विशेषणादेव षष्ठी । यदि च पृरुषे स्वामित्वाद्यर्थविवक्षा तदा पुरुषस्य राजेति प्रयोग इष्यत एव । राज्ञ इत्यादौ पदान्तरसमभिव्याहारम्बिनैवाध्याहृतसम्बन्धिसामान्यनिरूपित विशेषणत्वप्रतीतिरिति वैचित्र्यम् ।
नच पूर्वोक्तरीत्या सांसर्गिकविषयतया स्वत्वस्य भानेऽर्थात्संसर्गतावादे “षष्ठी शेष" इत्यनेन षष्ठीविधानं कथं स्यात्यकारतावादे तु स्वस्वामिनावादिस्सम्बन्धश्शेष इति षष्ठी भवत्येवेति वाच्यम् ? सम्बन्धसामान्ये षष्ठीत्यस्यानूक्तत्वात् । विषयता त्रिविधा विषयत्वं षठ्यर्थः विषयतापदेन सम्बन्धसामान्यं गृह्यते ग्रामस्य ज्ञानमित्यत्र ग्रामविषयकं ज्ञानमिति प्रतीतेः प्रकारताख्या विशेष्यताख्या संसर्गताख्या चेति । स्वत्वस्य शेषत्वेऽपि शाब्दबोधे प्रकारताख्य विशेष्यताख्यविषयतया न भानमपि तु संसर्गताख्यविषयतयैव भानमिति न पाणिनीय सिद्धान्तविरोध इति । संसर्गतावादिनाम्मताभिप्रायो राजा विशेषणम्पुरुषो विशेष्य इति प्रकृतसूत्रभाष्यात् कारकप्रकरणे - न्यविभक्त्यर्थस्येव षष्ठ्यर्थस्याऽपि संसर्गमर्यादयैव भानम् । नच प्रकृतिप्रत्ययौ सद्दार्थ - म्बूतस्तयोः प्रत्ययार्थः प्रधानमिति न्यायविरोध इति वाच्यम् ? प्रत्ययार्थः प्रधानमित्यत्र प्रधान पदम्प्रकारताऽन्यविषयतावत्परमित्यर्थाश्रयणात् । तथाच संसर्गतावादे शाब्दिकमीमांसकयोश्शुद्धयुक्तियुतयोरैक्यमिति । किञ्च स्वत्वस्य प्रकारतया भाने तत्र निरूपकत्वसम्बन्धादिकल्पनं गौरवमिति संसर्गतावाद एवं युक्त इत्यादि शुक्लाः ।
मृदु पचतीति-
क्रियाविशेषणानाङ्कर्मत्वमेकत्वन्नपुंसकत्वञ्चेति नियमस्वरूपम् ।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाऽग्रेडितान्तेषु ततोऽन्यत्राऽपि दृश्यते ॥
इति कारिकाघटकततोऽन्यत्रापि दृश्यत इत्यस्यान्यत्र कोऽथः क्रियाविशेषणस्थ -