________________
९६
व्युत्पत्तिवादः ले द्वितीयेत्यस्य फलितार्थमेतद्वचनन्नाऽपूर्वम् । अत एव पदवाक्यरत्नाकरे स्तोकम्पचतीत्येव तदुदाहरणन्दत्तम् । नच तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन घात्वर्थतावच्छेदकफलशालित्वात्कत रोप्सितेत्यनेनैव मुख्यकर्मत्वमलम्बचनेनेति वाच्यम् ? स्तो. कः पच्यत इत्यत्र कर्मणि लकारापत्तावनिष्टरूपापोः। ननु "ल : कर्मणी" तिसूत्रे कर्तृपदसाहचर्याद्वात्वर्थे भेदेनान्वयिनि कर्मणि लकारो नाऽमेदान्वयिनीति विशेषार्थेन तादृशप्रयोगाभावात् अतिदेशस्य लक्ष्यसाधकत्वेन न कर्मणि लकार इत्यपि बोध्यम् । अत एव स्तोकम्पाक इत्यादौ “कत्तु कर्मणो" रितिषष्ठी न । फलतावच्छेदकसम्बन्धमा. त्रेण धात्वर्थतावच्छेदकफलाश्रये कर्मणि लकारविधानेन स्तोकः पच्यते इत्यादीनामनि. ष्टत्वाच्च । व्यापारस्य फलव्यधिकरणत्वे सकर्मकत्वम् व्यापारस्य फलसमानाधिकरणत्वेऽकर्मकत्वमत एव स्तोकन्तिष्ठतीतिवाक्यन्नानुपपन्नम् । किञ्च मन्दं गच्छति द्रुतं गच्छतीस्यादावपि कर्मत्वन्न स्यात् संयोगात्मकम्फलन्न मन्दद्रुतनिठकिन्तु तादात्म्यसम्बन्धेन संयोगानुकूलव्यापारे मन्दादेरन्वयार्थमपि ततोऽन्यत्रापि दृश्यत इति फलितार्थवचनस्वीकार इत्यभिधानाच्च । __ नच क्रियाविशेषणनिष्ठद्वितीयाया एवंरीत्या विधाने कारकत्वाऽभावात्स्तोकपक्तेत्यादौ समासो न स्यादिति वाच्यम् । असति विशेषानुशासने कारकविभक्तिभिन्नविभक्त्यन्तेन समासानभिधानात् । कारकाधिकाराऽभावेऽपि लोकभाष्यप्रामाण्येन प्रथमायाः कारकविभक्तिवत्ततोऽन्यत्राऽपीतिविहिते कारकविभक्तित्वसौष्ठवात् । किश्व स्तोक पक्तेतिदशायामेकार्थीभावे विवक्षिते कर्मधारयसमास "स्तत्पुरुषस्समानाधिकरणः कर्मधारय' इतिसूत्रे सामानाधिकरण्यञ्च तदर्थयोरेव नतु समानविभक्तिकत्वन्तवेष्टमत एव "स्तोकनम्रा स्तनाभ्यामि" तिकालिदासप्रयोगः। 'स्तोकपक्तेत्यत्र कर्मधारय एवेति शब्दशक्तिप्रकाशिकाग्रन्यश्च मङ्गच्छेते । अत एव च महाकविर्महाविज्ञ इत्यादावेकदेशान्वयेऽपि समाससाधुतावत्स्तोकादेः पाकादावेकदेशान्वयेऽपि समास. सिद्धिसुकरत्वात् । तथाच वैयाकरणानाम्मतन्न युक्तमपि क्रियाविशेषणानामिति वचनन्ततोऽन्यत्राऽपि दृश्यत इति कारिकामूलकन्नाऽपूर्ववचनमिति युक्तियुक्तम् ।
नच "उभयसर्वतसोः कार्य'ति द्वितीयाविधायककारिकायामेकत्वयोश्चर्चेव नास्तीति तयोः कथं संसर्गस्ततोऽन्यत्रापीत्यस्य फलितार्थमेव नाऽपूर्वम्बचनमिति कथं सुसङ्गतमिति वाच्यम् ! कारिकाया वार्तिकरूपत्वेन "सूत्रकारस्यानुतिम्बातिककारः पूरयती"तिसिद्धान्तात्तावत्पर्यन्तार्थकल्पने क्षति विरहात् भाष्यप्रामाण्याच्छिप्टैलॊके तथैवानुशिष्टत्वाच्च ।
नच "क्रियाविशेषणानां कर्मत्वन्नपुंसकत्वश्चे"त्यनुशासने "जगाद मधुराम्वाचं बिशदाक्षरयालिनीमि'स्यादौ वाचः क्रियाविशेषणत्वान्नपुंसकत्वाऽपत्तौ विभक्तिलकि
क्रियाविशेषणानामित्ति-धात्वर्थनिष्ठविशेष्यतानिरूपितामेदसम्बन्धावच्छिन्न प्रकारताप्रयोजकपदो. त्तरं द्वितीया क्लीवत्स्वादिकञ्चेति तात्पर्यार्थः । उदाहरणन्तु स्फुटतरम ।